Sūkta 76
- Devatā देवता
- Aśvins
- Ṛṣi ऋषि
- Atri Bhauma
- Chandas छन्दस्
- Triṣṭubh
Metres by ṛk
1st set of styles nicṛttriṣṭup (3-5); svarāṭpaṅkti (1, 2)
2nd set of styles triṣṭubh
-
Ṛk 1
आ भा॑त्य॒ग्निरु॒षसा॒मनी॑क॒मुद्विप्रा॑णां देव॒या वाचो॑ अस्थुः ।
अ॒र्वांचा॑ नू॒नं र॑थ्ये॒ह या॑तं पीपि॒वांस॑मश्विना घ॒र्ममच्छ॑ ॥आ भात्य् अग्निर् उषसाम् अनीकम् उद् विप्राणां देवया वाचो अस्थुः |
अर्वाञ्चा नूनं रथ्येह यातम् पीपिवांसम् अश्विना घर्मम् अच्छ ||ā́ bhātyagníruṣásāmánīkamúdvíprāṇām devayā́ vā́co asthuḥ ǀ
arvā́ñcā nūnám rathyehá yātam pīpivā́ṃsamaśvinā gharmámáccha ǁā bhāty agnir uṣasām anīkam ud viprāṇāṃ devayā vāco asthuḥ |
arvāñcā nūnaṃ rathyeha yātam pīpivāṃsam aśvinā gharmam accha ||आ । भा॒ति॒ । अ॒ग्निः । उ॒षसा॑म् । अनी॑कम् । उत् । विप्रा॑णाम् । दे॒व॒ऽयाः । वाचः॑ । अ॒स्थुः॒ ।
अ॒र्वाञ्चा॑ । नू॒नम् । र॒थ्या॒ । इ॒ह । या॒त॒म् । पी॒पि॒ऽवांस॑म् । अ॒श्वि॒ना॒ । घ॒र्मम् । अच्छ॑ ॥आ । भाति । अग्निः । उषसाम् । अनीकम् । उत् । विप्राणाम् । देवऽयाः । वाचः । अस्थुः ।
अर्वाञ्चा । नूनम् । रथ्या । इह । यातम् । पीपिऽवांसम् । अश्विना । घर्मम् । अच्छ ॥ā́ ǀ bhāti ǀ agníḥ ǀ uṣásām ǀ ánīkam ǀ út ǀ víprāṇām ǀ deva-yā́ḥ ǀ vā́caḥ ǀ asthuḥ ǀ
arvā́ñcā ǀ nūnám ǀ rathyā ǀ ihá ǀ yātam ǀ pīpi-vā́ṃsam ǀ aśvinā ǀ gharmám ǀ áccha ǁā ǀ bhāti ǀ agniḥ ǀ uṣasām ǀ anīkam ǀ ut ǀ viprāṇām ǀ deva-yāḥ ǀ vācaḥ ǀ asthuḥ ǀ
arvāñcā ǀ nūnam ǀ rathyā ǀ iha ǀ yātam ǀ pīpi-vāṃsam ǀ aśvinā ǀ gharmam ǀ accha ǁ5.76.1 Aṣṭaka 4.4.17.1Anuvāka 5.6.30
-
Ṛk 2
न सं॑स्कृ॒तं प्र मि॑मीतो॒ गमि॒ष्ठांति॑ नू॒नम॒श्विनोप॑स्तुते॒ह ।
दिवा॑भिपि॒त्वेऽव॒साग॑मिष्ठा॒ प्रत्यव॑र्तिं दा॒शुषे॒ शंभ॑विष्ठा ॥न संस्कृतम् प्र मिमीतो गमिष्ठान्ति नूनम् अश्विनोपस्तुतेह |
दिवाभिपित्वे ऽवसागमिष्ठा प्रत्य् अवर्तिं दाशुषे शम्भविष्ठा ||ná saṃskṛtám prá mimīto gámiṣṭhā́nti nūnámaśvínópastutehá ǀ
dívābhipitvé’vasā́gamiṣṭhā prátyávartim dāśúṣe śámbhaviṣṭhā ǁna saṃskṛtam pra mimīto gamiṣṭhānti nūnam aśvinopastuteha |
divābhipitve 'vasāgamiṣṭhā praty avartiṃ dāśuṣe śambhaviṣṭhā ||न । सं॒स्कृ॒तम् । प्र । मि॒मी॒तः॒ । गमि॑ष्ठा । अन्ति॑ । नू॒नम् । अ॒श्विना॑ । उप॑ऽस्तुता । इ॒ह ।
दिवा॑ । अ॒भि॒ऽपि॒त्वे । अव॑सा । आऽग॑मिष्ठा । प्रति॑ । अव॑र्तिम् । दा॒शुषे॑ । शम्ऽभ॑विष्ठा ॥न । संस्कृतम् । प्र । मिमीतः । गमिष्ठा । अन्ति । नूनम् । अश्विना । उपऽस्तुता । इह ।
दिवा । अभिऽपित्वे । अवसा । आऽगमिष्ठा । प्रति । अवर्तिम् । दाशुषे । शम्ऽभविष्ठा ॥ná ǀ saṃskṛtám ǀ prá ǀ mimītaḥ ǀ gámiṣṭhā ǀ ánti ǀ nūnám ǀ aśvínā ǀ úpa-stutā ǀ ihá ǀ
dívā ǀ abhi-pitvé ǀ ávasā ǀ ā́-gamiṣṭhā ǀ práti ǀ ávartim ǀ dāśúṣe ǀ śám-bhaviṣṭhā ǁna ǀ saṃskṛtam ǀ pra ǀ mimītaḥ ǀ gamiṣṭhā ǀ anti ǀ nūnam ǀ aśvinā ǀ upa-stutā ǀ iha ǀ
divā ǀ abhi-pitve ǀ avasā ǀ ā-gamiṣṭhā ǀ prati ǀ avartim ǀ dāśuṣe ǀ śam-bhaviṣṭhā ǁ5.76.2 Aṣṭaka 4.4.17.2Anuvāka 5.6.31
-
Ṛk 3
उ॒ता या॑तं संग॒वे प्रा॒तरह्नो॑ म॒ध्यंदि॑न॒ उदि॑ता॒ सूर्य॑स्य ।
दिवा॒ नक्त॒मव॑सा॒ शंत॑मेन॒ नेदानीं॑ पी॒तिर॒श्विना त॑तान ॥उता यातं संगवे प्रातर् अह्नो मध्यन्दिन उदिता सूर्यस्य |
दिवा नक्तम् अवसा शन्तमेन नेदानीम् पीतिर् अश्विना ततान ||utā́ yātam saṃgavé prātáráhno madhyáṃdina úditā sū́ryasya ǀ
dívā náktamávasā śáṃtamena nédā́nīm pītíraśvínā́ tatāna ǁutā yātaṃ saṃgave prātar ahno madhyandina uditā sūryasya |
divā naktam avasā śantamena nedānīm pītir aśvinā tatāna ||उ॒त । आ । या॒त॒म् । स॒म्ऽग॒वे । प्रा॒तः । अह्नः॑ । म॒ध्यन्दि॑ने । उत्ऽइ॑ता । सूर्य॑स्य ।
दिवा॑ । नक्त॑म् । अव॑सा । शम्ऽत॑मेन । न । इ॒दानी॑म् । पी॒तिः । अ॒श्विना॑ । आ । त॒ता॒न॒ ॥उत । आ । यातम् । सम्ऽगवे । प्रातः । अह्नः । मध्यन्दिने । उत्ऽइता । सूर्यस्य ।
दिवा । नक्तम् । अवसा । शम्ऽतमेन । न । इदानीम् । पीतिः । अश्विना । आ । ततान ॥utá ǀ ā́ ǀ yātam ǀ sam-gavé ǀ prātáḥ ǀ áhnaḥ ǀ madhyándine ǀ út-itā ǀ sū́ryasya ǀ
dívā ǀ náktam ǀ ávasā ǀ śám-tamena ǀ ná ǀ idā́nīm ǀ pītíḥ ǀ aśvínā ǀ ā́ ǀ tatāna ǁuta ǀ ā ǀ yātam ǀ sam-gave ǀ prātaḥ ǀ ahnaḥ ǀ madhyandine ǀ ut-itā ǀ sūryasya ǀ
divā ǀ naktam ǀ avasā ǀ śam-tamena ǀ na ǀ idānīm ǀ pītiḥ ǀ aśvinā ǀ ā ǀ tatāna ǁ5.76.3 Aṣṭaka 4.4.17.3Anuvāka 5.6.32
-
Ṛk 4
इ॒दं हि वां॑ प्र॒दिवि॒ स्थान॒मोक॑ इ॒मे गृ॒हा अ॑श्विने॒दं दु॑रो॒णं ।
आ नो॑ दि॒वो बृ॑ह॒तः पर्व॑ता॒दाद्भ्यो या॑त॒मिष॒मूर्जं॒ वहं॑ता ॥इदं हि वाम् प्रदिवि स्थानम् ओक इमे गृहा अश्विनेदं दुरोणम् |
आ नो दिवो बृहतः पर्वताद् आद्भ्यो यातम् इषम् ऊर्जं वहन्ता ||idám hí vām pradívi sthā́namóka imé gṛhā́ aśvinedám duroṇám ǀ
ā́ no divó bṛhatáḥ párvatādā́dbhyó yātamíṣamū́rjam váhantā ǁidaṃ hi vām pradivi sthānam oka ime gṛhā aśvinedaṃ duroṇam |
ā no divo bṛhataḥ parvatād ādbhyo yātam iṣam ūrjaṃ vahantā ||इ॒दम् । हि । वा॒म् । प्र॒ऽदिवि॑ । स्थान॑म् । ओकः॑ । इ॒मे । गृ॒हाः । अ॒श्वि॒ना॒ । इ॒दम् । दु॒रो॒णम् ।
आ । नः॒ । दि॒वः । बृ॒ह॒तः । पर्व॑तात् । आ । अ॒त्ऽभ्यः । या॒त॒म् । इष॑म् । ऊर्ज॑म् । वह॑न्ता ॥इदम् । हि । वाम् । प्रऽदिवि । स्थानम् । ओकः । इमे । गृहाः । अश्विना । इदम् । दुरोणम् ।
आ । नः । दिवः । बृहतः । पर्वतात् । आ । अत्ऽभ्यः । यातम् । इषम् । ऊर्जम् । वहन्ता ॥idám ǀ hí ǀ vām ǀ pra-dívi ǀ sthā́nam ǀ ókaḥ ǀ imé ǀ gṛhā́ḥ ǀ aśvinā ǀ idám ǀ duroṇám ǀ
ā́ ǀ naḥ ǀ diváḥ ǀ bṛhatáḥ ǀ párvatāt ǀ ā́ ǀ at-bhyáḥ ǀ yātam ǀ íṣam ǀ ū́rjam ǀ váhantā ǁidam ǀ hi ǀ vām ǀ pra-divi ǀ sthānam ǀ okaḥ ǀ ime ǀ gṛhāḥ ǀ aśvinā ǀ idam ǀ duroṇam ǀ
ā ǀ naḥ ǀ divaḥ ǀ bṛhataḥ ǀ parvatāt ǀ ā ǀ at-bhyaḥ ǀ yātam ǀ iṣam ǀ ūrjam ǀ vahantā ǁ5.76.4 Aṣṭaka 4.4.17.4Anuvāka 5.6.33
-
Ṛk 5
सम॒श्विनो॒रव॑सा॒ नूत॑नेन मयो॒भुवा॑ सु॒प्रणी॑ती गमेम ।
आ नो॑ र॒यिं व॑हत॒मोत वी॒राना विश्वा॑न्यमृता॒ सौभ॑गानि ॥सम् अश्विनोर् अवसा नूतनेन मयोभुवा सुप्रणीती गमेम |
आ नो रयिं वहतम् ओत वीरान् आ विश्वान्य् अमृता सौभगानि ||sámaśvínorávasā nū́tanena mayobhúvā supráṇītī gamema ǀ
ā́ no rayím vahatamótá vīrā́nā́ víśvānyamṛtā sáubhagāni ǁsam aśvinor avasā nūtanena mayobhuvā supraṇītī gamema |
ā no rayiṃ vahatam ota vīrān ā viśvāny amṛtā saubhagāni ||सम् । अ॒श्विनोः॑ । अव॑सा । नूत॑नेन । म॒यः॒ऽभुवा॑ । सु॒ऽप्रनी॑ती । ग॒मे॒म॒ ।
आ । नः॒ । र॒यिम् । व॒ह॒त॒म् । आ । उ॒त । वी॒रान् । आ । विश्वा॑नि । अ॒मृ॒ता॒ । सौभ॑गानि ॥सम् । अश्विनोः । अवसा । नूतनेन । मयःऽभुवा । सुऽप्रनीती । गमेम ।
आ । नः । रयिम् । वहतम् । आ । उत । वीरान् । आ । विश्वानि । अमृता । सौभगानि ॥sám ǀ aśvínoḥ ǀ ávasā ǀ nū́tanena ǀ mayaḥ-bhúvā ǀ su-pránītī ǀ gamema ǀ
ā́ ǀ naḥ ǀ rayím ǀ vahatam ǀ ā́ ǀ utá ǀ vīrā́n ǀ ā́ ǀ víśvāni ǀ amṛtā ǀ sáubhagāni ǁsam ǀ aśvinoḥ ǀ avasā ǀ nūtanena ǀ mayaḥ-bhuvā ǀ su-pranītī ǀ gamema ǀ
ā ǀ naḥ ǀ rayim ǀ vahatam ǀ ā ǀ uta ǀ vīrān ǀ ā ǀ viśvāni ǀ amṛtā ǀ saubhagāni ǁ5.76.5 Aṣṭaka 4.4.17.5Anuvāka 5.6.34
Text, recitation and interpretations from the Ṛgveda database of theveda.org.in.