Ṛgveda · Maṇḍala 5

Sūkta 43

Viśvedevās · Atri Bhauma · 17 ṛks

Link
Devatā देवता
Viśvedevās
Ṛṣi ऋषि
Atri Bhauma
Chandas छन्दस्
Triṣṭubh, Ekapadā Virāj
Metres by ṛk

1st set of styles triṣṭup (2, 4, 5, 10-12, 15); nicṛttriṣṭup (1, 3, 6, 8, 9, 17); virāṭtrisṭup (7, 13); bhurikpaṅkti (14); yājuṣīpaṅkti (16)

2nd set of styles triṣṭubh (1-15, 17); ekapadā virāj (16)

  1. Ṛk 1

    आ धे॒नवः॒ पय॑सा॒ तूर्ण्य॑र्था॒ अम॑र्धंती॒रुप॑ नो यंतु॒ मध्वा॑ ।
    म॒हो रा॒ये बृ॑ह॒तीः स॒प्त विप्रो॑ मयो॒भुवो॑ जरि॒ता जो॑हवीति ॥

    आ धेनवः पयसा तूर्ण्यर्था अमर्धन्तीर् उप नो यन्तु मध्वा |
    महो राये बृहतीः सप्त विप्रो मयोभुवो जरिता जोहवीति ||

    ā́ dhenávaḥ páyasā tū́rṇyarthā ámardhantīrúpa no yantu mádhvā ǀ
    mahó rāyé bṛhatī́ḥ saptá vípro mayobhúvo jaritā́ johavīti ǁ

    ā dhenavaḥ payasā tūrṇyarthā amardhantīr upa no yantu madhvā |
    maho rāye bṛhatīḥ sapta vipro mayobhuvo jaritā johavīti ||

    आ । धे॒नवः॑ । पय॑सा । तूर्णि॑ऽअर्थाः । अम॑र्धन्तीः । उप॑ । नः॒ । य॒न्तु॒ । मध्वा॑ ।
    म॒हः । रा॒ये । बृ॒ह॒तीः । स॒प्त । विप्रः॑ । म॒यः॒ऽभुवः॑ । ज॒रि॒ता । जो॒ह॒वी॒ति॒ ॥

    आ । धेनवः । पयसा । तूर्णिऽअर्थाः । अमर्धन्तीः । उप । नः । यन्तु । मध्वा ।
    महः । राये । बृहतीः । सप्त । विप्रः । मयःऽभुवः । जरिता । जोहवीति ॥

    ā́ ǀ dhenávaḥ ǀ páyasā ǀ tū́rṇi-arthāḥ ǀ ámardhantīḥ ǀ úpa ǀ naḥ ǀ yantu ǀ mádhvā ǀ
    maháḥ ǀ rāyé ǀ bṛhatī́ḥ ǀ saptá ǀ vípraḥ ǀ mayaḥ-bhúvaḥ ǀ jaritā́ ǀ johavīti ǁ

    ā ǀ dhenavaḥ ǀ payasā ǀ tūrṇi-arthāḥ ǀ amardhantīḥ ǀ upa ǀ naḥ ǀ yantu ǀ madhvā ǀ
    mahaḥ ǀ rāye ǀ bṛhatīḥ ǀ sapta ǀ vipraḥ ǀ mayaḥ-bhuvaḥ ǀ jaritā ǀ johavīti ǁ

    5.43.1 Aṣṭaka 4.2.20.1Anuvāka 5.3.96

  2. Ṛk 2

    आ सु॑ष्टु॒ती नम॑सा वर्त॒यध्यै॒ द्यावा॒ वाजा॑य पृथि॒वी अमृ॑ध्रे ।
    पि॒ता मा॒ता मधु॑वचाः सु॒हस्ता॒ भरे॑भरे नो य॒शसा॑वविष्टां ॥

    आ सुष्टुती नमसा वर्तयध्यै द्यावा वाजाय पृथिवी अमृध्रे |
    पिता माता मधुवचाः सुहस्ता भरे-भरे नो यशसाव् अविष्टाम् ||

    ā́ suṣṭutī́ námasā vartayádhyai dyā́vā vā́jāya pṛthivī́ ámṛdhre ǀ
    pitā́ mātā́ mádhuvacāḥ suhástā bhárebhare no yaśásāvaviṣṭām ǁ

    ā suṣṭutī namasā vartayadhyai dyāvā vājāya pṛthivī amṛdhre |
    pitā mātā madhuvacāḥ suhastā bhare-bhare no yaśasāv aviṣṭām ||

    आ । सु॒ऽस्तु॒ती । नम॑सा । व॒र्त॒यध्यै॑ । द्यावा॑ । वाजा॑य । पृ॒थि॒वी इति॑ । अमृ॑ध्रे॒ इति॑ ।
    पि॒ता । मा॒ता । मधु॑ऽवचाः । सु॒ऽहस्ता॑ । भरे॑ऽभरे । नः॒ । य॒शसौ॑ । अ॒वि॒ष्टा॒म् ॥

    आ । सुऽस्तुती । नमसा । वर्तयध्यै । द्यावा । वाजाय । पृथिवी इति । अमृध्रे इति ।
    पिता । माता । मधुऽवचाः । सुऽहस्ता । भरेऽभरे । नः । यशसौ । अविष्टाम् ॥

    ā́ ǀ su-stutī́ ǀ námasā ǀ vartayádhyai ǀ dyā́vā ǀ vā́jāya ǀ pṛthivī́ íti ǀ ámṛdhre íti ǀ
    pitā́ ǀ mātā́ ǀ mádhu-vacāḥ ǀ su-hástā ǀ bháre-bhare ǀ naḥ ǀ yaśásau ǀ aviṣṭām ǁ

    ā ǀ su-stutī ǀ namasā ǀ vartayadhyai ǀ dyāvā ǀ vājāya ǀ pṛthivī iti ǀ amṛdhre iti ǀ
    pitā ǀ mātā ǀ madhu-vacāḥ ǀ su-hastā ǀ bhare-bhare ǀ naḥ ǀ yaśasau ǀ aviṣṭām ǁ

    5.43.2 Aṣṭaka 4.2.20.2Anuvāka 5.3.97

  3. Ṛk 3

    अध्व॑र्यवश्चकृ॒वांसो॒ मधू॑नि॒ प्र वा॒यवे॑ भरत॒ चारु॑ शु॒क्रं ।
    होते॑व नः प्रथ॒मः पा॑ह्य॒स्य देव॒ मध्वो॑ ररि॒मा ते॒ मदा॑य ॥

    अध्वर्यवश् चकृवांसो मधूनि प्र वायवे भरत चारु शुक्रम् |
    होतेव नः प्रथमः पाह्य् अस्य देव मध्वो ररिमा ते मदाय ||

    ádhvaryavaścakṛvā́ṃso mádhūni prá vāyáve bharata cā́ru śukrám ǀ
    hóteva naḥ prathamáḥ pāhyasyá déva mádhvo rarimā́ te mádāya ǁ

    adhvaryavaś cakṛvāṃso madhūni pra vāyave bharata cāru śukram |
    hoteva naḥ prathamaḥ pāhy asya deva madhvo rarimā te madāya ||

    अध्व॑र्यवः । च॒कृ॒ऽवांसः॑ । मधू॑नि । प्र । वा॒यवे॑ । भ॒र॒त॒ । चारु॑ । शु॒क्रम् ।
    होता॑ऽइव । नः॒ । प्र॒थ॒मः । पा॒हि॒ । अ॒स्य । देव॑ । मध्वः॑ । र॒रि॒म । ते॒ । मदा॑य ॥

    अध्वर्यवः । चकृऽवांसः । मधूनि । प्र । वायवे । भरत । चारु । शुक्रम् ।
    होताऽइव । नः । प्रथमः । पाहि । अस्य । देव । मध्वः । ररिम । ते । मदाय ॥

    ádhvaryavaḥ ǀ cakṛ-vā́ṃsaḥ ǀ mádhūni ǀ prá ǀ vāyáve ǀ bharata ǀ cā́ru ǀ śukrám ǀ
    hótā-iva ǀ naḥ ǀ prathamáḥ ǀ pāhi ǀ asyá ǀ déva ǀ mádhvaḥ ǀ rarimá ǀ te ǀ mádāya ǁ

    adhvaryavaḥ ǀ cakṛ-vāṃsaḥ ǀ madhūni ǀ pra ǀ vāyave ǀ bharata ǀ cāru ǀ śukram ǀ
    hotā-iva ǀ naḥ ǀ prathamaḥ ǀ pāhi ǀ asya ǀ deva ǀ madhvaḥ ǀ rarima ǀ te ǀ madāya ǁ

    5.43.3 Aṣṭaka 4.2.20.3Anuvāka 5.3.98

  4. Ṛk 4

    दश॒ क्षिपो॑ युंजते बा॒हू अद्रिं॒ सोम॑स्य॒ या श॑मि॒तारा॑ सु॒हस्ता॑ ।
    मध्वो॒ रसं॑ सु॒गभ॑स्तिर्गिरि॒ष्ठां चनि॑श्चदद्दुदुहे शु॒क्रमं॒शुः ॥

    दश क्षिपो युञ्जते बाहू अद्रिं सोमस्य या शमितारा सुहस्ता |
    मध्वो रसं सुगभस्तिर् गिरिष्ठां चनिश्चदद् दुदुहे शुक्रम् अंशुः ||

    dáśa kṣípo yuñjate bāhū́ ádrim sómasya yā́ śamitā́rā suhástā ǀ
    mádhvo rásam sugábhastirgiriṣṭhā́m cániścadadduduhe śukrámaṃśúḥ ǁ

    daśa kṣipo yuñjate bāhū adriṃ somasya yā śamitārā suhastā |
    madhvo rasaṃ sugabhastir giriṣṭhāṃ caniścadad duduhe śukram aṃśuḥ ||

    दश॑ । क्षिपः॑ । यु॒ञ्ज॒ते॒ । बा॒हू इति॑ । अद्रि॑म् । सोम॑स्य । या । श॒मि॒तारा॑ । सु॒ऽहस्ता॑ ।
    मध्वः॑ । रस॑म् । सु॒ऽगभ॑स्तिः । गि॒रि॒ऽस्थाम् । चनि॑श्चदत् । दु॒दु॒हे॒ । शु॒क्रम् । अं॒शुः ॥

    दश । क्षिपः । युञ्जते । बाहू इति । अद्रिम् । सोमस्य । या । शमितारा । सुऽहस्ता ।
    मध्वः । रसम् । सुऽगभस्तिः । गिरिऽस्थाम् । चनिश्चदत् । दुदुहे । शुक्रम् । अंशुः ॥

    dáśa ǀ kṣípaḥ ǀ yuñjate ǀ bāhū́ íti ǀ ádrim ǀ sómasya ǀ yā́ ǀ śamitā́rā ǀ su-hástā ǀ
    mádhvaḥ ǀ rásam ǀ su-gábhastiḥ ǀ giri-sthā́m ǀ cániścadat ǀ duduhe ǀ śukrám ǀ aṃśúḥ ǁ

    daśa ǀ kṣipaḥ ǀ yuñjate ǀ bāhū iti ǀ adrim ǀ somasya ǀ yā ǀ śamitārā ǀ su-hastā ǀ
    madhvaḥ ǀ rasam ǀ su-gabhastiḥ ǀ giri-sthām ǀ caniścadat ǀ duduhe ǀ śukram ǀ aṃśuḥ ǁ

    5.43.4 Aṣṭaka 4.2.20.4Anuvāka 5.3.99

  5. Ṛk 5

    असा॑वि ते जुजुषा॒णाय॒ सोमः॒ क्रत्वे॒ दक्षा॑य बृह॒ते मदा॑य ।
    हरी॒ रथे॑ सु॒धुरा॒ योगे॑ अ॒र्वागिंद्र॑ प्रि॒या कृ॑णुहि हू॒यमा॑नः ॥

    असावि ते जुजुषाणाय सोमः क्रत्वे दक्षाय बृहते मदाय |
    हरी रथे सुधुरा योगे अर्वाग् इन्द्र प्रिया कृणुहि हूयमानः ||

    ásāvi te jujuṣāṇā́ya sómaḥ krátve dákṣāya bṛhaté mádāya ǀ
    hárī ráthe sudhúrā yóge arvā́gíndra priyā́ kṛṇuhi hūyámānaḥ ǁ

    asāvi te jujuṣāṇāya somaḥ kratve dakṣāya bṛhate madāya |
    harī rathe sudhurā yoge arvāg indra priyā kṛṇuhi hūyamānaḥ ||

    असा॑वि । ते॒ । जु॒जु॒षा॒णाय॑ । सोमः॑ । क्रत्वे॑ । दक्षा॑य । बृ॒ह॒ते । मदा॑य ।
    हरी॒ इति॑ । रथे॑ । सु॒ऽधुरा॑ । योगे॑ । अ॒र्वाक् । इन्द्र॑ । प्रि॒या । कृ॒णु॒हि॒ । हू॒यमा॑नः ॥

    असावि । ते । जुजुषाणाय । सोमः । क्रत्वे । दक्षाय । बृहते । मदाय ।
    हरी इति । रथे । सुऽधुरा । योगे । अर्वाक् । इन्द्र । प्रिया । कृणुहि । हूयमानः ॥

    ásāvi ǀ te ǀ jujuṣāṇā́ya ǀ sómaḥ ǀ krátve ǀ dákṣāya ǀ bṛhaté ǀ mádāya ǀ
    hárī íti ǀ ráthe ǀ su-dhúrā ǀ yóge ǀ arvā́k ǀ índra ǀ priyā́ ǀ kṛṇuhi ǀ hūyámānaḥ ǁ

    asāvi ǀ te ǀ jujuṣāṇāya ǀ somaḥ ǀ kratve ǀ dakṣāya ǀ bṛhate ǀ madāya ǀ
    harī iti ǀ rathe ǀ su-dhurā ǀ yoge ǀ arvāk ǀ indra ǀ priyā ǀ kṛṇuhi ǀ hūyamānaḥ ǁ

    5.43.5 Aṣṭaka 4.2.20.5Anuvāka 5.3.100

  6. Ṛk 6

    आ नो॑ म॒हीम॒रम॑तिं स॒जोषा॒ ग्नां दे॒वीं नम॑सा रा॒तह॑व्यां ।
    मधो॒र्मदा॑य बृह॒तीमृ॑त॒ज्ञामाग्ने॑ वह प॒थिभि॑र्देव॒यानैः॑ ॥

    आ नो महीम् अरमतिं सजोषा ग्नां देवीं नमसा रातहव्याम् |
    मधोर् मदाय बृहतीम् ऋतज्ञाम् आग्ने वह पथिभिर् देवयानैः ||

    ā́ no mahī́marámatim sajóṣā gnā́m devī́m námasā rātáhavyām ǀ
    mádhormádāya bṛhatī́mṛtajñā́mā́gne vaha pathíbhirdevayā́naiḥ ǁ

    ā no mahīm aramatiṃ sajoṣā gnāṃ devīṃ namasā rātahavyām |
    madhor madāya bṛhatīm ṛtajñām āgne vaha pathibhir devayānaiḥ ||

    आ । नः॒ । म॒हीम् । अ॒रम॑तिम् । स॒ऽजोषाः॑ । ग्नाम् । दे॒वीम् । नम॑सा । रा॒तऽह॑व्याम् ।
    मधोः॑ । मदा॑य । बृ॒ह॒तीम् । ऋ॒त॒ऽज्ञाम् । आ । अ॒ग्ने॒ । व॒ह॒ । प॒थिऽभिः॑ । दे॒व॒ऽयानैः॑ ॥

    आ । नः । महीम् । अरमतिम् । सऽजोषाः । ग्नाम् । देवीम् । नमसा । रातऽहव्याम् ।
    मधोः । मदाय । बृहतीम् । ऋतऽज्ञाम् । आ । अग्ने । वह । पथिऽभिः । देवऽयानैः ॥

    ā́ ǀ naḥ ǀ mahī́m ǀ arámatim ǀ sa-jóṣāḥ ǀ gnā́m ǀ devī́m ǀ námasā ǀ rātá-havyām ǀ
    mádhoḥ ǀ mádāya ǀ bṛhatī́m ǀ ṛta-jñā́m ǀ ā́ ǀ agne ǀ vaha ǀ pathí-bhiḥ ǀ deva-yā́naiḥ ǁ

    ā ǀ naḥ ǀ mahīm ǀ aramatim ǀ sa-joṣāḥ ǀ gnām ǀ devīm ǀ namasā ǀ rāta-havyām ǀ
    madhoḥ ǀ madāya ǀ bṛhatīm ǀ ṛta-jñām ǀ ā ǀ agne ǀ vaha ǀ pathi-bhiḥ ǀ deva-yānaiḥ ǁ

    5.43.6 Aṣṭaka 4.2.21.1Anuvāka 5.3.101

  7. Ṛk 7

    अं॒जंति॒ यं प्र॒थयं॑तो॒ न विप्रा॑ व॒पावं॑तं॒ नाग्निना॒ तपं॑तः ।
    पि॒तुर्न पु॒त्र उ॒पसि॒ प्रेष्ठ॒ आ घ॒र्मो अ॒ग्निमृ॒तय॑न्नसादि ॥

    अञ्जन्ति यम् प्रथयन्तो न विप्रा वपावन्तं नाग्निना तपन्तः |
    पितुर् न पुत्र उपसि प्रेष्ठ आ घर्मो अग्निम् ऋतयन्न् असादि ||

    añjánti yám pratháyanto ná víprā vapā́vantam nā́gnínā tápantaḥ ǀ
    pitúrná putrá upási préṣṭha ā́ gharmó agnímṛtáyannasādi ǁ

    añjanti yam prathayanto na viprā vapāvantaṃ nāgninā tapantaḥ |
    pitur na putra upasi preṣṭha ā gharmo agnim ṛtayann asādi ||

    अ॒ञ्जन्ति॑ । यम् । प्र॒थय॑न्तः । न । विप्राः॑ । व॒पाऽव॑न्तम् । न । अ॒ग्निना॑ । तप॑न्तः ।
    पि॒तुः । न । पु॒त्रः । उ॒पसि॑ । प्रेष्ठः॑ । आ । घ॒र्मः । अ॒ग्निम् । ऋ॒तय॑न् । अ॒सा॒दि॒ ॥

    अञ्जन्ति । यम् । प्रथयन्तः । न । विप्राः । वपाऽवन्तम् । न । अग्निना । तपन्तः ।
    पितुः । न । पुत्रः । उपसि । प्रेष्ठः । आ । घर्मः । अग्निम् । ऋतयन् । असादि ॥

    añjánti ǀ yám ǀ pratháyantaḥ ǀ ná ǀ víprāḥ ǀ vapā́-vantam ǀ ná ǀ agnínā ǀ tápantaḥ ǀ
    pitúḥ ǀ ná ǀ putráḥ ǀ upási ǀ préṣṭhaḥ ǀ ā́ ǀ gharmáḥ ǀ agním ǀ ṛtáyan ǀ asādi ǁ

    añjanti ǀ yam ǀ prathayantaḥ ǀ na ǀ viprāḥ ǀ vapā-vantam ǀ na ǀ agninā ǀ tapantaḥ ǀ
    pituḥ ǀ na ǀ putraḥ ǀ upasi ǀ preṣṭhaḥ ǀ ā ǀ gharmaḥ ǀ agnim ǀ ṛtayan ǀ asādi ǁ

    5.43.7 Aṣṭaka 4.2.21.2Anuvāka 5.3.102

  8. Ṛk 8

    अच्छा॑ म॒ही बृ॑ह॒ती शंत॑मा॒ गीर्दू॒तो न गं॑त्व॒श्विना॑ हु॒वध्यै॑ ।
    म॒यो॒भुवा॑ स॒रथा या॑तम॒र्वाग्गं॒तं नि॒धिं धुर॑मा॒णिर्न नाभिं॑ ॥

    अच्छा मही बृहती शन्तमा गीर् दूतो न गन्त्व् अश्विना हुवध्यै |
    मयोभुवा सरथा यातम् अर्वाग् गन्तं निधिं धुरम् आणिर् न नाभिम् ||

    ácchā mahī́ bṛhatī́ śáṃtamā gī́rdūtó ná gantvaśvínā huvádhyai ǀ
    mayobhúvā saráthā́ yātamarvā́ggantám nidhím dhúramāṇírná nā́bhim ǁ

    acchā mahī bṛhatī śantamā gīr dūto na gantv aśvinā huvadhyai |
    mayobhuvā sarathā yātam arvāg gantaṃ nidhiṃ dhuram āṇir na nābhim ||

    अच्छ॑ । म॒ही । बृ॒ह॒ती । शम्ऽत॑मा । गीः । दू॒तः । न । ग॒न्तु॒ । अ॒श्विना॑ । हु॒वध्यै॑ ।
    म॒यः॒ऽभुवा॑ । स॒ऽरथा॑ । आ । या॒त॒म् । अ॒र्वाक् । ग॒न्तम् । नि॒ऽधिम् । धुर॑म् । आ॒णिः । न । नाभि॑म् ॥

    अच्छ । मही । बृहती । शम्ऽतमा । गीः । दूतः । न । गन्तु । अश्विना । हुवध्यै ।
    मयःऽभुवा । सऽरथा । आ । यातम् । अर्वाक् । गन्तम् । निऽधिम् । धुरम् । आणिः । न । नाभिम् ॥

    áccha ǀ mahī́ ǀ bṛhatī́ ǀ śám-tamā ǀ gī́ḥ ǀ dūtáḥ ǀ ná ǀ gantu ǀ aśvínā ǀ huvádhyai ǀ
    mayaḥ-bhúvā ǀ sa-ráthā ǀ ā́ ǀ yātam ǀ arvā́k ǀ gantám ǀ ni-dhím ǀ dhúram ǀ āṇíḥ ǀ ná ǀ nā́bhim ǁ

    accha ǀ mahī ǀ bṛhatī ǀ śam-tamā ǀ gīḥ ǀ dūtaḥ ǀ na ǀ gantu ǀ aśvinā ǀ huvadhyai ǀ
    mayaḥ-bhuvā ǀ sa-rathā ǀ ā ǀ yātam ǀ arvāk ǀ gantam ǀ ni-dhim ǀ dhuram ǀ āṇiḥ ǀ na ǀ nābhim ǁ

    5.43.8 Aṣṭaka 4.2.21.3Anuvāka 5.3.103

  9. Ṛk 9

    प्र तव्य॑सो॒ नम॑उक्तिं तु॒रस्या॒हं पू॒ष्ण उ॒त वा॒योर॑दिक्षि ।
    या राध॑सा चोदि॒तारा॑ मती॒नां या वाज॑स्य द्रविणो॒दा उ॒त त्मन् ॥

    प्र तव्यसो नमौक्तिं तुरस्याहम् पूष्ण उत वायोर् अदिक्षि |
    या राधसा चोदितारा मतीनां या वाजस्य द्रविणोदा उत त्मन् ||

    prá távyaso náma+uktim turásyāhám pūṣṇá utá vāyóradikṣi ǀ
    yā́ rā́dhasā coditā́rā matīnā́m yā́ vā́jasya draviṇodā́ utá tmán ǁ

    pra tavyaso namauktiṃ turasyāham pūṣṇa uta vāyor adikṣi |
    yā rādhasā coditārā matīnāṃ yā vājasya draviṇodā uta tman ||

    प्र । तव्य॑सः । नमः॑ऽउक्तिम् । तु॒रस्य॑ । अ॒हम् । पू॒ष्णः । उ॒त । वा॒योः । अ॒दि॒क्षि॒ ।
    या । राध॑सा । चो॒दि॒तारा॑ । म॒ती॒नाम् । या । वाज॑स्य । द्र॒वि॒णः॒ऽदौ । उ॒त । त्मन् ॥

    प्र । तव्यसः । नमःऽउक्तिम् । तुरस्य । अहम् । पूष्णः । उत । वायोः । अदिक्षि ।
    या । राधसा । चोदितारा । मतीनाम् । या । वाजस्य । द्रविणःऽदौ । उत । त्मन् ॥

    prá ǀ távyasaḥ ǀ námaḥ-uktim ǀ turásya ǀ ahám ǀ pūṣṇáḥ ǀ utá ǀ vāyóḥ ǀ adikṣi ǀ
    yā́ ǀ rā́dhasā ǀ coditā́rā ǀ matīnā́m ǀ yā́ ǀ vā́jasya ǀ draviṇaḥ-dáu ǀ utá ǀ tmán ǁ

    pra ǀ tavyasaḥ ǀ namaḥ-uktim ǀ turasya ǀ aham ǀ pūṣṇaḥ ǀ uta ǀ vāyoḥ ǀ adikṣi ǀ
    yā ǀ rādhasā ǀ coditārā ǀ matīnām ǀ yā ǀ vājasya ǀ draviṇaḥ-dau ǀ uta ǀ tman ǁ

    5.43.9 Aṣṭaka 4.2.21.4Anuvāka 5.3.104

  10. Ṛk 10

    आ नाम॑भिर्म॒रुतो॑ वक्षि॒ विश्वा॒ना रू॒पेभि॑र्जातवेदो हुवा॒नः ।
    य॒ज्ञं गिरो॑ जरि॒तुः सु॑ष्टु॒तिं च॒ विश्वे॑ गंत मरुतो॒ विश्व॑ ऊ॒ती ॥

    आ नामभिर् मरुतो वक्षि विश्वान् आ रूपेभिर् जातवेदो हुवानः |
    यज्ञं गिरो जरितुः सुष्टुतिं च विश्वे गन्त मरुतो विश्व ऊती ||

    ā́ nā́mabhirmarúto vakṣi víśvānā́ rūpébhirjātavedo huvānáḥ ǀ
    yajñám gíro jaritúḥ suṣṭutím ca víśve ganta maruto víśva ūtī́ ǁ

    ā nāmabhir maruto vakṣi viśvān ā rūpebhir jātavedo huvānaḥ |
    yajñaṃ giro jarituḥ suṣṭutiṃ ca viśve ganta maruto viśva ūtī ||

    आ । नाम॑ऽभिः । म॒रुतः॑ । व॒क्षि॒ । विश्वा॑न् । आ । रू॒पेभिः॑ । जा॒त॒ऽवे॒दः॒ । हु॒वा॒नः ।
    य॒ज्ञम् । गिरः॑ । ज॒रि॒तुः । सु॒ऽस्तु॒तिम् । च॒ । विश्वे॑ । ग॒न्त॒ । म॒रु॒तः॒ । विश्वे॑ । ऊ॒ती ॥

    आ । नामऽभिः । मरुतः । वक्षि । विश्वान् । आ । रूपेभिः । जातऽवेदः । हुवानः ।
    यज्ञम् । गिरः । जरितुः । सुऽस्तुतिम् । च । विश्वे । गन्त । मरुतः । विश्वे । ऊती ॥

    ā́ ǀ nā́ma-bhiḥ ǀ marútaḥ ǀ vakṣi ǀ víśvān ǀ ā́ ǀ rūpébhiḥ ǀ jāta-vedaḥ ǀ huvānáḥ ǀ
    yajñám ǀ gíraḥ ǀ jaritúḥ ǀ su-stutím ǀ ca ǀ víśve ǀ ganta ǀ marutaḥ ǀ víśve ǀ ūtī́ ǁ

    ā ǀ nāma-bhiḥ ǀ marutaḥ ǀ vakṣi ǀ viśvān ǀ ā ǀ rūpebhiḥ ǀ jāta-vedaḥ ǀ huvānaḥ ǀ
    yajñam ǀ giraḥ ǀ jarituḥ ǀ su-stutim ǀ ca ǀ viśve ǀ ganta ǀ marutaḥ ǀ viśve ǀ ūtī ǁ

    5.43.10 Aṣṭaka 4.2.21.5Anuvāka 5.3.105

  11. Ṛk 11

    आ नो॑ दि॒वो बृ॑ह॒तः पर्व॑ता॒दा सर॑स्वती यज॒ता गं॑तु य॒ज्ञं ।
    हवं॑ दे॒वी जु॑जुषा॒णा घृ॒ताची॑ श॒ग्मां नो॒ वाच॑मुश॒ती शृ॑णोतु ॥

    आ नो दिवो बृहतः पर्वताद् आ सरस्वती यजता गन्तु यज्ञम् |
    हवं देवी जुजुषाणा घृताची शग्मां नो वाचम् उशती शृणोतु ||

    ā́ no divó bṛhatáḥ párvatādā́ sárasvatī yajatā́ gantu yajñám ǀ
    hávam devī́ jujuṣāṇā́ ghṛtā́cī śagmā́m no vā́camuśatī́ śṛṇotu ǁ

    ā no divo bṛhataḥ parvatād ā sarasvatī yajatā gantu yajñam |
    havaṃ devī jujuṣāṇā ghṛtācī śagmāṃ no vācam uśatī śṛṇotu ||

    आ । नः॒ । दि॒वः । बृ॒ह॒तः । पर्व॑तात् । आ । सर॑स्वती । य॒ज॒ता । ग॒न्तु॒ । य॒ज्ञम् ।
    हव॑म् । दे॒वी । जु॒जु॒षा॒णा । घृ॒ताची॑ । श॒ग्माम् । नः॒ । वाच॑म् । उ॒श॒ती । शृ॒णो॒तु॒ ॥

    आ । नः । दिवः । बृहतः । पर्वतात् । आ । सरस्वती । यजता । गन्तु । यज्ञम् ।
    हवम् । देवी । जुजुषाणा । घृताची । शग्माम् । नः । वाचम् । उशती । शृणोतु ॥

    ā́ ǀ naḥ ǀ diváḥ ǀ bṛhatáḥ ǀ párvatāt ǀ ā́ ǀ sárasvatī ǀ yajatā́ ǀ gantu ǀ yajñám ǀ
    hávam ǀ devī́ ǀ jujuṣāṇā́ ǀ ghṛtā́cī ǀ śagmā́m ǀ naḥ ǀ vā́cam ǀ uśatī́ ǀ śṛṇotu ǁ

    ā ǀ naḥ ǀ divaḥ ǀ bṛhataḥ ǀ parvatāt ǀ ā ǀ sarasvatī ǀ yajatā ǀ gantu ǀ yajñam ǀ
    havam ǀ devī ǀ jujuṣāṇā ǀ ghṛtācī ǀ śagmām ǀ naḥ ǀ vācam ǀ uśatī ǀ śṛṇotu ǁ

    5.43.11 Aṣṭaka 4.2.22.1Anuvāka 5.3.106

  12. Ṛk 12

    आ वे॒धसं॒ नील॑पृष्ठं बृ॒हंतं॒ बृह॒स्पतिं॒ सद॑ने सादयध्वं ।
    सा॒दद्यो॑निं॒ दम॒ आ दी॑दि॒वांसं॒ हिर॑ण्यवर्णमरु॒षं स॑पेम ॥

    आ वेधसं नीलपृष्ठम् बृहन्तम् बृहस्पतिं सदने सादयध्वम् |
    सादद्योनिं दम आ दीदिवांसं हिरण्यवर्णम् अरुषं सपेम ||

    ā́ vedhásam nī́lapṛṣṭham bṛhántam bṛ́haspátim sádane sādayadhvam ǀ
    sādádyonim dáma ā́ dīdivā́ṃsam híraṇyavarṇamaruṣám sapema ǁ

    ā vedhasaṃ nīlapṛṣṭham bṛhantam bṛhaspatiṃ sadane sādayadhvam |
    sādadyoniṃ dama ā dīdivāṃsaṃ hiraṇyavarṇam aruṣaṃ sapema ||

    आ । वे॒धस॑म् । नील॑ऽपृष्ठम् । बृ॒हन्त॑म् । बृह॒स्पति॑म् । सद॑ने । सा॒द॒य॒ध्व॒म् ।
    सा॒दत्ऽयो॑निम् । दमे॑ । आ । दी॒दि॒ऽवांस॑म् । हिर॑ण्यऽवर्णम् । अ॒रु॒षम् । स॒पे॒म॒ ॥

    आ । वेधसम् । नीलऽपृष्ठम् । बृहन्तम् । बृहस्पतिम् । सदने । सादयध्वम् ।
    सादत्ऽयोनिम् । दमे । आ । दीदिऽवांसम् । हिरण्यऽवर्णम् । अरुषम् । सपेम ॥

    ā́ ǀ vedhásam ǀ nī́la-pṛṣṭham ǀ bṛhántam ǀ bṛ́haspátim ǀ sádane ǀ sādayadhvam ǀ
    sādát-yonim ǀ dáme ǀ ā́ ǀ dīdi-vā́ṃsam ǀ híraṇya-varṇam ǀ aruṣám ǀ sapema ǁ

    ā ǀ vedhasam ǀ nīla-pṛṣṭham ǀ bṛhantam ǀ bṛhaspatim ǀ sadane ǀ sādayadhvam ǀ
    sādat-yonim ǀ dame ǀ ā ǀ dīdi-vāṃsam ǀ hiraṇya-varṇam ǀ aruṣam ǀ sapema ǁ

    5.43.12 Aṣṭaka 4.2.22.2Anuvāka 5.3.107

  13. Ṛk 13

    आ ध॑र्ण॒सिर्बृ॒हद्दि॑वो॒ ररा॑णो॒ विश्वे॑भिर्गं॒त्वोम॑भिर्हुवा॒नः ।
    ग्ना वसा॑न॒ ओष॑धी॒रमृ॑ध्रस्त्रि॒धातु॑शृंगो वृष॒भो व॑यो॒धाः ॥

    आ धर्णसिर् बृहद्दिवो रराणो विश्वेभिर् गन्त्व् ओमभिर् हुवानः |
    ग्ना वसान ओषधीर् अमृध्रस् त्रिधातुशृङ्गो वृषभो वयोधाः ||

    ā́ dharṇasírbṛháddivo rárāṇo víśvebhirgantvómabhirhuvānáḥ ǀ
    gnā́ vásāna óṣadhīrámṛdhrastridhā́tuśṛṅgo vṛṣabhó vayodhā́ḥ ǁ

    ā dharṇasir bṛhaddivo rarāṇo viśvebhir gantv omabhir huvānaḥ |
    gnā vasāna oṣadhīr amṛdhras tridhātuśṛṅgo vṛṣabho vayodhāḥ ||

    आ । ध॒र्ण॒सिः । बृ॒हत्ऽदि॑वः । ररा॑णः । विश्वे॑भिः । ग॒न्तु॒ । ओम॑ऽभिः । हु॒वा॒नः ।
    ग्नाः । वसा॑नः । ओष॑धीः । अमृ॑ध्रः । त्रि॒धातु॑ऽशृङ्गः । वृ॒ष॒भः । व॒यः॒ऽधाः ॥

    आ । धर्णसिः । बृहत्ऽदिवः । रराणः । विश्वेभिः । गन्तु । ओमऽभिः । हुवानः ।
    ग्नाः । वसानः । ओषधीः । अमृध्रः । त्रिधातुऽशृङ्गः । वृषभः । वयःऽधाः ॥

    ā́ ǀ dharṇasíḥ ǀ bṛhát-divaḥ ǀ rárāṇaḥ ǀ víśvebhiḥ ǀ gantu ǀ óma-bhiḥ ǀ huvānáḥ ǀ
    gnā́ḥ ǀ vásānaḥ ǀ óṣadhīḥ ǀ ámṛdhraḥ ǀ tridhā́tu-śṛṅgaḥ ǀ vṛṣabháḥ ǀ vayaḥ-dhā́ḥ ǁ

    ā ǀ dharṇasiḥ ǀ bṛhat-divaḥ ǀ rarāṇaḥ ǀ viśvebhiḥ ǀ gantu ǀ oma-bhiḥ ǀ huvānaḥ ǀ
    gnāḥ ǀ vasānaḥ ǀ oṣadhīḥ ǀ amṛdhraḥ ǀ tridhātu-śṛṅgaḥ ǀ vṛṣabhaḥ ǀ vayaḥ-dhāḥ ǁ

    5.43.13 Aṣṭaka 4.2.22.3Anuvāka 5.3.108

  14. Ṛk 14

    मा॒तुष्प॒दे प॑र॒मे शु॒क्र आ॒योर्वि॑प॒न्यवो॑ रास्पि॒रासो॑ अग्मन् ।
    सु॒शेव्यं॒ नम॑सा रा॒तह॑व्याः॒ शिशुं॑ मृजंत्या॒यवो॒ न वा॒से ॥

    मातुष् पदे परमे शुक्र आयोर् विपन्यवो रास्पिरासो अग्मन् |
    सुशेव्यं नमसा रातहव्याः शिशुम् मृजन्त्य् आयवो न वासे ||

    mātúṣpadé paramé śukrá āyórvipanyávo rāspirā́so agman ǀ
    suśévyam námasā rātáhavyāḥ śíśum mṛjantyāyávo ná vāsé ǁ

    mātuṣ pade parame śukra āyor vipanyavo rāspirāso agman |
    suśevyaṃ namasā rātahavyāḥ śiśum mṛjanty āyavo na vāse ||

    मा॒तुः । प॒दे । प॒र॒मे । शु॒क्रे । आ॒योः । वि॒प॒न्यवः॑ । रा॒स्पि॒रासः॑ । अ॒ग्म॒न् ।
    सु॒ऽशेव्य॑म् । नम॑सा । रा॒तऽह॑व्याः । शिशु॑म् । मृ॒ज॒न्ति॒ । आ॒यवः॑ । न । वा॒से ॥

    मातुः । पदे । परमे । शुक्रे । आयोः । विपन्यवः । रास्पिरासः । अग्मन् ।
    सुऽशेव्यम् । नमसा । रातऽहव्याः । शिशुम् । मृजन्ति । आयवः । न । वासे ॥

    mātúḥ ǀ padé ǀ paramé ǀ śukré ǀ āyóḥ ǀ vipanyávaḥ ǀ rāspirā́saḥ ǀ agman ǀ
    su-śévyam ǀ námasā ǀ rātá-havyāḥ ǀ śíśum ǀ mṛjanti ǀ āyávaḥ ǀ ná ǀ vāsé ǁ

    mātuḥ ǀ pade ǀ parame ǀ śukre ǀ āyoḥ ǀ vipanyavaḥ ǀ rāspirāsaḥ ǀ agman ǀ
    su-śevyam ǀ namasā ǀ rāta-havyāḥ ǀ śiśum ǀ mṛjanti ǀ āyavaḥ ǀ na ǀ vāse ǁ

    5.43.14 Aṣṭaka 4.2.22.4Anuvāka 5.3.109

  15. Ṛk 15

    बृ॒हद्वयो॑ बृह॒ते तुभ्य॑मग्ने धिया॒जुरो॑ मिथु॒नासः॑ सचंत ।
    दे॒वोदे॑वः सु॒हवो॑ भूतु॒ मह्यं॒ मा नो॑ मा॒ता पृ॑थि॒वी दु॑र्म॒तौ धा॑त् ॥

    बृहद् वयो बृहते तुभ्यम् अग्ने धियाजुरो मिथुनासः सचन्त |
    देवो-देवः सुहवो भूतु मह्यम् मा नो माता पृथिवी दुर्मतौ धात् ||

    bṛhádváyo bṛhaté túbhyamagne dhiyājúro mithunā́saḥ sacanta ǀ
    devódevaḥ suhávo bhūtu máhyam mā́ no mātā́ pṛthivī́ durmatáu dhāt ǁ

    bṛhad vayo bṛhate tubhyam agne dhiyājuro mithunāsaḥ sacanta |
    devo-devaḥ suhavo bhūtu mahyam mā no mātā pṛthivī durmatau dhāt ||

    बृ॒हत् । वयः॑ । बृ॒ह॒ते । तुभ्य॑म् । अ॒ग्ने॒ । धि॒या॒ऽजुरः॑ । मि॒थु॒नासः॑ । स॒च॒न्त॒ ।
    दे॒वःऽदे॑वः । सु॒ऽहवः॑ । भू॒तु॒ । मह्य॑म् । मा । नः॒ । मा॒ता । पृ॒थि॒वी । दुः॒ऽम॒तौ । धा॒त् ॥

    बृहत् । वयः । बृहते । तुभ्यम् । अग्ने । धियाऽजुरः । मिथुनासः । सचन्त ।
    देवःऽदेवः । सुऽहवः । भूतु । मह्यम् । मा । नः । माता । पृथिवी । दुःऽमतौ । धात् ॥

    bṛhát ǀ váyaḥ ǀ bṛhaté ǀ túbhyam ǀ agne ǀ dhiyā-júraḥ ǀ mithunā́saḥ ǀ sacanta ǀ
    deváḥ-devaḥ ǀ su-hávaḥ ǀ bhūtu ǀ máhyam ǀ mā́ ǀ naḥ ǀ mātā́ ǀ pṛthivī́ ǀ duḥ-matáu ǀ dhāt ǁ

    bṛhat ǀ vayaḥ ǀ bṛhate ǀ tubhyam ǀ agne ǀ dhiyā-juraḥ ǀ mithunāsaḥ ǀ sacanta ǀ
    devaḥ-devaḥ ǀ su-havaḥ ǀ bhūtu ǀ mahyam ǀ mā ǀ naḥ ǀ mātā ǀ pṛthivī ǀ duḥ-matau ǀ dhāt ǁ

    5.43.15 Aṣṭaka 4.2.22.5Anuvāka 5.3.110

  16. Ṛk 16

    उ॒रौ दे॑वा अनिबा॒धे स्या॑म ॥

    उरौ देवा अनिबाधे स्याम ||

    uráu devā anibādhé syāma ǁ

    urau devā anibādhe syāma ||

    उ॒रौ । दे॒वाः॒ । अ॒नि॒ऽबा॒धे । स्या॒म॒ ॥

    उरौ । देवाः । अनिऽबाधे । स्याम ॥

    uráu ǀ devāḥ ǀ ani-bādhé ǀ syāma ǁ

    urau ǀ devāḥ ǀ ani-bādhe ǀ syāma ǁ

    5.43.16 Aṣṭaka 4.2.22.6Anuvāka 5.3.111

  17. Ṛk 17

    सम॒श्विनो॒रव॑सा॒ नूत॑नेन मयो॒भुवा॑ सु॒प्रणी॑ती गमेम ।
    आ नो॑ र॒यिं व॑हत॒मोत वी॒राना विश्वा॑न्यमृता॒ सौभ॑गानि ॥

    सम् अश्विनोर् अवसा नूतनेन मयोभुवा सुप्रणीती गमेम |
    आ नो रयिं वहतम् ओत वीरान् आ विश्वान्य् अमृता सौभगानि ||

    sámaśvínorávasā nū́tanena mayobhúvā supráṇītī gamema ǀ
    ā́ no rayím vahatamótá vīrā́nā́ víśvānyamṛtā sáubhagāni ǁ

    sam aśvinor avasā nūtanena mayobhuvā supraṇītī gamema |
    ā no rayiṃ vahatam ota vīrān ā viśvāny amṛtā saubhagāni ||

    सम् । अ॒श्विनोः॑ । अव॑सा । नूत॑नेन । म॒यः॒ऽभुवा॑ । सु॒ऽप्रनी॑ती । ग॒मे॒म॒ ।
    आ । नः॒ । र॒यिम् । व॒ह॒त॒म् । आ । उ॒त । वी॒रान् । आ । विश्वा॑नि । अ॒मृ॒ता॒ । सौभ॑गानि ॥

    सम् । अश्विनोः । अवसा । नूतनेन । मयःऽभुवा । सुऽप्रनीती । गमेम ।
    आ । नः । रयिम् । वहतम् । आ । उत । वीरान् । आ । विश्वानि । अमृता । सौभगानि ॥

    sám ǀ aśvínoḥ ǀ ávasā ǀ nū́tanena ǀ mayaḥ-bhúvā ǀ su-pránītī ǀ gamema ǀ
    ā́ ǀ naḥ ǀ rayím ǀ vahatam ǀ ā́ ǀ utá ǀ vīrā́n ǀ ā́ ǀ víśvāni ǀ amṛtā ǀ sáubhagāni ǁ

    sam ǀ aśvinoḥ ǀ avasā ǀ nūtanena ǀ mayaḥ-bhuvā ǀ su-pranītī ǀ gamema ǀ
    ā ǀ naḥ ǀ rayim ǀ vahatam ǀ ā ǀ uta ǀ vīrān ǀ ā ǀ viśvāni ǀ amṛtā ǀ saubhagāni ǁ

    5.43.17 Aṣṭaka 4.2.22.7Anuvāka 5.3.112

Text, recitation and interpretations from the Ṛgveda database of theveda.org.in.

Ṛgveda 5.43 · Viśvedevās

Interpretations

Ralph T. H. Griffith

Ṛk 1

MAY the Milch-cows who hasten to their object come harmless unto us with liquid sweetness. The Singer, lauding, calls, for ample riches, the Seven Mighty Ones who bring enjoyment.

Ṛk 2

With reverence and fair praise will I bring hither, for sake of strength, exhaustless Earth and Heaven. Father and Mother, sweetof speech, fairhanded, may they, far-famed, in every fight protect us.

Ṛk 3

Adhvaryus, make the sweet libations ready, and bring the beautiful bright juice to Vāyu. God, as our Priest, be thou the first to drink it: we give thee of the mead to make thee joyful.

Ṛk 4

Two arms-the Soma's dexterous immo. lators-and the ten fingers set and fix the press-stone. The stalk hath poured, fair with its spreading branches, the mead's bright glittering juice that dwells on mountains.

Ṛk 5

The Soma hath been pressed for thee, its lover, to give thee power and might and high enjoyment. Invoked, turn hither in thy car, O Indra, at need, thy two well-trained and dear Bay Horses.

Ṛk 6

Bring by God-traversed paths, accordant, Agni, the great Aramati, Celestial Lady, Exalted, worshipped with our gifts and homage, who knoweth holy Law, to drink sweet Soma.

Ṛk 7

As on his father's lap the son, the darling, so on the fire is set the sacred caldron, Which holy singers deck, as if extending and heating that which holds the fatty membrane.

Ṛk 8

Hither, as herald to invite the Aśvins, come the great lofty song, most sweet and pleasant! Come in one car, joy-givers! to the banquet, like the bolt binding pole and nave, come hither.

Ṛk 9

I have declared this speech of adoration to mightiest Pūṣan and victorious Vāyu, Who by their bounty are the hymns' inspirers, and of themselves give power as a possession.

Ṛk 10

Invoked by us bring hither, jatavedas the Maruts all under their names and figures. Come to the sacrifice with aid all Maruts, all to the songs and praises of the singer!

Ṛk 11

From high heaven may Sarasvatī the Holy visit our sacrifice, and from the mountain. Eager, propitious, may the balmy Goddess hear our effectual speech, our invocation.

Ṛk 12

Set in his seat the God whose back is dusky, Bṛhaspati the lofty, the Disposer. Him let us worship, set within the dwelling, the red, the golden-hued, the allresplendent.

Ṛk 13

May the Sustainer, high in heaven, come hither, the Bounteous One, invoked, with all his favours, Dweller with Dames divine, with plants, unwearied, the Steer with triple horn, the life-bestower.

Ṛk 14

The tuneful eloquent priests of him who liveth have sought the Mother's bright and loftiest station. As living men, with offered gifts and homage they deck the most auspicious Child to clothe him.

Ṛk 15

Agni, great vital power is thine, the mighty: pairs waxing old in their devotion seek thee. May every Deity be swift to listen, and Mother Earth with no ill thought regard me.

Ṛk 16

Gods, may we dwell in free untroubled bliss.