Sūkta 39
- Devatā देवता
- Indra
- Ṛṣi ऋषि
- Atri Bhauma
- Chandas छन्दस्
- Anuṣṭubh, Paṅkti
Metres by ṛk
1st set of styles nicṛdanuṣṭup (2, 3); virāḍanuṣṭup (1); svarāḍuṣnik (4); bṛhatī (5)
2nd set of styles anuṣṭubh (1-4); paṅkti (5)
-
Ṛk 1
यदिं॑द्र चित्र मे॒हनास्ति॒ त्वादा॑तमद्रिवः ।
राध॒स्तन्नो॑ विदद्वस उभयाह॒स्त्या भ॑र ॥यद् इन्द्र चित्र मेहनास्ति त्वादातम् अद्रिवः |
राधस् तन् नो विदद्वस उभयाहस्त्य् आ भर ||yádindra citra mehánā́sti tvā́dātamadrivaḥ ǀ
rā́dhastánno vidadvasa ubhayāhastyā́ bhara ǁyad indra citra mehanāsti tvādātam adrivaḥ |
rādhas tan no vidadvasa ubhayāhasty ā bhara ||यत् । इ॒न्द्र॒ । चि॒त्र॒ । मे॒हना॑ । अस्ति॑ । त्वाऽदा॑तम् । अ॒द्रि॒ऽवः॒ ।
राधः॑ । तत् । नः॒ । वि॒द॒द्व॒सो॒ इति॑ विदत्ऽवसो । उ॒भ॒या॒ह॒स्ति । आ । भ॒र॒ ॥यत् । इन्द्र । चित्र । मेहना । अस्ति । त्वाऽदातम् । अद्रिऽवः ।
राधः । तत् । नः । विदद्वसो इति विदत्ऽवसो । उभयाहस्ति । आ । भर ॥yát ǀ indra ǀ citra ǀ mehánā ǀ ásti ǀ tvā́-dātam ǀ adri-vaḥ ǀ
rā́dhaḥ ǀ tát ǀ naḥ ǀ vidadvaso íti vidat-vaso ǀ ubhayāhastí ǀ ā́ ǀ bhara ǁyat ǀ indra ǀ citra ǀ mehanā ǀ asti ǀ tvā-dātam ǀ adri-vaḥ ǀ
rādhaḥ ǀ tat ǀ naḥ ǀ vidadvaso iti vidat-vaso ǀ ubhayāhasti ǀ ā ǀ bhara ǁ5.39.1 Aṣṭaka 4.2.10.1Anuvāka 5.3.44
-
Ṛk 2
यन्मन्य॑से॒ वरे॑ण्य॒मिंद्र॑ द्यु॒क्षं तदा भ॑र ।
वि॒द्याम॒ तस्य॑ ते व॒यमकू॑पारस्य दा॒वने॑ ॥यन् मन्यसे वरेण्यम् इन्द्र द्युक्षं तद् आ भर |
विद्याम तस्य ते वयम् अकूपारस्य दावने ||yánmányase váreṇyamíndra dyukṣám tádā́ bhara ǀ
vidyā́ma tásya te vayámákūpārasya dāváne ǁyan manyase vareṇyam indra dyukṣaṃ tad ā bhara |
vidyāma tasya te vayam akūpārasya dāvane ||यत् । मन्य॑से । वरे॑ण्यम् । इन्द्र॑ । द्यु॒क्षम् । तत् । आ । भ॒र॒ ।
वि॒द्याम॑ । तस्य॑ । ते॒ । व॒यम् । अकू॑पारस्य । दा॒वने॑ ॥यत् । मन्यसे । वरेण्यम् । इन्द्र । द्युक्षम् । तत् । आ । भर ।
विद्याम । तस्य । ते । वयम् । अकूपारस्य । दावने ॥yát ǀ mányase ǀ váreṇyam ǀ índra ǀ dyukṣám ǀ tát ǀ ā́ ǀ bhara ǀ
vidyā́ma ǀ tásya ǀ te ǀ vayám ǀ ákūpārasya ǀ dāváne ǁyat ǀ manyase ǀ vareṇyam ǀ indra ǀ dyukṣam ǀ tat ǀ ā ǀ bhara ǀ
vidyāma ǀ tasya ǀ te ǀ vayam ǀ akūpārasya ǀ dāvane ǁ5.39.2 Aṣṭaka 4.2.10.2Anuvāka 5.3.45
-
Ṛk 3
यत्ते॑ दि॒त्सु प्र॒राध्यं॒ मनो॒ अस्ति॑ श्रु॒तं बृ॒हत् ।
तेन॑ दृ॒ळ्हा चि॑दद्रिव॒ आ वाजं॑ दर्षि सा॒तये॑ ॥यत् ते दित्सु प्रराध्यम् मनो अस्ति श्रुतम् बृहत् |
तेन दृऌहा चिद् अद्रिव आ वाजं दर्षि सातये ||yátte ditsú prarā́dhyam máno ásti śrutám bṛhát ǀ
téna dṛḷhā́ cidadriva ā́ vā́jam darṣi sātáye ǁyat te ditsu prarādhyam mano asti śrutam bṛhat |
tena dṛḷhā cid adriva ā vājaṃ darṣi sātaye ||यत् । ते॒ । दि॒त्सु । प्र॒ऽराध्य॑म् । मनः॑ । अस्ति॑ । श्रु॒तम् । बृ॒हत् ।
तेन॑ । दृ॒ळ्हा । चि॒त् । अ॒द्रि॒ऽवः॒ । आ । वाज॑म् । द॒र्षि॒ । सा॒तये॑ ॥यत् । ते । दित्सु । प्रऽराध्यम् । मनः । अस्ति । श्रुतम् । बृहत् ।
तेन । दृळ्हा । चित् । अद्रिऽवः । आ । वाजम् । दर्षि । सातये ॥yát ǀ te ǀ ditsú ǀ pra-rā́dhyam ǀ mánaḥ ǀ ásti ǀ śrutám ǀ bṛhát ǀ
téna ǀ dṛḷhā́ ǀ cit ǀ adri-vaḥ ǀ ā́ ǀ vā́jam ǀ darṣi ǀ sātáye ǁyat ǀ te ǀ ditsu ǀ pra-rādhyam ǀ manaḥ ǀ asti ǀ śrutam ǀ bṛhat ǀ
tena ǀ dṛḷhā ǀ cit ǀ adri-vaḥ ǀ ā ǀ vājam ǀ darṣi ǀ sātaye ǁ5.39.3 Aṣṭaka 4.2.10.3Anuvāka 5.3.46
-
Ṛk 4
मंहि॑ष्ठं वो म॒घोनां॒ राजा॑नं चर्षणी॒नां ।
इंद्र॒मुप॒ प्रश॑स्तये पू॒र्वीभि॑र्जुजुषे॒ गिरः॑ ॥मंहिष्ठं वो मघोनां राजानं चर्षणीनाम् |
इन्द्रम् उप प्रशस्तये पूर्वीभिर् जुजुषे गिरः ||máṃhiṣṭham vo maghónām rā́jānam carṣaṇīnā́m ǀ
índramúpa práśastaye pūrvī́bhirjujuṣe gíraḥ ǁmaṃhiṣṭhaṃ vo maghonāṃ rājānaṃ carṣaṇīnām |
indram upa praśastaye pūrvībhir jujuṣe giraḥ ||मंहि॑ष्ठम् । वः॒ । म॒घोना॑म् । राजा॑नम् । च॒र्ष॒णी॒नाम् ।
इन्द्र॑म् । उप॑ । प्रऽश॑स्तये । पू॒र्वीभिः॑ । जु॒जु॒षे॒ । गिरः॑ ॥मंहिष्ठम् । वः । मघोनाम् । राजानम् । चर्षणीनाम् ।
इन्द्रम् । उप । प्रऽशस्तये । पूर्वीभिः । जुजुषे । गिरः ॥máṃhiṣṭham ǀ vaḥ ǀ maghónām ǀ rā́jānam ǀ carṣaṇīnā́m ǀ
índram ǀ úpa ǀ prá-śastaye ǀ pūrvī́bhiḥ ǀ jujuṣe ǀ gíraḥ ǁmaṃhiṣṭham ǀ vaḥ ǀ maghonām ǀ rājānam ǀ carṣaṇīnām ǀ
indram ǀ upa ǀ pra-śastaye ǀ pūrvībhiḥ ǀ jujuṣe ǀ giraḥ ǁ5.39.4 Aṣṭaka 4.2.10.4Anuvāka 5.3.47
-
Ṛk 5
अस्मा॒ इत्काव्यं॒ वच॑ उ॒क्थमिंद्रा॑य॒ शंस्यं॑ ।
तस्मा॑ उ॒ ब्रह्म॑वाहसे॒ गिरो॑ वर्धं॒त्यत्र॑यो॒ गिरः॑ शुंभं॒त्यत्र॑यः ॥अस्मा इत् काव्यं वच उक्थम् इन्द्राय शंस्यम् |
तस्मा उ ब्रह्मवाहसे गिरो वर्धन्त्य् अत्रयो गिरः शुम्भन्त्य् अत्रयः ||ásmā ítkā́vyam váca ukthámíndrāya śáṃsyam ǀ
tásmā u bráhmavāhase gíro vardhantyátrayo gíraḥ śumbhantyátrayaḥ ǁasmā it kāvyaṃ vaca uktham indrāya śaṃsyam |
tasmā u brahmavāhase giro vardhanty atrayo giraḥ śumbhanty atrayaḥ ||अस्मै॑ । इत् । काव्य॑म् । वचः॑ । उ॒क्थम् । इन्द्रा॑य । शंस्य॑म् ।
तस्मै॑ । ऊं॒ इति॑ । ब्रह्म॑ऽवाहसे । गिरः॑ । व॒र्ध॒न्ति॒ । अत्र॑यः । गिरः॑ । शु॒म्भ॒न्ति॒ । अत्र॑यः ॥अस्मै । इत् । काव्यम् । वचः । उक्थम् । इन्द्राय । शंस्यम् ।
तस्मै । ऊं इति । ब्रह्मऽवाहसे । गिरः । वर्धन्ति । अत्रयः । गिरः । शुम्भन्ति । अत्रयः ॥ásmai ǀ ít ǀ kā́vyam ǀ vácaḥ ǀ ukthám ǀ índrāya ǀ śáṃsyam ǀ
tásmai ǀ ūṃ íti ǀ bráhma-vāhase ǀ gíraḥ ǀ vardhanti ǀ átrayaḥ ǀ gíraḥ ǀ śumbhanti ǀ átrayaḥ ǁasmai ǀ it ǀ kāvyam ǀ vacaḥ ǀ uktham ǀ indrāya ǀ śaṃsyam ǀ
tasmai ǀ ūṃ iti ǀ brahma-vāhase ǀ giraḥ ǀ vardhanti ǀ atrayaḥ ǀ giraḥ ǀ śumbhanti ǀ atrayaḥ ǁ5.39.5 Aṣṭaka 4.2.10.5Anuvāka 5.3.48
Text, recitation and interpretations from the Ṛgveda database of theveda.org.in.