Sūkta 10
- Devatā देवता
- Agni
- Ṛṣi ऋषि
- Gaya Ātreya
- Chandas छन्दस्
- Anuṣṭubh, Paṅkti
Metres by ṛk
1st set of styles nicṛdanuṣṭup (1, 6); bhuriguṣṇik (2, 3); svarāḍbṛhatī (4); anuṣṭup (5); nicṛtpaṅkti (7)
2nd set of styles anuṣṭubh (1-3, 5, 6); paṅkti (4, 7)
-
Ṛk 1
अग्न॒ ओजि॑ष्ठ॒मा भ॑र द्यु॒म्नम॒स्मभ्य॑मध्रिगो ।
प्र नो॑ रा॒या परी॑णसा॒ रत्सि॒ वाजा॑य॒ पंथां॑ ॥अग्न ओजिष्ठम् आ भर द्युम्नम् अस्मभ्यम् अध्रिगो |
प्र नो राया परीणसा रत्सि वाजाय पन्थाम् ||ágna ójiṣṭhamā́ bhara dyumnámasmábhyamadhrigo ǀ
prá no rāyā́ párīṇasā rátsi vā́jāya pánthām ǁagna ojiṣṭham ā bhara dyumnam asmabhyam adhrigo |
pra no rāyā parīṇasā ratsi vājāya panthām ||अग्ने॑ । ओजि॑ष्ठम् । आ । भ॒र॒ । द्यु॒म्नम् । अ॒स्मभ्य॑म् । अ॒ध्रि॒गो॒ इत्य॑ध्रिऽगो ।
प्र । नः॒ । रा॒या । परी॑णसा । रत्सि॑ । वाजा॑य । पन्था॑म् ॥अग्ने । ओजिष्ठम् । आ । भर । द्युम्नम् । अस्मभ्यम् । अध्रिगो इत्यध्रिऽगो ।
प्र । नः । राया । परीणसा । रत्सि । वाजाय । पन्थाम् ॥ágne ǀ ójiṣṭham ǀ ā́ ǀ bhara ǀ dyumnám ǀ asmábhyam ǀ adhrigo ítyadhri-go ǀ
prá ǀ naḥ ǀ rāyā́ ǀ párīṇasā ǀ rátsi ǀ vā́jāya ǀ pánthām ǁagne ǀ ojiṣṭham ǀ ā ǀ bhara ǀ dyumnam ǀ asmabhyam ǀ adhrigo ityadhri-go ǀ
pra ǀ naḥ ǀ rāyā ǀ parīṇasā ǀ ratsi ǀ vājāya ǀ panthām ǁ5.10.1 Aṣṭaka 4.1.2.1Anuvāka 5.1.93
-
Ṛk 2
त्वं नो॑ अग्ने अद्भुत॒ क्रत्वा॒ दक्ष॑स्य मं॒हना॑ ।
त्वे अ॑सु॒र्य१॒॑मारु॑हत्क्रा॒णा मि॒त्रो न य॒ज्ञियः॑ ॥त्वं नो अग्ने अद्भुत क्रत्वा दक्षस्य मंहना |
त्वे असुर्यम् आरुहत् क्राणा मित्रो न यज्ञियः ||tvám no agne adbhuta krátvā dákṣasya maṃhánā ǀ
tvé asuryámā́ruhatkrāṇā́ mitró ná yajñíyaḥ ǁtvaṃ no agne adbhuta kratvā dakṣasya maṃhanā |
tve asuryam āruhat krāṇā mitro na yajñiyaḥ ||त्वम् । नः॒ । अ॒ग्ने॒ । अ॒द्भु॒त॒ । क्रत्वा॑ । दक्ष॑स्य । मं॒हना॑ ।
त्वे इति॑ । अ॒सु॒र्य॑म् । आ । अ॒रु॒ह॒त् । क्रा॒णा । मि॒त्रः । न । य॒ज्ञियः॑ ॥त्वम् । नः । अग्ने । अद्भुत । क्रत्वा । दक्षस्य । मंहना ।
त्वे इति । असुर्यम् । आ । अरुहत् । क्राणा । मित्रः । न । यज्ञियः ॥tvám ǀ naḥ ǀ agne ǀ adbhuta ǀ krátvā ǀ dákṣasya ǀ maṃhánā ǀ
tvé íti ǀ asuryám ǀ ā́ ǀ aruhat ǀ krāṇā́ ǀ mitráḥ ǀ ná ǀ yajñíyaḥ ǁtvam ǀ naḥ ǀ agne ǀ adbhuta ǀ kratvā ǀ dakṣasya ǀ maṃhanā ǀ
tve iti ǀ asuryam ǀ ā ǀ aruhat ǀ krāṇā ǀ mitraḥ ǀ na ǀ yajñiyaḥ ǁ5.10.2 Aṣṭaka 4.1.2.2Anuvāka 5.1.94
-
Ṛk 3
त्वं नो॑ अग्न एषां॒ गयं॑ पु॒ष्टिं च॑ वर्धय ।
ये स्तोमे॑भिः॒ प्र सू॒रयो॒ नरो॑ म॒घान्या॑न॒शुः ॥त्वं नो अग्न एषां गयम् पुष्टिं च वर्धय |
ये स्तोमेभिः प्र सूरयो नरो मघान्य् आनशुः ||tvám no agna eṣām gáyam puṣṭím ca vardhaya ǀ
yé stómebhiḥ prá sūráyo náro maghā́nyānaśúḥ ǁtvaṃ no agna eṣāṃ gayam puṣṭiṃ ca vardhaya |
ye stomebhiḥ pra sūrayo naro maghāny ānaśuḥ ||त्वम् । नः॒ । अ॒ग्ने॒ । ए॒षा॒म् । गय॑म् । पु॒ष्टिम् । च॒ । व॒र्ध॒य॒ ।
ये । स्तोमे॑भिः । प्र । सू॒रयः॑ । नरः॑ । म॒घानि॑ । आ॒न॒शुः ॥त्वम् । नः । अग्ने । एषाम् । गयम् । पुष्टिम् । च । वर्धय ।
ये । स्तोमेभिः । प्र । सूरयः । नरः । मघानि । आनशुः ॥tvám ǀ naḥ ǀ agne ǀ eṣām ǀ gáyam ǀ puṣṭím ǀ ca ǀ vardhaya ǀ
yé ǀ stómebhiḥ ǀ prá ǀ sūráyaḥ ǀ náraḥ ǀ maghā́ni ǀ ānaśúḥ ǁtvam ǀ naḥ ǀ agne ǀ eṣām ǀ gayam ǀ puṣṭim ǀ ca ǀ vardhaya ǀ
ye ǀ stomebhiḥ ǀ pra ǀ sūrayaḥ ǀ naraḥ ǀ maghāni ǀ ānaśuḥ ǁ5.10.3 Aṣṭaka 4.1.2.3Anuvāka 5.1.95
-
Ṛk 4
ये अ॑ग्ने चंद्र ते॒ गिरः॑ शुं॒भंत्यश्व॑राधसः ।
शुष्मे॑भिः शु॒ष्मिणो॒ नरो॑ दि॒वश्चि॒द्येषां॑ बृ॒हत्सु॑की॒र्तिर्बोध॑ति॒ त्मना॑ ॥ये अग्ने चन्द्र ते गिरः शुम्भन्त्य् अश्वराधसः |
शुष्मेभिः शुष्मिणो नरो दिवश् चिद् येषाम् बृहत् सुकीर्तिर् बोधति त्मना ||yé agne candra te gíraḥ śumbhántyáśvarādhasaḥ ǀ
śúṣmebhiḥ śuṣmíṇo náro diváścidyéṣām bṛhátsukīrtírbódhati tmánā ǁye agne candra te giraḥ śumbhanty aśvarādhasaḥ |
śuṣmebhiḥ śuṣmiṇo naro divaś cid yeṣām bṛhat sukīrtir bodhati tmanā ||ये । अ॒ग्ने॒ । च॒न्द्र॒ । ते॒ । गिरः॑ । शु॒म्भन्ति॑ । अश्व॑ऽराधसः ।
शुष्मे॑भिः । शु॒ष्मिणः॑ । नरः॑ । दि॒वः । चि॒त् । येषा॑म् । बृ॒हत् । सु॒ऽकी॒र्तिः । बोध॑ति । त्मना॑ ॥ये । अग्ने । चन्द्र । ते । गिरः । शुम्भन्ति । अश्वऽराधसः ।
शुष्मेभिः । शुष्मिणः । नरः । दिवः । चित् । येषाम् । बृहत् । सुऽकीर्तिः । बोधति । त्मना ॥yé ǀ agne ǀ candra ǀ te ǀ gíraḥ ǀ śumbhánti ǀ áśva-rādhasaḥ ǀ
śúṣmebhiḥ ǀ śuṣmíṇaḥ ǀ náraḥ ǀ diváḥ ǀ cit ǀ yéṣām ǀ bṛhát ǀ su-kīrtíḥ ǀ bódhati ǀ tmánā ǁye ǀ agne ǀ candra ǀ te ǀ giraḥ ǀ śumbhanti ǀ aśva-rādhasaḥ ǀ
śuṣmebhiḥ ǀ śuṣmiṇaḥ ǀ naraḥ ǀ divaḥ ǀ cit ǀ yeṣām ǀ bṛhat ǀ su-kīrtiḥ ǀ bodhati ǀ tmanā ǁ5.10.4 Aṣṭaka 4.1.2.4Anuvāka 5.1.96
-
Ṛk 5
तव॒ त्ये अ॑ग्ने अ॒र्चयो॒ भ्राजं॑तो यंति धृष्णु॒या ।
परि॑ज्मानो॒ न वि॒द्युतः॑ स्वा॒नो रथो॒ न वा॑ज॒युः ॥तव त्ये अग्ने अर्चयो भ्राजन्तो यन्ति धृष्णुया |
परिज्मानो न विद्युतः स्वानो रथो न वाजयुः ||táva tyé agne arcáyo bhrā́janto yanti dhṛṣṇuyā́ ǀ
párijmāno ná vidyútaḥ svānó rátho ná vājayúḥ ǁtava tye agne arcayo bhrājanto yanti dhṛṣṇuyā |
parijmāno na vidyutaḥ svāno ratho na vājayuḥ ||तव॑ । त्ये । अ॒ग्ने॒ । अ॒र्चयः॑ । भ्राज॑न्तः । य॒न्ति॒ । धृ॒ष्णु॒ऽया ।
परि॑ऽज्मानः । न । वि॒ऽद्युतः॑ । स्वा॒नः । रथः॑ । न । वा॒ज॒ऽयुः ॥तव । त्ये । अग्ने । अर्चयः । भ्राजन्तः । यन्ति । धृष्णुऽया ।
परिऽज्मानः । न । विऽद्युतः । स्वानः । रथः । न । वाजऽयुः ॥táva ǀ tyé ǀ agne ǀ arcáyaḥ ǀ bhrā́jantaḥ ǀ yanti ǀ dhṛṣṇu-yā́ ǀ
pári-jmānaḥ ǀ ná ǀ vi-dyútaḥ ǀ svānáḥ ǀ ráthaḥ ǀ ná ǀ vāja-yúḥ ǁtava ǀ tye ǀ agne ǀ arcayaḥ ǀ bhrājantaḥ ǀ yanti ǀ dhṛṣṇu-yā ǀ
pari-jmānaḥ ǀ na ǀ vi-dyutaḥ ǀ svānaḥ ǀ rathaḥ ǀ na ǀ vāja-yuḥ ǁ5.10.5 Aṣṭaka 4.1.2.5Anuvāka 5.1.97
-
Ṛk 6
नू नो॑ अग्न ऊ॒तये॑ स॒बाध॑सश्च रा॒तये॑ ।
अ॒स्माका॑सश्च सू॒रयो॒ विश्वा॒ आशा॑स्तरी॒षणि॑ ॥नू नो अग्न ऊतये सबाधसश् च रातये |
अस्माकासश् च सूरयो विश्वा आशास् तरीषणि ||nū́ no agna ūtáye sabā́dhasaśca rātáye ǀ
asmā́kāsaśca sūráyo víśvā ā́śāstarīṣáṇi ǁnū no agna ūtaye sabādhasaś ca rātaye |
asmākāsaś ca sūrayo viśvā āśās tarīṣaṇi ||नु । नः॒ । अ॒ग्ने॒ । ऊ॒तये॑ । स॒ऽबाध॑सः । च॒ । रा॒तये॑ ।
अ॒स्माका॑सः । च॒ । सू॒रयः॑ । विश्वाः॑ । आशाः॑ । त॒री॒षणि॑ ॥नु । नः । अग्ने । ऊतये । सऽबाधसः । च । रातये ।
अस्माकासः । च । सूरयः । विश्वाः । आशाः । तरीषणि ॥nú ǀ naḥ ǀ agne ǀ ūtáye ǀ sa-bā́dhasaḥ ǀ ca ǀ rātáye ǀ
asmā́kāsaḥ ǀ ca ǀ sūráyaḥ ǀ víśvāḥ ǀ ā́śāḥ ǀ tarīṣáṇi ǁnu ǀ naḥ ǀ agne ǀ ūtaye ǀ sa-bādhasaḥ ǀ ca ǀ rātaye ǀ
asmākāsaḥ ǀ ca ǀ sūrayaḥ ǀ viśvāḥ ǀ āśāḥ ǀ tarīṣaṇi ǁ5.10.6 Aṣṭaka 4.1.2.6Anuvāka 5.1.98
-
Ṛk 7
त्वं नो॑ अग्ने अंगिरः स्तु॒तः स्तवा॑न॒ आ भ॑र ।
होत॑र्विभ्वा॒सहं॑ र॒यिं स्तो॒तृभ्यः॒ स्तव॑से च न उ॒तैधि॑ पृ॒त्सु नो॑ वृ॒धे ॥त्वं नो अग्ने अङ्गिर स्तुत स्तवान आ भर |
होतर् विभ्वासहं रयिं स्तोतृभ्य स्तवसे च न उतैधि पृत्सु नो वृधे ||tvám no agne aṅgiraḥ stutáḥ stávāna ā́ bhara ǀ
hótarvibhvāsáham rayím stotṛ́bhyaḥ stávase ca na utáidhi pṛtsú no vṛdhé ǁtvaṃ no agne aṅgira stuta stavāna ā bhara |
hotar vibhvāsahaṃ rayiṃ stotṛbhya stavase ca na utaidhi pṛtsu no vṛdhe ||त्वम् । नः॒ । अ॒ग्ने॒ । अ॒ङ्गि॒रः॒ । स्तु॒तः । स्तवा॑नः । आ । भ॒र॒ ।
होतः॑ । वि॒भ्व॒ऽसह॑म् । र॒यिम् । स्तो॒तृऽभ्यः॑ । स्तव॑से । च॒ । नः॒ । उ॒त । ए॒धि॒ । पृ॒त्ऽसु । नः॒ । वृ॒धे ॥त्वम् । नः । अग्ने । अङ्गिरः । स्तुतः । स्तवानः । आ । भर ।
होतः । विभ्वऽसहम् । रयिम् । स्तोतृऽभ्यः । स्तवसे । च । नः । उत । एधि । पृत्ऽसु । नः । वृधे ॥tvám ǀ naḥ ǀ agne ǀ aṅgiraḥ ǀ stutáḥ ǀ stávānaḥ ǀ ā́ ǀ bhara ǀ
hótaḥ ǀ vibhva-sáham ǀ rayím ǀ stotṛ́-bhyaḥ ǀ stávase ǀ ca ǀ naḥ ǀ utá ǀ edhi ǀ pṛt-sú ǀ naḥ ǀ vṛdhé ǁtvam ǀ naḥ ǀ agne ǀ aṅgiraḥ ǀ stutaḥ ǀ stavānaḥ ǀ ā ǀ bhara ǀ
hotaḥ ǀ vibhva-saham ǀ rayim ǀ stotṛ-bhyaḥ ǀ stavase ǀ ca ǀ naḥ ǀ uta ǀ edhi ǀ pṛt-su ǀ naḥ ǀ vṛdhe ǁ5.10.7 Aṣṭaka 4.1.2.7Anuvāka 5.1.99
Text, recitation and interpretations from the Ṛgveda database of theveda.org.in.