Ṛk 5.55.6
Saṃhitā
यदश्वां॑धू॒र्षु पृष॑ती॒रयु॑ग्ध्वं हिर॒ण्यया॒न्प्रत्यत्काँ॒ अमु॑ग्ध्वं ।
विश्वा॒ इत्स्पृधो॑ मरुतो॒ व्य॑स्यथ॒ शुभं॑ या॒तामनु॒ रथा॑ अवृत्सत ॥
यद् अश्वान् धूर्षु पृषतीर् अयुग्ध्वं हिरण्ययान् प्रत्य् अत्कां अमुग्ध्वम् |
विश्वा इत् स्पृधो मरुतो व्य् अस्यथ शुभं याताम् अनु रथा अवृत्सत ||
yádáśvāndhūrṣú pṛ́ṣatīráyugdhvam hiraṇyáyānprátyátkām̐ ámugdhvam ǀ
víśvā ítspṛ́dho maruto vyásyatha śúbham yātā́mánu ráthā avṛtsata ǁ
yad aśvān dhūrṣu pṛṣatīr ayugdhvaṃ hiraṇyayān praty atkāṃ amugdhvam |
viśvā it spṛdho maruto vy asyatha śubhaṃ yātām anu rathā avṛtsata ||
Padapāṭha
यत् । अश्वा॑न् । धूः॒ऽसु । पृष॑तीः । अयु॑ग्ध्वम् । हि॒र॒ण्यया॑न् । प्रति॑ । अत्का॑न् । अमु॑ग्ध्वम् ।
विश्वाः॑ । इत् । स्पृधः॑ । म॒रु॒तः॒ । वि । अ॒स्य॒थ॒ । शुभ॑म् । या॒ताम् । अनु॑ । रथाः॑ । अ॒वृ॒त्स॒त॒ ॥
यत् । अश्वान् । धूःऽसु । पृषतीः । अयुग्ध्वम् । हिरण्ययान् । प्रति । अत्कान् । अमुग्ध्वम् ।
विश्वाः । इत् । स्पृधः । मरुतः । वि । अस्यथ । शुभम् । याताम् । अनु । रथाः । अवृत्सत ॥
yát ǀ áśvān ǀ dhūḥ-sú ǀ pṛ́ṣatīḥ ǀ áyugdhvam ǀ hiraṇyáyān ǀ práti ǀ átkān ǀ ámugdhvam ǀ
víśvāḥ ǀ ít ǀ spṛ́dhaḥ ǀ marutaḥ ǀ ví ǀ asyatha ǀ śúbham ǀ yātā́m ǀ ánu ǀ ráthāḥ ǀ avṛtsata ǁ
yat ǀ aśvān ǀ dhūḥ-su ǀ pṛṣatīḥ ǀ ayugdhvam ǀ hiraṇyayān ǀ prati ǀ atkān ǀ amugdhvam ǀ
viśvāḥ ǀ it ǀ spṛdhaḥ ǀ marutaḥ ǀ vi ǀ asyatha ǀ śubham ǀ yātām ǀ anu ǀ rathāḥ ǀ avṛtsata ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 05.055.06
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 4.3.18.01
- Maṇḍala · Anuvāka · Ṛk
- 05.04.110
- Devatā देवता
- Maruts
- Ṛṣi ऋषि
- Śyāvāśva Ātreya
- Chandas छन्दस्
- Jagatī, Triṣṭubh
- Svara स्वरः
- निषादः
Text and interpretations from the Ṛgveda database of theveda.org.in.