Ṛk 5.55.4
Saṃhitā
आ॒भू॒षेण्यं॑ वो मरुतो महित्व॒नं दि॑दृ॒क्षेण्यं॒ सूर्य॑स्येव॒ चक्ष॑णं ।
उ॒तो अ॒स्माँ अ॑मृत॒त्वे द॑धातन॒ शुभं॑ या॒तामनु॒ रथा॑ अवृत्सत ॥
आभूषेण्यं वो मरुतो महित्वनं दिदृक्षेण्यं सूर्यस्येव चक्षणम् |
उतो अस्मां अमृतत्वे दधातन शुभं याताम् अनु रथा अवृत्सत ||
ābhūṣéṇyam vo maruto mahitvanám didṛkṣéṇyam sū́ryasyeva cákṣaṇam ǀ
utó asmā́m̐ amṛtatvé dadhātana śúbham yātā́mánu ráthā avṛtsata ǁ
ābhūṣeṇyaṃ vo maruto mahitvanaṃ didṛkṣeṇyaṃ sūryasyeva cakṣaṇam |
uto asmāṃ amṛtatve dadhātana śubhaṃ yātām anu rathā avṛtsata ||
Padapāṭha
आ॒ऽभू॒षेण्य॑म् । वः॒ । म॒रु॒तः॒ । म॒हि॒ऽत्व॒नम् । दि॒दृ॒क्षेण्य॑म् । सूर्य॑स्यऽइव । चक्ष॑णम् ।
उ॒तो इति॑ । अ॒स्मान् । अ॒मृ॒त॒ऽत्वे । द॒धा॒त॒न॒ । शुभ॑म् । या॒ताम् । अनु॑ । रथाः॑ । अ॒वृ॒त्स॒त॒ ॥
आऽभूषेण्यम् । वः । मरुतः । महिऽत्वनम् । दिदृक्षेण्यम् । सूर्यस्यऽइव । चक्षणम् ।
उतो इति । अस्मान् । अमृतऽत्वे । दधातन । शुभम् । याताम् । अनु । रथाः । अवृत्सत ॥
ā-bhūṣéṇyam ǀ vaḥ ǀ marutaḥ ǀ mahi-tvanám ǀ didṛkṣéṇyam ǀ sū́ryasya-iva ǀ cákṣaṇam ǀ
utó íti ǀ asmā́n ǀ amṛta-tvé ǀ dadhātana ǀ śúbham ǀ yātā́m ǀ ánu ǀ ráthāḥ ǀ avṛtsata ǁ
ā-bhūṣeṇyam ǀ vaḥ ǀ marutaḥ ǀ mahi-tvanam ǀ didṛkṣeṇyam ǀ sūryasya-iva ǀ cakṣaṇam ǀ
uto iti ǀ asmān ǀ amṛta-tve ǀ dadhātana ǀ śubham ǀ yātām ǀ anu ǀ rathāḥ ǀ avṛtsata ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 05.055.04
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 4.3.17.04
- Maṇḍala · Anuvāka · Ṛk
- 05.04.108
- Devatā देवता
- Maruts
- Ṛṣi ऋषि
- Śyāvāśva Ātreya
- Chandas छन्दस्
- Jagatī, Triṣṭubh
- Svara स्वरः
- निषादः
Text and interpretations from the Ṛgveda database of theveda.org.in.