Ṛk 5.76.4
Saṃhitā
इ॒दं हि वां॑ प्र॒दिवि॒ स्थान॒मोक॑ इ॒मे गृ॒हा अ॑श्विने॒दं दु॑रो॒णं ।
आ नो॑ दि॒वो बृ॑ह॒तः पर्व॑ता॒दाद्भ्यो या॑त॒मिष॒मूर्जं॒ वहं॑ता ॥
इदं हि वाम् प्रदिवि स्थानम् ओक इमे गृहा अश्विनेदं दुरोणम् |
आ नो दिवो बृहतः पर्वताद् आद्भ्यो यातम् इषम् ऊर्जं वहन्ता ||
idám hí vām pradívi sthā́namóka imé gṛhā́ aśvinedám duroṇám ǀ
ā́ no divó bṛhatáḥ párvatādā́dbhyó yātamíṣamū́rjam váhantā ǁ
idaṃ hi vām pradivi sthānam oka ime gṛhā aśvinedaṃ duroṇam |
ā no divo bṛhataḥ parvatād ādbhyo yātam iṣam ūrjaṃ vahantā ||
Padapāṭha
इ॒दम् । हि । वा॒म् । प्र॒ऽदिवि॑ । स्थान॑म् । ओकः॑ । इ॒मे । गृ॒हाः । अ॒श्वि॒ना॒ । इ॒दम् । दु॒रो॒णम् ।
आ । नः॒ । दि॒वः । बृ॒ह॒तः । पर्व॑तात् । आ । अ॒त्ऽभ्यः । या॒त॒म् । इष॑म् । ऊर्ज॑म् । वह॑न्ता ॥
इदम् । हि । वाम् । प्रऽदिवि । स्थानम् । ओकः । इमे । गृहाः । अश्विना । इदम् । दुरोणम् ।
आ । नः । दिवः । बृहतः । पर्वतात् । आ । अत्ऽभ्यः । यातम् । इषम् । ऊर्जम् । वहन्ता ॥
idám ǀ hí ǀ vām ǀ pra-dívi ǀ sthā́nam ǀ ókaḥ ǀ imé ǀ gṛhā́ḥ ǀ aśvinā ǀ idám ǀ duroṇám ǀ
ā́ ǀ naḥ ǀ diváḥ ǀ bṛhatáḥ ǀ párvatāt ǀ ā́ ǀ at-bhyáḥ ǀ yātam ǀ íṣam ǀ ū́rjam ǀ váhantā ǁ
idam ǀ hi ǀ vām ǀ pra-divi ǀ sthānam ǀ okaḥ ǀ ime ǀ gṛhāḥ ǀ aśvinā ǀ idam ǀ duroṇam ǀ
ā ǀ naḥ ǀ divaḥ ǀ bṛhataḥ ǀ parvatāt ǀ ā ǀ at-bhyaḥ ǀ yātam ǀ iṣam ǀ ūrjam ǀ vahantā ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 05.076.04
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 4.4.17.04
- Maṇḍala · Anuvāka · Ṛk
- 05.06.033
- Devatā देवता
- Aśvins
- Ṛṣi ऋषि
- Atri Bhauma
- Chandas छन्दस्
- Triṣṭubh
- Svara स्वरः
- पञ्चमः
Text and interpretations from the Ṛgveda database of theveda.org.in.