Ṛgveda · Maṇḍala 5

Sūkta 55

Maruts · Śyāvāśva Ātreya · 10 ṛks

Link
Devatā देवता
Maruts
Ṛṣi ऋषि
Śyāvāśva Ātreya
Chandas छन्दस्
Jagatī, Triṣṭubh
Metres by ṛk

1st set of styles nicṛjjagatī (2, 4, 7, 8); jagatī (1, 5); nicṛttriṣṭup (6, 10); svarāṭtriṣṭup (3); virāḍjagatī (9)

2nd set of styles jagatī (1-9); triṣṭubh (10)

  1. Ṛk 1

    प्रय॑ज्यवो म॒रुतो॒ भ्राज॑दृष्टयो बृ॒हद्वयो॑ दधिरे रु॒क्मव॑क्षसः ।
    ईयं॑ते॒ अश्वैः॑ सु॒यमे॑भिरा॒शुभिः॒ शुभं॑ या॒तामनु॒ रथा॑ अवृत्सत ॥

    प्रयज्यवो मरुतो भ्राजदृष्टयो बृहद् वयो दधिरे रुक्मवक्षसः |
    ईयन्ते अश्वैः सुयमेभिर् आशुभिः शुभं याताम् अनु रथा अवृत्सत ||

    práyajyavo marúto bhrā́jadṛṣṭayo bṛhádváyo dadhire rukmávakṣasaḥ ǀ
    ī́yante áśvaiḥ suyámebhirāśúbhiḥ śúbham yātā́mánu ráthā avṛtsata ǁ

    prayajyavo maruto bhrājadṛṣṭayo bṛhad vayo dadhire rukmavakṣasaḥ |
    īyante aśvaiḥ suyamebhir āśubhiḥ śubhaṃ yātām anu rathā avṛtsata ||

    प्रऽय॑ज्यवः । म॒रुतः॑ । भ्राज॑त्ऽऋष्टयः । बृ॒हत् । वयः॑ । द॒धि॒रे॒ । रु॒क्मऽव॑क्षसः ।
    ईय॑न्ते । अश्वैः॑ । सु॒ऽयमे॑भिः । आ॒शुऽभिः॑ । शुभ॑म् । या॒ताम् । अनु॑ । रथाः॑ । अ॒वृ॒त्स॒त॒ ॥

    प्रऽयज्यवः । मरुतः । भ्राजत्ऽऋष्टयः । बृहत् । वयः । दधिरे । रुक्मऽवक्षसः ।
    ईयन्ते । अश्वैः । सुऽयमेभिः । आशुऽभिः । शुभम् । याताम् । अनु । रथाः । अवृत्सत ॥

    prá-yajyavaḥ ǀ marútaḥ ǀ bhrā́jat-ṛṣṭayaḥ ǀ bṛhát ǀ váyaḥ ǀ dadhire ǀ rukmá-vakṣasaḥ ǀ
    ī́yante ǀ áśvaiḥ ǀ su-yámebhiḥ ǀ āśú-bhiḥ ǀ śúbham ǀ yātā́m ǀ ánu ǀ ráthāḥ ǀ avṛtsata ǁ

    pra-yajyavaḥ ǀ marutaḥ ǀ bhrājat-ṛṣṭayaḥ ǀ bṛhat ǀ vayaḥ ǀ dadhire ǀ rukma-vakṣasaḥ ǀ
    īyante ǀ aśvaiḥ ǀ su-yamebhiḥ ǀ āśu-bhiḥ ǀ śubham ǀ yātām ǀ anu ǀ rathāḥ ǀ avṛtsata ǁ

    5.55.1 Aṣṭaka 4.3.17.1Anuvāka 5.4.105

  2. Ṛk 2

    स्व॒यं द॑धिध्वे॒ तवि॑षीं॒ यथा॑ वि॒द बृ॒हन्म॑हांत उर्वि॒या वि रा॑जथ ।
    उ॒तांतरि॑क्षं ममिरे॒ व्योज॑सा॒ शुभं॑ या॒तामनु॒ रथा॑ अवृत्सत ॥

    स्वयं दधिध्वे तविषीं यथा विद बृहन् महान्त उर्विया वि राजथ |
    उतान्तरिक्षम् ममिरे व्य् ओजसा शुभं याताम् अनु रथा अवृत्सत ||

    svayám dadhidhve táviṣīm yáthā vidá bṛhánmahānta urviyā́ ví rājatha ǀ
    utā́ntárikṣam mamire vyójasā śúbham yātā́mánu ráthā avṛtsata ǁ

    svayaṃ dadhidhve taviṣīṃ yathā vida bṛhan mahānta urviyā vi rājatha |
    utāntarikṣam mamire vy ojasā śubhaṃ yātām anu rathā avṛtsata ||

    स्व॒यम् । द॒धि॒ध्वे॒ । तवि॑षीम् । यथा॑ । वि॒द । बृ॒हत् । म॒हा॒न्तः॒ । उ॒र्वि॒या । वि । रा॒ज॒थ॒ ।
    उ॒त । अ॒न्तरि॑क्षम् । म॒मि॒रे॒ । वि । ओज॑सा । शुभ॑म् । या॒ताम् । अनु॑ । रथाः॑ । अ॒वृ॒त्स॒त॒ ॥

    स्वयम् । दधिध्वे । तविषीम् । यथा । विद । बृहत् । महान्तः । उर्विया । वि । राजथ ।
    उत । अन्तरिक्षम् । ममिरे । वि । ओजसा । शुभम् । याताम् । अनु । रथाः । अवृत्सत ॥

    svayám ǀ dadhidhve ǀ táviṣīm ǀ yáthā ǀ vidá ǀ bṛhát ǀ mahāntaḥ ǀ urviyā́ ǀ ví ǀ rājatha ǀ
    utá ǀ antárikṣam ǀ mamire ǀ ví ǀ ójasā ǀ śúbham ǀ yātā́m ǀ ánu ǀ ráthāḥ ǀ avṛtsata ǁ

    svayam ǀ dadhidhve ǀ taviṣīm ǀ yathā ǀ vida ǀ bṛhat ǀ mahāntaḥ ǀ urviyā ǀ vi ǀ rājatha ǀ
    uta ǀ antarikṣam ǀ mamire ǀ vi ǀ ojasā ǀ śubham ǀ yātām ǀ anu ǀ rathāḥ ǀ avṛtsata ǁ

    5.55.2 Aṣṭaka 4.3.17.2Anuvāka 5.4.106

  3. Ṛk 3

    सा॒कं जा॒ताः सु॒भ्वः॑ सा॒कमु॑क्षि॒ताः श्रि॒ये चि॒दा प्र॑त॒रं वा॑वृधु॒र्नरः॑ ।
    वि॒रो॒किणः॒ सूर्य॑स्येव र॒श्मयः॒ शुभं॑ या॒तामनु॒ रथा॑ अवृत्सत ॥

    साकं जाताः सुभ्वः साकम् उक्षिताः श्रिये चिद् आ प्रतरं वावृधुर् नरः |
    विरोकिणः सूर्यस्येव रश्मयः शुभं याताम् अनु रथा अवृत्सत ||

    sākám jātā́ḥ subhváḥ sākámukṣitā́ḥ śriyé cidā́ pratarám vāvṛdhurnáraḥ ǀ
    virokíṇaḥ sū́ryasyeva raśmáyaḥ śúbham yātā́mánu ráthā avṛtsata ǁ

    sākaṃ jātāḥ subhvaḥ sākam ukṣitāḥ śriye cid ā prataraṃ vāvṛdhur naraḥ |
    virokiṇaḥ sūryasyeva raśmayaḥ śubhaṃ yātām anu rathā avṛtsata ||

    सा॒कम् । जा॒ताः । सु॒ऽभ्वः॑ । सा॒कम् । उ॒क्षि॒ताः । श्रि॒ये । चि॒त् । आ । प्र॒ऽत॒रम् । व॒वृ॒धुः॒ । नरः॑ ।
    वि॒ऽरो॒किणः॑ । सूर्य॑स्यऽइव । र॒श्मयः॑ । शुभ॑म् । या॒ताम् । अनु॑ । रथाः॑ । अ॒वृ॒त्स॒त॒ ॥

    साकम् । जाताः । सुऽभ्वः । साकम् । उक्षिताः । श्रिये । चित् । आ । प्रऽतरम् । ववृधुः । नरः ।
    विऽरोकिणः । सूर्यस्यऽइव । रश्मयः । शुभम् । याताम् । अनु । रथाः । अवृत्सत ॥

    sākám ǀ jātā́ḥ ǀ su-bhváḥ ǀ sākám ǀ ukṣitā́ḥ ǀ śriyé ǀ cit ǀ ā́ ǀ pra-tarám ǀ vavṛdhuḥ ǀ náraḥ ǀ
    vi-rokíṇaḥ ǀ sū́ryasya-iva ǀ raśmáyaḥ ǀ śúbham ǀ yātā́m ǀ ánu ǀ ráthāḥ ǀ avṛtsata ǁ

    sākam ǀ jātāḥ ǀ su-bhvaḥ ǀ sākam ǀ ukṣitāḥ ǀ śriye ǀ cit ǀ ā ǀ pra-taram ǀ vavṛdhuḥ ǀ naraḥ ǀ
    vi-rokiṇaḥ ǀ sūryasya-iva ǀ raśmayaḥ ǀ śubham ǀ yātām ǀ anu ǀ rathāḥ ǀ avṛtsata ǁ

    5.55.3 Aṣṭaka 4.3.17.3Anuvāka 5.4.107

  4. Ṛk 4

    आ॒भू॒षेण्यं॑ वो मरुतो महित्व॒नं दि॑दृ॒क्षेण्यं॒ सूर्य॑स्येव॒ चक्ष॑णं ।
    उ॒तो अ॒स्माँ अ॑मृत॒त्वे द॑धातन॒ शुभं॑ या॒तामनु॒ रथा॑ अवृत्सत ॥

    आभूषेण्यं वो मरुतो महित्वनं दिदृक्षेण्यं सूर्यस्येव चक्षणम् |
    उतो अस्मां अमृतत्वे दधातन शुभं याताम् अनु रथा अवृत्सत ||

    ābhūṣéṇyam vo maruto mahitvanám didṛkṣéṇyam sū́ryasyeva cákṣaṇam ǀ
    utó asmā́m̐ amṛtatvé dadhātana śúbham yātā́mánu ráthā avṛtsata ǁ

    ābhūṣeṇyaṃ vo maruto mahitvanaṃ didṛkṣeṇyaṃ sūryasyeva cakṣaṇam |
    uto asmāṃ amṛtatve dadhātana śubhaṃ yātām anu rathā avṛtsata ||

    आ॒ऽभू॒षेण्य॑म् । वः॒ । म॒रु॒तः॒ । म॒हि॒ऽत्व॒नम् । दि॒दृ॒क्षेण्य॑म् । सूर्य॑स्यऽइव । चक्ष॑णम् ।
    उ॒तो इति॑ । अ॒स्मान् । अ॒मृ॒त॒ऽत्वे । द॒धा॒त॒न॒ । शुभ॑म् । या॒ताम् । अनु॑ । रथाः॑ । अ॒वृ॒त्स॒त॒ ॥

    आऽभूषेण्यम् । वः । मरुतः । महिऽत्वनम् । दिदृक्षेण्यम् । सूर्यस्यऽइव । चक्षणम् ।
    उतो इति । अस्मान् । अमृतऽत्वे । दधातन । शुभम् । याताम् । अनु । रथाः । अवृत्सत ॥

    ā-bhūṣéṇyam ǀ vaḥ ǀ marutaḥ ǀ mahi-tvanám ǀ didṛkṣéṇyam ǀ sū́ryasya-iva ǀ cákṣaṇam ǀ
    utó íti ǀ asmā́n ǀ amṛta-tvé ǀ dadhātana ǀ śúbham ǀ yātā́m ǀ ánu ǀ ráthāḥ ǀ avṛtsata ǁ

    ā-bhūṣeṇyam ǀ vaḥ ǀ marutaḥ ǀ mahi-tvanam ǀ didṛkṣeṇyam ǀ sūryasya-iva ǀ cakṣaṇam ǀ
    uto iti ǀ asmān ǀ amṛta-tve ǀ dadhātana ǀ śubham ǀ yātām ǀ anu ǀ rathāḥ ǀ avṛtsata ǁ

    5.55.4 Aṣṭaka 4.3.17.4Anuvāka 5.4.108

  5. Ṛk 5

    उदी॑रयथा मरुतः समुद्र॒तो यू॒यं वृ॒ष्टिं व॑र्षयथा पुरीषिणः ।
    न वो॑ दस्रा॒ उप॑ दस्यंति धे॒नवः॒ शुभं॑ या॒तामनु॒ रथा॑ अवृत्सत ॥

    उद् ईरयथा मरुतः समुद्रतो यूयं वृष्टिं वर्षयथा पुरीषिणः |
    न वो दस्रा उप दस्यन्ति धेनवः शुभं याताम् अनु रथा अवृत्सत ||

    údīrayathā marutaḥ samudrató yūyám vṛṣṭím varṣayathā purīṣiṇaḥ ǀ
    ná vo dasrā úpa dasyanti dhenávaḥ śúbham yātā́mánu ráthā avṛtsata ǁ

    ud īrayathā marutaḥ samudrato yūyaṃ vṛṣṭiṃ varṣayathā purīṣiṇaḥ |
    na vo dasrā upa dasyanti dhenavaḥ śubhaṃ yātām anu rathā avṛtsata ||

    उत् । ई॒र॒य॒थ॒ । म॒रु॒तः॒ । स॒मु॒द्र॒तः । यू॒यम् । वृ॒ष्टिम् । व॒र्ष॒य॒थ॒ । पु॒री॒षि॒णः॒ ।
    न । वः॒ । द॒स्राः॒ । उप॑ । द॒स्य॒न्ति॒ । धे॒नवः॑ । शुभ॑म् । या॒ताम् । अनु॑ । रथाः॑ । अ॒वृ॒त्स॒त॒ ॥

    उत् । ईरयथ । मरुतः । समुद्रतः । यूयम् । वृष्टिम् । वर्षयथ । पुरीषिणः ।
    न । वः । दस्राः । उप । दस्यन्ति । धेनवः । शुभम् । याताम् । अनु । रथाः । अवृत्सत ॥

    út ǀ īrayatha ǀ marutaḥ ǀ samudratáḥ ǀ yūyám ǀ vṛṣṭím ǀ varṣayatha ǀ purīṣiṇaḥ ǀ
    ná ǀ vaḥ ǀ dasrāḥ ǀ úpa ǀ dasyanti ǀ dhenávaḥ ǀ śúbham ǀ yātā́m ǀ ánu ǀ ráthāḥ ǀ avṛtsata ǁ

    ut ǀ īrayatha ǀ marutaḥ ǀ samudrataḥ ǀ yūyam ǀ vṛṣṭim ǀ varṣayatha ǀ purīṣiṇaḥ ǀ
    na ǀ vaḥ ǀ dasrāḥ ǀ upa ǀ dasyanti ǀ dhenavaḥ ǀ śubham ǀ yātām ǀ anu ǀ rathāḥ ǀ avṛtsata ǁ

    5.55.5 Aṣṭaka 4.3.17.5Anuvāka 5.4.109

  6. Ṛk 6

    यदश्वां॑धू॒र्षु पृष॑ती॒रयु॑ग्ध्वं हिर॒ण्यया॒न्प्रत्यत्काँ॒ अमु॑ग्ध्वं ।
    विश्वा॒ इत्स्पृधो॑ मरुतो॒ व्य॑स्यथ॒ शुभं॑ या॒तामनु॒ रथा॑ अवृत्सत ॥

    यद् अश्वान् धूर्षु पृषतीर् अयुग्ध्वं हिरण्ययान् प्रत्य् अत्कां अमुग्ध्वम् |
    विश्वा इत् स्पृधो मरुतो व्य् अस्यथ शुभं याताम् अनु रथा अवृत्सत ||

    yádáśvāndhūrṣú pṛ́ṣatīráyugdhvam hiraṇyáyānprátyátkām̐ ámugdhvam ǀ
    víśvā ítspṛ́dho maruto vyásyatha śúbham yātā́mánu ráthā avṛtsata ǁ

    yad aśvān dhūrṣu pṛṣatīr ayugdhvaṃ hiraṇyayān praty atkāṃ amugdhvam |
    viśvā it spṛdho maruto vy asyatha śubhaṃ yātām anu rathā avṛtsata ||

    यत् । अश्वा॑न् । धूः॒ऽसु । पृष॑तीः । अयु॑ग्ध्वम् । हि॒र॒ण्यया॑न् । प्रति॑ । अत्का॑न् । अमु॑ग्ध्वम् ।
    विश्वाः॑ । इत् । स्पृधः॑ । म॒रु॒तः॒ । वि । अ॒स्य॒थ॒ । शुभ॑म् । या॒ताम् । अनु॑ । रथाः॑ । अ॒वृ॒त्स॒त॒ ॥

    यत् । अश्वान् । धूःऽसु । पृषतीः । अयुग्ध्वम् । हिरण्ययान् । प्रति । अत्कान् । अमुग्ध्वम् ।
    विश्वाः । इत् । स्पृधः । मरुतः । वि । अस्यथ । शुभम् । याताम् । अनु । रथाः । अवृत्सत ॥

    yát ǀ áśvān ǀ dhūḥ-sú ǀ pṛ́ṣatīḥ ǀ áyugdhvam ǀ hiraṇyáyān ǀ práti ǀ átkān ǀ ámugdhvam ǀ
    víśvāḥ ǀ ít ǀ spṛ́dhaḥ ǀ marutaḥ ǀ ví ǀ asyatha ǀ śúbham ǀ yātā́m ǀ ánu ǀ ráthāḥ ǀ avṛtsata ǁ

    yat ǀ aśvān ǀ dhūḥ-su ǀ pṛṣatīḥ ǀ ayugdhvam ǀ hiraṇyayān ǀ prati ǀ atkān ǀ amugdhvam ǀ
    viśvāḥ ǀ it ǀ spṛdhaḥ ǀ marutaḥ ǀ vi ǀ asyatha ǀ śubham ǀ yātām ǀ anu ǀ rathāḥ ǀ avṛtsata ǁ

    5.55.6 Aṣṭaka 4.3.18.1Anuvāka 5.4.110

  7. Ṛk 7

    न पर्व॑ता॒ न न॒द्यो॑ वरंत वो॒ यत्राचि॑ध्वं मरुतो॒ गच्छ॒थेदु॒ तत् ।
    उ॒त द्यावा॑पृथि॒वी या॑थना॒ परि॒ शुभं॑ या॒तामनु॒ रथा॑ अवृत्सत ॥

    न पर्वता न नद्यो वरन्त वो यत्राचिध्वम् मरुतो गच्छथेद् उ तत् |
    उत द्यावापृथिवी याथना परि शुभं याताम् अनु रथा अवृत्सत ||

    ná párvatā ná nadyó varanta vo yátrā́cidhvam maruto gácchathédu tát ǀ
    utá dyā́vāpṛthivī́ yāthanā pári śúbham yātā́mánu ráthā avṛtsata ǁ

    na parvatā na nadyo varanta vo yatrācidhvam maruto gacchathed u tat |
    uta dyāvāpṛthivī yāthanā pari śubhaṃ yātām anu rathā avṛtsata ||

    न । पर्व॑ताः । न । न॒द्यः॑ । व॒र॒न्त॒ । वः॒ । यत्र॑ । अचि॑ध्वम् । म॒रु॒तः॒ । गच्छ॑थ । इत् । ऊं॒ इति॑ । तत् ।
    उ॒त । द्यावा॑पृथि॒वी इति॑ । या॒थ॒न॒ । परि॑ । शुभ॑म् । या॒ताम् । अनु॑ । रथाः॑ । अ॒वृ॒त्स॒त॒ ॥

    न । पर्वताः । न । नद्यः । वरन्त । वः । यत्र । अचिध्वम् । मरुतः । गच्छथ । इत् । ऊं इति । तत् ।
    उत । द्यावापृथिवी इति । याथन । परि । शुभम् । याताम् । अनु । रथाः । अवृत्सत ॥

    ná ǀ párvatāḥ ǀ ná ǀ nadyáḥ ǀ varanta ǀ vaḥ ǀ yátra ǀ ácidhvam ǀ marutaḥ ǀ gácchatha ǀ ít ǀ ūṃ íti ǀ tát ǀ
    utá ǀ dyā́vāpṛthivī́ íti ǀ yāthana ǀ pári ǀ śúbham ǀ yātā́m ǀ ánu ǀ ráthāḥ ǀ avṛtsata ǁ

    na ǀ parvatāḥ ǀ na ǀ nadyaḥ ǀ varanta ǀ vaḥ ǀ yatra ǀ acidhvam ǀ marutaḥ ǀ gacchatha ǀ it ǀ ūṃ iti ǀ tat ǀ
    uta ǀ dyāvāpṛthivī iti ǀ yāthana ǀ pari ǀ śubham ǀ yātām ǀ anu ǀ rathāḥ ǀ avṛtsata ǁ

    5.55.7 Aṣṭaka 4.3.18.2Anuvāka 5.4.111

  8. Ṛk 8

    यत्पू॒र्व्यं म॑रुतो॒ यच्च॒ नूत॑नं॒ यदु॒द्यते॑ वसवो॒ यच्च॑ श॒स्यते॑ ।
    विश्व॑स्य॒ तस्य॑ भवथा॒ नवे॑दसः॒ शुभं॑ या॒तामनु॒ रथा॑ अवृत्सत ॥

    यत् पूर्व्यम् मरुतो यच् च नूतनं यद् उद्यते वसवो यच् च शस्यते |
    विश्वस्य तस्य भवथा नवेदसः शुभं याताम् अनु रथा अवृत्सत ||

    yátpūrvyám maruto yácca nū́tanam yádudyáte vasavo yácca śasyáte ǀ
    víśvasya tásya bhavathā návedasaḥ śúbham yātā́mánu ráthā avṛtsata ǁ

    yat pūrvyam maruto yac ca nūtanaṃ yad udyate vasavo yac ca śasyate |
    viśvasya tasya bhavathā navedasaḥ śubhaṃ yātām anu rathā avṛtsata ||

    यत् । पू॒र्व्यम् । म॒रु॒तः॒ । यत् । च॒ । नूत॑नम् । यत् । उ॒द्यते॑ । व॒स॒वः॒ । यत् । च॒ । श॒स्यते॑ ।
    विश्व॑स्य । तस्य॑ । भ॒व॒थ॒ । नवे॑दसः । शुभ॑म् । या॒ताम् । अनु॑ । रथाः॑ । अ॒वृ॒त्स॒त॒ ॥

    यत् । पूर्व्यम् । मरुतः । यत् । च । नूतनम् । यत् । उद्यते । वसवः । यत् । च । शस्यते ।
    विश्वस्य । तस्य । भवथ । नवेदसः । शुभम् । याताम् । अनु । रथाः । अवृत्सत ॥

    yát ǀ pūrvyám ǀ marutaḥ ǀ yát ǀ ca ǀ nū́tanam ǀ yát ǀ udyáte ǀ vasavaḥ ǀ yát ǀ ca ǀ śasyáte ǀ
    víśvasya ǀ tásya ǀ bhavatha ǀ návedasaḥ ǀ śúbham ǀ yātā́m ǀ ánu ǀ ráthāḥ ǀ avṛtsata ǁ

    yat ǀ pūrvyam ǀ marutaḥ ǀ yat ǀ ca ǀ nūtanam ǀ yat ǀ udyate ǀ vasavaḥ ǀ yat ǀ ca ǀ śasyate ǀ
    viśvasya ǀ tasya ǀ bhavatha ǀ navedasaḥ ǀ śubham ǀ yātām ǀ anu ǀ rathāḥ ǀ avṛtsata ǁ

    5.55.8 Aṣṭaka 4.3.18.3Anuvāka 5.4.112

  9. Ṛk 9

    मृ॒ळत॑ नो मरुतो॒ मा व॑धिष्टना॒स्मभ्यं॒ शर्म॑ बहु॒लं वि यं॑तन ।
    अधि॑ स्तो॒त्रस्य॑ स॒ख्यस्य॑ गातन॒ शुभं॑ या॒तामनु॒ रथा॑ अवृत्सत ॥

    मृऌअत नो मरुतो मा वधिष्टनास्मभ्यं शर्म बहुलं वि यन्तन |
    अधि स्तोत्रस्य सख्यस्य गातन शुभं याताम् अनु रथा अवृत्सत ||

    mṛḷáta no maruto mā́ vadhiṣṭanāsmábhyam śárma bahulám ví yantana ǀ
    ádhi stotrásya sakhyásya gātana śúbham yātā́mánu ráthā avṛtsata ǁ

    mṛḷata no maruto mā vadhiṣṭanāsmabhyaṃ śarma bahulaṃ vi yantana |
    adhi stotrasya sakhyasya gātana śubhaṃ yātām anu rathā avṛtsata ||

    मृ॒ळत॑ । नः॒ । म॒रु॒तः॒ । मा । व॒धि॒ष्ट॒न॒ । अ॒स्मभ्य॑म् । शर्म॑ । ब॒हु॒लम् । वि । य॒न्त॒न॒ ।
    अधि॑ । स्तो॒त्रस्य॑ । स॒ख्यस्य॑ । गा॒त॒न॒ । शुभ॑म् । या॒ताम् । अनु॑ । रथाः॑ । अ॒वृ॒त्स॒त॒ ॥

    मृळत । नः । मरुतः । मा । वधिष्टन । अस्मभ्यम् । शर्म । बहुलम् । वि । यन्तन ।
    अधि । स्तोत्रस्य । सख्यस्य । गातन । शुभम् । याताम् । अनु । रथाः । अवृत्सत ॥

    mṛḷáta ǀ naḥ ǀ marutaḥ ǀ mā́ ǀ vadhiṣṭana ǀ asmábhyam ǀ śárma ǀ bahulám ǀ ví ǀ yantana ǀ
    ádhi ǀ stotrásya ǀ sakhyásya ǀ gātana ǀ śúbham ǀ yātā́m ǀ ánu ǀ ráthāḥ ǀ avṛtsata ǁ

    mṛḷata ǀ naḥ ǀ marutaḥ ǀ mā ǀ vadhiṣṭana ǀ asmabhyam ǀ śarma ǀ bahulam ǀ vi ǀ yantana ǀ
    adhi ǀ stotrasya ǀ sakhyasya ǀ gātana ǀ śubham ǀ yātām ǀ anu ǀ rathāḥ ǀ avṛtsata ǁ

    5.55.9 Aṣṭaka 4.3.18.4Anuvāka 5.4.113

  10. Ṛk 10

    यू॒यम॒स्मान्न॑यत॒ वस्यो॒ अच्छा॒ निरं॑ह॒तिभ्यो॑ मरुतो गृणा॒नाः ।
    जु॒षध्वं॑ नो ह॒व्यदा॑तिं यजत्रा व॒यं स्या॑म॒ पत॑यो रयी॒णां ॥

    यूयम् अस्मान् नयत वस्यो अच्छा निर् अंहतिभ्यो मरुतो गृणानाः |
    जुषध्वं नो हव्यदातिं यजत्रा वयं स्याम पतयो रयीणाम् ||

    yūyámasmā́nnayata vásyo ácchā níraṃhatíbhyo maruto gṛṇānā́ḥ ǀ
    juṣádhvam no havyádātim yajatrā vayám syāma pátayo rayīṇā́m ǁ

    yūyam asmān nayata vasyo acchā nir aṃhatibhyo maruto gṛṇānāḥ |
    juṣadhvaṃ no havyadātiṃ yajatrā vayaṃ syāma patayo rayīṇām ||

    यू॒यम् । अ॒स्मान् । न॒य॒त॒ । वस्यः॑ । अच्छ॑ । निः । अं॒ह॒तिऽभ्यः॑ । म॒रु॒तः॒ । गृ॒णा॒नाः ।
    जु॒षध्व॑म् । नः॒ । ह॒व्यऽदा॑तिम् । य॒ज॒त्राः॒ । व॒यम् । स्या॒म॒ । पत॑यः । र॒यी॒णाम् ॥

    यूयम् । अस्मान् । नयत । वस्यः । अच्छ । निः । अंहतिऽभ्यः । मरुतः । गृणानाः ।
    जुषध्वम् । नः । हव्यऽदातिम् । यजत्राः । वयम् । स्याम । पतयः । रयीणाम् ॥

    yūyám ǀ asmā́n ǀ nayata ǀ vásyaḥ ǀ áccha ǀ níḥ ǀ aṃhatí-bhyaḥ ǀ marutaḥ ǀ gṛṇānā́ḥ ǀ
    juṣádhvam ǀ naḥ ǀ havyá-dātim ǀ yajatrāḥ ǀ vayám ǀ syāma ǀ pátayaḥ ǀ rayīṇā́m ǁ

    yūyam ǀ asmān ǀ nayata ǀ vasyaḥ ǀ accha ǀ niḥ ǀ aṃhati-bhyaḥ ǀ marutaḥ ǀ gṛṇānāḥ ǀ
    juṣadhvam ǀ naḥ ǀ havya-dātim ǀ yajatrāḥ ǀ vayam ǀ syāma ǀ patayaḥ ǀ rayīṇām ǁ

    5.55.10 Aṣṭaka 4.3.18.5Anuvāka 5.4.114

Text, recitation and interpretations from the Ṛgveda database of theveda.org.in.

Ṛgveda 5.55 · Maruts

Interpretations

Sri Aurobindo

Ṛk 1

Strong for the sacrifice the Thought-Powers with their shining spears and the golden light of their bosoms hold a vast manifestation of our being; they journey with swift horses perfectly controlled; their chariots roll one after the other as they journey to Bliss.

Ṛk 2

Of yourselves you hold in thought an energy according to your knowledge; great are you and widely illumine a vastness; yea and with your force you have measured out the mid-world. One after the other their chariots roll [as they journey to Bliss.]

Ṛk 3

Together they were born, perfect in their becoming, together they are diffused and ever the godheads increase for the glory advancing more and more; wide are their splendours like the rays of the Sun of Truth. One after the [other their chariots roll as they journey to Bliss.]

Ṛk 4

O ye thought-powers, your greatness can enter into our being and carry with it a power of vision like the seeing of the bright Lord of Truth; and ye shall found us in the immortality. One after the other [their chariots roll as they journey to Bliss.]

Ṛk 5

O Thought-powers, from that ocean of the Waters you raise up and shower down the rain of your plenty; and your herds that foster are not harried by the foe, O ye achievers of the work. One after the other [their chariots roll as they journey to Bliss.]

Ṛk 6

When for horses of swiftness you have put your dappled deer in your yokes and have drawn about you your vestments of golden light, you scatter and sunder all that strives against you, O Thought-Powers of the Life. One after another [their chariots roll as they journey to Bliss.]

Ṛk 7

Not the mountains of being nor its rivers can hedge you in, but where you discern your way, O Thought-powers, to that you go. Your movement is over all the earth and all the heavens. One after another [their chariots roll as they journey to Bliss.]

Ṛk 8

Whatsoever is of old and whatsoever is new, that which rises in us, O Dwellers in substance, and that which is expressed, of all this you become the knowers. One after another [their chariots roll as they journey to Bliss.]

Ṛk 9

Be a gladness in us, O Thought-powers, hurt us not with your blows; work out widely for us your much bliss; enter into our affirmation and our companionship. One after another [their chariots roll as they journey to Bliss.]

Ṛk 10

Lead us, you, O Thought-powers hymned by us, from this to a richer existence out of the sin and evil. Accept our giving and oblation, O lords of sacrifice; let us become masters of your riches.