Ṛk 5.55.3
Saṃhitā
सा॒कं जा॒ताः सु॒भ्वः॑ सा॒कमु॑क्षि॒ताः श्रि॒ये चि॒दा प्र॑त॒रं वा॑वृधु॒र्नरः॑ ।
वि॒रो॒किणः॒ सूर्य॑स्येव र॒श्मयः॒ शुभं॑ या॒तामनु॒ रथा॑ अवृत्सत ॥
साकं जाताः सुभ्वः साकम् उक्षिताः श्रिये चिद् आ प्रतरं वावृधुर् नरः |
विरोकिणः सूर्यस्येव रश्मयः शुभं याताम् अनु रथा अवृत्सत ||
sākám jātā́ḥ subhváḥ sākámukṣitā́ḥ śriyé cidā́ pratarám vāvṛdhurnáraḥ ǀ
virokíṇaḥ sū́ryasyeva raśmáyaḥ śúbham yātā́mánu ráthā avṛtsata ǁ
sākaṃ jātāḥ subhvaḥ sākam ukṣitāḥ śriye cid ā prataraṃ vāvṛdhur naraḥ |
virokiṇaḥ sūryasyeva raśmayaḥ śubhaṃ yātām anu rathā avṛtsata ||
Padapāṭha
सा॒कम् । जा॒ताः । सु॒ऽभ्वः॑ । सा॒कम् । उ॒क्षि॒ताः । श्रि॒ये । चि॒त् । आ । प्र॒ऽत॒रम् । व॒वृ॒धुः॒ । नरः॑ ।
वि॒ऽरो॒किणः॑ । सूर्य॑स्यऽइव । र॒श्मयः॑ । शुभ॑म् । या॒ताम् । अनु॑ । रथाः॑ । अ॒वृ॒त्स॒त॒ ॥
साकम् । जाताः । सुऽभ्वः । साकम् । उक्षिताः । श्रिये । चित् । आ । प्रऽतरम् । ववृधुः । नरः ।
विऽरोकिणः । सूर्यस्यऽइव । रश्मयः । शुभम् । याताम् । अनु । रथाः । अवृत्सत ॥
sākám ǀ jātā́ḥ ǀ su-bhváḥ ǀ sākám ǀ ukṣitā́ḥ ǀ śriyé ǀ cit ǀ ā́ ǀ pra-tarám ǀ vavṛdhuḥ ǀ náraḥ ǀ
vi-rokíṇaḥ ǀ sū́ryasya-iva ǀ raśmáyaḥ ǀ śúbham ǀ yātā́m ǀ ánu ǀ ráthāḥ ǀ avṛtsata ǁ
sākam ǀ jātāḥ ǀ su-bhvaḥ ǀ sākam ǀ ukṣitāḥ ǀ śriye ǀ cit ǀ ā ǀ pra-taram ǀ vavṛdhuḥ ǀ naraḥ ǀ
vi-rokiṇaḥ ǀ sūryasya-iva ǀ raśmayaḥ ǀ śubham ǀ yātām ǀ anu ǀ rathāḥ ǀ avṛtsata ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 05.055.03
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 4.3.17.03
- Maṇḍala · Anuvāka · Ṛk
- 05.04.107
- Devatā देवता
- Maruts
- Ṛṣi ऋषि
- Śyāvāśva Ātreya
- Chandas छन्दस्
- Jagatī, Triṣṭubh
- Svara स्वरः
- निषादः
Text and interpretations from the Ṛgveda database of theveda.org.in.