Sūkta 11
- Devatā देवता
- Agni
- Ṛṣi ऋषि
- Sutambhara Ātreya
- Chandas छन्दस्
- Jagatī
Metres by ṛk
1st set of styles nicṛjjagatī (1, 3, 5); jagatī (2, 6); virāḍjagatī (4)
2nd set of styles jagatī
-
Ṛk 1
जन॑स्य गो॒पा अ॑जनिष्ट॒ जागृ॑विर॒ग्निः सु॒दक्षः॑ सुवि॒ताय॒ नव्य॑से ।
घृ॒तप्र॑तीको बृह॒ता दि॑वि॒स्पृशा॑ द्यु॒मद्वि भा॑ति भर॒तेभ्यः॒ शुचिः॑ ॥जनस्य गोपा अजनिष्ट जागृविर् अग्निः सुदक्षः सुविताय नव्यसे |
घृतप्रतीको बृहता दिविस्पृशा द्युमद् वि भाति भरतेभ्यः शुचिः ||jánasya gopā́ ajaniṣṭa jā́gṛviragníḥ sudákṣaḥ suvitā́ya návyase ǀ
ghṛtápratīko bṛhatā́ divispṛ́śā dyumádví bhāti bharatébhyaḥ śúciḥ ǁjanasya gopā ajaniṣṭa jāgṛvir agniḥ sudakṣaḥ suvitāya navyase |
ghṛtapratīko bṛhatā divispṛśā dyumad vi bhāti bharatebhyaḥ śuciḥ ||जन॑स्य । गो॒पाः । अ॒ज॒नि॒ष्ट॒ । जागृ॑विः । अ॒ग्निः । सु॒ऽदक्षः॑ । सु॒वि॒ताय॑ । नव्य॑से ।
घृ॒तऽप्र॑तीकः । बृ॒ह॒ता । दि॒वि॒ऽस्पृशा॑ । द्यु॒ऽमत् । वि । भा॒ति॒ । भ॒र॒तेभ्यः॑ । शुचिः॑ ॥जनस्य । गोपाः । अजनिष्ट । जागृविः । अग्निः । सुऽदक्षः । सुविताय । नव्यसे ।
घृतऽप्रतीकः । बृहता । दिविऽस्पृशा । द्युऽमत् । वि । भाति । भरतेभ्यः । शुचिः ॥jánasya ǀ gopā́ḥ ǀ ajaniṣṭa ǀ jā́gṛviḥ ǀ agníḥ ǀ su-dákṣaḥ ǀ suvitā́ya ǀ návyase ǀ
ghṛtá-pratīkaḥ ǀ bṛhatā́ ǀ divi-spṛ́śā ǀ dyu-mát ǀ ví ǀ bhāti ǀ bharatébhyaḥ ǀ śúciḥ ǁjanasya ǀ gopāḥ ǀ ajaniṣṭa ǀ jāgṛviḥ ǀ agniḥ ǀ su-dakṣaḥ ǀ suvitāya ǀ navyase ǀ
ghṛta-pratīkaḥ ǀ bṛhatā ǀ divi-spṛśā ǀ dyu-mat ǀ vi ǀ bhāti ǀ bharatebhyaḥ ǀ śuciḥ ǁ5.11.1 Aṣṭaka 4.1.3.1Anuvāka 5.1.100
-
Ṛk 2
य॒ज्ञस्य॑ के॒तुं प्र॑थ॒मं पु॒रोहि॑तम॒ग्निं नर॑स्त्रिषध॒स्थे समी॑धिरे ।
इंद्रे॑ण दे॒वैः स॒रथं॒ स ब॒र्हिषि॒ सीद॒न्नि होता॑ य॒जथा॑य सु॒क्रतुः॑ ॥यज्ञस्य केतुम् प्रथमम् पुरोहितम् अग्निं नरस् त्रिषधस्थे सम् ईधिरे |
इन्द्रेण देवैः सरथं स बर्हिषि सीदन् नि होता यजथाय सुक्रतुः ||yajñásya ketúm prathamám puróhitamagním nárastriṣadhasthé sámīdhire ǀ
índreṇa deváiḥ sarátham sá barhíṣi sī́danní hótā yajáthāya sukrátuḥ ǁyajñasya ketum prathamam purohitam agniṃ naras triṣadhasthe sam īdhire |
indreṇa devaiḥ sarathaṃ sa barhiṣi sīdan ni hotā yajathāya sukratuḥ ||य॒ज्ञस्य॑ । के॒तुम् । प्र॒थ॒मम् । पु॒रःऽहि॑तम् । अ॒ग्निम् । नरः॑ । त्रि॒ऽस॒ध॒स्थे । सम् । ई॒धि॒रे॒ ।
इन्द्रे॑ण । दे॒वैः । स॒ऽरथ॑म् । सः । ब॒र्हिषि॑ । सीद॑त् । नि । होता॑ । य॒जथा॑य । सु॒ऽक्रतुः॑ ॥यज्ञस्य । केतुम् । प्रथमम् । पुरःऽहितम् । अग्निम् । नरः । त्रिऽसधस्थे । सम् । ईधिरे ।
इन्द्रेण । देवैः । सऽरथम् । सः । बर्हिषि । सीदत् । नि । होता । यजथाय । सुऽक्रतुः ॥yajñásya ǀ ketúm ǀ prathamám ǀ puráḥ-hitam ǀ agním ǀ náraḥ ǀ tri-sadhasthé ǀ sám ǀ īdhire ǀ
índreṇa ǀ deváiḥ ǀ sa-rátham ǀ sáḥ ǀ barhíṣi ǀ sī́dat ǀ ní ǀ hótā ǀ yajáthāya ǀ su-krátuḥ ǁyajñasya ǀ ketum ǀ prathamam ǀ puraḥ-hitam ǀ agnim ǀ naraḥ ǀ tri-sadhasthe ǀ sam ǀ īdhire ǀ
indreṇa ǀ devaiḥ ǀ sa-ratham ǀ saḥ ǀ barhiṣi ǀ sīdat ǀ ni ǀ hotā ǀ yajathāya ǀ su-kratuḥ ǁ5.11.2 Aṣṭaka 4.1.3.2Anuvāka 5.1.101
-
Ṛk 3
अस॑म्मृष्टो जायसे मा॒त्रोः शुचि॑र्मं॒द्रः क॒विरुद॑तिष्ठो वि॒वस्व॑तः ।
घृ॒तेन॑ त्वावर्धयन्नग्न आहुत धू॒मस्ते॑ के॒तुर॑भवद्दि॒वि श्रि॒तः ॥असम्मृष्टो जायसे मात्रोः शुचिर् मन्द्रः कविर् उद् अतिष्ठो विवस्वतः |
घृतेन त्वावर्धयन्न् अग्न आहुत धूमस् ते केतुर् अभवद् दिवि श्रितः ||ásammṛṣṭo jāyase mātróḥ śúcirmandráḥ kavírúdatiṣṭho vivásvataḥ ǀ
ghṛténa tvāvardhayannagna āhuta dhūmáste ketúrabhavaddiví śritáḥ ǁasammṛṣṭo jāyase mātroḥ śucir mandraḥ kavir ud atiṣṭho vivasvataḥ |
ghṛtena tvāvardhayann agna āhuta dhūmas te ketur abhavad divi śritaḥ ||अस॑म्ऽमृष्टः । जा॒य॒से॒ । मा॒त्रोः । शुचिः॑ । म॒न्द्रः । क॒विः । उत् । अ॒ति॒ष्ठः॒ । वि॒वस्व॑तः ।
घृ॒तेन॑ । त्वा॒ । अ॒व॒र्ध॒य॒न् । अ॒ग्ने॒ । आ॒ऽहु॒त॒ । धू॒मः । ते॒ । के॒तुः । अ॒भ॒व॒त् । दि॒वि । श्रि॒तः ॥असम्ऽमृष्टः । जायसे । मात्रोः । शुचिः । मन्द्रः । कविः । उत् । अतिष्ठः । विवस्वतः ।
घृतेन । त्वा । अवर्धयन् । अग्ने । आऽहुत । धूमः । ते । केतुः । अभवत् । दिवि । श्रितः ॥ásam-mṛṣṭaḥ ǀ jāyase ǀ mātróḥ ǀ śúciḥ ǀ mandráḥ ǀ kavíḥ ǀ út ǀ atiṣṭhaḥ ǀ vivásvataḥ ǀ
ghṛténa ǀ tvā ǀ avardhayan ǀ agne ǀ ā-huta ǀ dhūmáḥ ǀ te ǀ ketúḥ ǀ abhavat ǀ diví ǀ śritáḥ ǁasam-mṛṣṭaḥ ǀ jāyase ǀ mātroḥ ǀ śuciḥ ǀ mandraḥ ǀ kaviḥ ǀ ut ǀ atiṣṭhaḥ ǀ vivasvataḥ ǀ
ghṛtena ǀ tvā ǀ avardhayan ǀ agne ǀ ā-huta ǀ dhūmaḥ ǀ te ǀ ketuḥ ǀ abhavat ǀ divi ǀ śritaḥ ǁ5.11.3 Aṣṭaka 4.1.3.3Anuvāka 5.1.102
-
Ṛk 4
अ॒ग्निर्नो॑ य॒ज्ञमुप॑ वेतु साधु॒याग्निं नरो॒ वि भ॑रंते गृ॒हेगृ॑हे ।
अ॒ग्निर्दू॒तो अ॑भवद्धव्य॒वाह॑नो॒ऽग्निं वृ॑णा॒ना वृ॑णते क॒विक्र॑तुं ॥अग्निर् नो यज्ञम् उप वेतु साधुयाग्निं नरो वि भरन्ते गृहे-गृहे |
अग्निर् दूतो अभवद् धव्यवाहनो ऽग्निं वृणाना वृणते कविक्रतुम् ||agnírno yajñámúpa vetu sādhuyā́gním náro ví bharante gṛhégṛhe ǀ
agnírdūtó abhavaddhavyavā́hano’gním vṛṇānā́ vṛṇate kavíkratum ǁagnir no yajñam upa vetu sādhuyāgniṃ naro vi bharante gṛhe-gṛhe |
agnir dūto abhavad dhavyavāhano 'gniṃ vṛṇānā vṛṇate kavikratum ||अ॒ग्निः । नः॒ । य॒ज्ञम् । उप॑ । वे॒तु॒ । सा॒धु॒ऽया । अ॒ग्निम् । नरः॑ । वि । भ॒र॒न्ते॒ । गृ॒हेऽगृ॑हे ।
अ॒ग्निः । दू॒तः । अ॒भ॒व॒त् । ह॒व्य॒ऽवाह॑नः । अ॒ग्निम् । वृ॒णा॒नाः । वृ॒ण॒ते॒ । क॒विऽक्र॑तुम् ॥अग्निः । नः । यज्ञम् । उप । वेतु । साधुऽया । अग्निम् । नरः । वि । भरन्ते । गृहेऽगृहे ।
अग्निः । दूतः । अभवत् । हव्यऽवाहनः । अग्निम् । वृणानाः । वृणते । कविऽक्रतुम् ॥agníḥ ǀ naḥ ǀ yajñám ǀ úpa ǀ vetu ǀ sādhu-yā́ ǀ agním ǀ náraḥ ǀ ví ǀ bharante ǀ gṛhé-gṛhe ǀ
agníḥ ǀ dūtáḥ ǀ abhavat ǀ havya-vā́hanaḥ ǀ agním ǀ vṛṇānā́ḥ ǀ vṛṇate ǀ kaví-kratum ǁagniḥ ǀ naḥ ǀ yajñam ǀ upa ǀ vetu ǀ sādhu-yā ǀ agnim ǀ naraḥ ǀ vi ǀ bharante ǀ gṛhe-gṛhe ǀ
agniḥ ǀ dūtaḥ ǀ abhavat ǀ havya-vāhanaḥ ǀ agnim ǀ vṛṇānāḥ ǀ vṛṇate ǀ kavi-kratum ǁ5.11.4 Aṣṭaka 4.1.3.4Anuvāka 5.1.103
-
Ṛk 5
तुभ्ये॒दम॑ग्ने॒ मधु॑मत्तमं॒ वच॒स्तुभ्यं॑ मनी॒षा इ॒यम॑स्तु॒ शं हृ॒दे ।
त्वां गिरः॒ सिंधु॑मिवा॒वनी॑र्म॒हीरा पृ॑णंति॒ शव॑सा व॒र्धयं॑ति च ॥तुभ्येदम् अग्ने मधुमत्तमं वचस् तुभ्यम् मनीषा इयम् अस्तु शं हृदे |
त्वां गिरः सिन्धुम् इवावनीर् महीर् आ पृणन्ति शवसा वर्धयन्ति च ||túbhyedámagne mádhumattamam vácastúbhyam manīṣā́ iyámastu śám hṛdé ǀ
tvā́m gíraḥ síndhumivāvánīrmahī́rā́ pṛṇanti śávasā vardháyanti ca ǁtubhyedam agne madhumattamaṃ vacas tubhyam manīṣā iyam astu śaṃ hṛde |
tvāṃ giraḥ sindhum ivāvanīr mahīr ā pṛṇanti śavasā vardhayanti ca ||तुभ्य॑ । इ॒दम् । अ॒ग्ने॒ । मधु॑मत्ऽतमम् । वचः॑ । तुभ्य॑म् । म॒नी॒षा । इ॒यम् । अ॒स्तु॒ । शम् । हृ॒दे ।
त्वाम् । गिरः॑ । सिन्धु॑म्ऽइव । अ॒वनीः॑ । म॒हीः । आ । पृ॒ण॒न्ति॒ । शव॑सा । व॒र्धय॑न्ति । च॒ ॥तुभ्य । इदम् । अग्ने । मधुमत्ऽतमम् । वचः । तुभ्यम् । मनीषा । इयम् । अस्तु । शम् । हृदे ।
त्वाम् । गिरः । सिन्धुम्ऽइव । अवनीः । महीः । आ । पृणन्ति । शवसा । वर्धयन्ति । च ॥túbhya ǀ idám ǀ agne ǀ mádhumat-tamam ǀ vácaḥ ǀ túbhyam ǀ manīṣā́ ǀ iyám ǀ astu ǀ śám ǀ hṛdé ǀ
tvā́m ǀ gíraḥ ǀ síndhum-iva ǀ avánīḥ ǀ mahī́ḥ ǀ ā́ ǀ pṛṇanti ǀ śávasā ǀ vardháyanti ǀ ca ǁtubhya ǀ idam ǀ agne ǀ madhumat-tamam ǀ vacaḥ ǀ tubhyam ǀ manīṣā ǀ iyam ǀ astu ǀ śam ǀ hṛde ǀ
tvām ǀ giraḥ ǀ sindhum-iva ǀ avanīḥ ǀ mahīḥ ǀ ā ǀ pṛṇanti ǀ śavasā ǀ vardhayanti ǀ ca ǁ5.11.5 Aṣṭaka 4.1.3.5Anuvāka 5.1.104
-
Ṛk 6
त्वाम॑ग्ने॒ अंगि॑रसो॒ गुहा॑ हि॒तमन्व॑विंदंछिश्रिया॒णं वने॑वने ।
स जा॑यसे म॒थ्यमा॑नः॒ सहो॑ म॒हत्त्वामा॑हुः॒ सह॑सस्पु॒त्रमं॑गिरः ॥त्वाम् अग्ने अङ्गिरसो गुहा हितम् अन्व् अविन्दञ् छिश्रियाणं वने-वने |
स जायसे मथ्यमानः सहो महत् त्वाम् आहुः सहसस् पुत्रम् अङ्गिरः ||tvā́magne áṅgiraso gúhā hitámánvavindañchiśriyāṇám vánevane ǀ
sá jāyase mathyámānaḥ sáho maháttvā́māhuḥ sáhasasputrámaṅgiraḥ ǁtvām agne aṅgiraso guhā hitam anv avindañ chiśriyāṇaṃ vane-vane |
sa jāyase mathyamānaḥ saho mahat tvām āhuḥ sahasas putram aṅgiraḥ ||त्वाम् । अ॒ग्ने॒ । अङ्गि॑रसः । गुहा॑ । हि॒तम् । अनु॑ । अ॒वि॒न्द॒न् । शि॒श्रि॒या॒णम् । वने॑ऽवने ।
सः । जा॒य॒से॒ । म॒थ्यमा॑नः । सहः॑ । म॒हत् । त्वाम् । आ॒हुः॒ । सह॑सः । पु॒त्रम् । अ॒ङ्गि॒रः॒ ॥त्वाम् । अग्ने । अङ्गिरसः । गुहा । हितम् । अनु । अविन्दन् । शिश्रियाणम् । वनेऽवने ।
सः । जायसे । मथ्यमानः । सहः । महत् । त्वाम् । आहुः । सहसः । पुत्रम् । अङ्गिरः ॥tvā́m ǀ agne ǀ áṅgirasaḥ ǀ gúhā ǀ hitám ǀ ánu ǀ avindan ǀ śiśriyāṇám ǀ váne-vane ǀ
sáḥ ǀ jāyase ǀ mathyámānaḥ ǀ sáhaḥ ǀ mahát ǀ tvā́m ǀ āhuḥ ǀ sáhasaḥ ǀ putrám ǀ aṅgiraḥ ǁtvām ǀ agne ǀ aṅgirasaḥ ǀ guhā ǀ hitam ǀ anu ǀ avindan ǀ śiśriyāṇam ǀ vane-vane ǀ
saḥ ǀ jāyase ǀ mathyamānaḥ ǀ sahaḥ ǀ mahat ǀ tvām ǀ āhuḥ ǀ sahasaḥ ǀ putram ǀ aṅgiraḥ ǁ5.11.6 Aṣṭaka 4.1.3.6Anuvāka 5.1.105
Text, recitation and interpretations from the Ṛgveda database of theveda.org.in.