Ṛgveda · Maṇḍala 5

Sūkta 83

Parjanya · Atri Bhauma · 10 ṛks

Link
Devatā देवता
Parjanya
Ṛṣi ऋषि
Atri Bhauma
Chandas छन्दस्
Triṣṭubh, Jagatī, Anuṣṭubh
Metres by ṛk

1st set of styles triṣṭup (5, 6); bhurikpaṅkti (8, 10); nicṛttriṣṭup (1); svarāṭtriṣṭup (2); bhuriktriṣṭup (3); nicṛjjagatī (4); virāṭtrisṭup (7); nicṛdanuṣṭup (9)

2nd set of styles triṣṭubh (1, 5-8, 10); jagatī (2-4); anuṣṭubh (9)

  1. Ṛk 1

    अच्छा॑ वद त॒वसं॑ गी॒र्भिरा॒भिः स्तु॒हि प॒र्जन्यं॒ नम॒सा वि॑वास ।
    कनि॑क्रदद्वृष॒भो जी॒रदा॑नू॒ रेतो॑ दधा॒त्योष॑धीषु॒ गर्भं॑ ॥

    अच्छा वद तवसं गीर्भिर् आभि स्तुहि पर्जन्यं नमसा विवास |
    कनिक्रदद् वृषभो जीरदानू रेतो दधात्य् ओषधीषु गर्भम् ||

    ácchā vada tavásam gīrbhírābhíḥ stuhí parjányam námasā́ vivāsa ǀ
    kánikradadvṛṣabhó jīrádānū réto dadhātyóṣadhīṣu gárbham ǁ

    acchā vada tavasaṃ gīrbhir ābhi stuhi parjanyaṃ namasā vivāsa |
    kanikradad vṛṣabho jīradānū reto dadhāty oṣadhīṣu garbham ||

    अच्छ॑ । व॒द॒ । त॒वस॑म् । गीः॒ऽभिः । आ॒भिः । स्तु॒हि । प॒र्जन्य॑म् । नम॑सा । आ । वि॒वा॒स॒ ।
    कनि॑क्रदत् । वृ॒ष॒भः । जी॒रऽदा॑नुः । रेतः॑ । द॒धा॒ति॒ । ओष॑धीषु । गर्भ॑म् ॥

    अच्छ । वद । तवसम् । गीःऽभिः । आभिः । स्तुहि । पर्जन्यम् । नमसा । आ । विवास ।
    कनिक्रदत् । वृषभः । जीरऽदानुः । रेतः । दधाति । ओषधीषु । गर्भम् ॥

    áccha ǀ vada ǀ tavásam ǀ gīḥ-bhíḥ ǀ ābhíḥ ǀ stuhí ǀ parjányam ǀ námasā ǀ ā́ ǀ vivāsa ǀ
    kánikradat ǀ vṛṣabháḥ ǀ jīrá-dānuḥ ǀ rétaḥ ǀ dadhāti ǀ óṣadhīṣu ǀ gárbham ǁ

    accha ǀ vada ǀ tavasam ǀ gīḥ-bhiḥ ǀ ābhiḥ ǀ stuhi ǀ parjanyam ǀ namasā ǀ ā ǀ vivāsa ǀ
    kanikradat ǀ vṛṣabhaḥ ǀ jīra-dānuḥ ǀ retaḥ ǀ dadhāti ǀ oṣadhīṣu ǀ garbham ǁ

    5.83.1 Aṣṭaka 4.4.27.1Anuvāka 5.6.79

  2. Ṛk 2

    वि वृ॒क्षान् हं॑त्यु॒त हं॑ति र॒क्षसो॒ विश्वं॑ बिभाय॒ भुव॑नं म॒हाव॑धात् ।
    उ॒ताना॑गा ईषते॒ वृष्ण्या॑वतो॒ यत्प॒र्जन्यः॑ स्त॒नय॒न् हंति॑ दु॒ष्कृतः॑ ॥

    वि वृक्षान् हन्त्य् उत हन्ति रक्षसो विश्वम् बिभाय भुवनम् महावधात् |
    उतानागा ईषते वृष्ण्यावतो यत् पर्जन्य स्तनयन् हन्ति दुष्कृतः ||

    ví vṛkṣā́n hantyutá hanti rakṣáso víśvam bibhāya bhúvanam mahā́vadhāt ǀ
    utā́nāgā īṣate vṛ́ṣṇyāvato yátparjányaḥ stanáyan hánti duṣkṛ́taḥ ǁ

    vi vṛkṣān hanty uta hanti rakṣaso viśvam bibhāya bhuvanam mahāvadhāt |
    utānāgā īṣate vṛṣṇyāvato yat parjanya stanayan hanti duṣkṛtaḥ ||

    वि । वृ॒क्षान् । ह॒न्ति॒ । उ॒त । ह॒न्ति॒ । र॒क्षसः॑ । विश्व॑म् । बि॒भा॒य॒ । भुव॑नम् । म॒हाऽव॑धात् ।
    उ॒त । अना॑गाः । ई॒ष॒ते॒ । वृष्ण्य॑ऽवतः । यत् । प॒र्जन्यः॑ । स्त॒नय॑न् । हन्ति॑ । दुः॒ऽकृतः॑ ॥

    वि । वृक्षान् । हन्ति । उत । हन्ति । रक्षसः । विश्वम् । बिभाय । भुवनम् । महाऽवधात् ।
    उत । अनागाः । ईषते । वृष्ण्यऽवतः । यत् । पर्जन्यः । स्तनयन् । हन्ति । दुःऽकृतः ॥

    ví ǀ vṛkṣā́n ǀ hanti ǀ utá ǀ hanti ǀ rakṣásaḥ ǀ víśvam ǀ bibhāya ǀ bhúvanam ǀ mahā́-vadhāt ǀ
    utá ǀ ánāgāḥ ǀ īṣate ǀ vṛ́ṣṇya-vataḥ ǀ yát ǀ parjányaḥ ǀ stanáyan ǀ hánti ǀ duḥ-kṛ́taḥ ǁ

    vi ǀ vṛkṣān ǀ hanti ǀ uta ǀ hanti ǀ rakṣasaḥ ǀ viśvam ǀ bibhāya ǀ bhuvanam ǀ mahā-vadhāt ǀ
    uta ǀ anāgāḥ ǀ īṣate ǀ vṛṣṇya-vataḥ ǀ yat ǀ parjanyaḥ ǀ stanayan ǀ hanti ǀ duḥ-kṛtaḥ ǁ

    5.83.2 Aṣṭaka 4.4.27.2Anuvāka 5.6.80

  3. Ṛk 3

    र॒थीव॒ कश॒याश्वाँ॑ अभिक्षि॒पन्ना॒विर्दू॒तान्कृ॑णुते व॒र्ष्याँ॒३॒॑ अह॑ ।
    दू॒रात्सिं॒हस्य॑ स्त॒नथा॒ उदी॑रते॒ यत्प॒र्जन्यः॑ कृणु॒ते व॒र्ष्यं१॒॑ नभः॑ ॥

    रथीव कशयाश्वां अभिक्षिपन्न् आविर् दूतान् कृणुते वर्ष्यां अह |
    दूरात् सिंहस्य स्तनथा उद् ईरते यत् पर्जन्यः कृणुते वर्ष्यं नभः ||

    rathī́va káśayā́śvām̐ abhikṣipánnāvírdūtā́nkṛṇute varṣyā́m̐ áha ǀ
    dūrā́tsiṃhásya stanáthā údīrate yátparjányaḥ kṛṇuté varṣyám nábhaḥ ǁ

    rathīva kaśayāśvāṃ abhikṣipann āvir dūtān kṛṇute varṣyāṃ aha |
    dūrāt siṃhasya stanathā ud īrate yat parjanyaḥ kṛṇute varṣyaṃ nabhaḥ ||

    र॒थीऽइ॑व । कश॑या । अश्वा॑न् । अ॒भि॒ऽक्षि॒पन् । आ॒विः । दू॒तान् । कृ॒णु॒ते॒ । व॒र्ष्या॑न् । अह॑ ।
    दू॒रात् । सिं॒हस्य॑ । स्त॒नथाः॑ । उत् । ई॒र॒ते॒ । यत् । प॒र्जन्यः॑ । कृ॒णु॒ते । व॒र्ष्य॑म् । नभः॑ ॥

    रथीऽइव । कशया । अश्वान् । अभिऽक्षिपन् । आविः । दूतान् । कृणुते । वर्ष्यान् । अह ।
    दूरात् । सिंहस्य । स्तनथाः । उत् । ईरते । यत् । पर्जन्यः । कृणुते । वर्ष्यम् । नभः ॥

    rathī́-iva ǀ káśayā ǀ áśvān ǀ abhi-kṣipán ǀ āvíḥ ǀ dūtā́n ǀ kṛṇute ǀ varṣyā́n ǀ áha ǀ
    dūrā́t ǀ siṃhásya ǀ stanáthāḥ ǀ út ǀ īrate ǀ yát ǀ parjányaḥ ǀ kṛṇuté ǀ varṣyám ǀ nábhaḥ ǁ

    rathī-iva ǀ kaśayā ǀ aśvān ǀ abhi-kṣipan ǀ āviḥ ǀ dūtān ǀ kṛṇute ǀ varṣyān ǀ aha ǀ
    dūrāt ǀ siṃhasya ǀ stanathāḥ ǀ ut ǀ īrate ǀ yat ǀ parjanyaḥ ǀ kṛṇute ǀ varṣyam ǀ nabhaḥ ǁ

    5.83.3 Aṣṭaka 4.4.27.3Anuvāka 5.6.81

  4. Ṛk 4

    प्र वाता॒ वांति॑ प॒तयं॑ति वि॒द्युत॒ उदोष॑धी॒र्जिह॑ते॒ पिन्व॑ते॒ स्वः॑ ।
    इरा॒ विश्व॑स्मै॒ भुव॑नाय जायते॒ यत्प॒र्जन्यः॑ पृथि॒वीं रेत॒साव॑ति ॥

    प्र वाता वान्ति पतयन्ति विद्युत उद् ओषधीर् जिहते पिन्वते स्वः |
    इरा विश्वस्मै भुवनाय जायते यत् पर्जन्यः पृथिवीं रेतसावति ||

    prá vā́tā vā́nti patáyanti vidyúta údóṣadhīrjíhate pínvate sváḥ ǀ
    írā víśvasmai bhúvanāya jāyate yátparjányaḥ pṛthivī́m rétasā́vati ǁ

    pra vātā vānti patayanti vidyuta ud oṣadhīr jihate pinvate svaḥ |
    irā viśvasmai bhuvanāya jāyate yat parjanyaḥ pṛthivīṃ retasāvati ||

    प्र । वाताः॑ । वान्ति॑ । प॒तय॑न्ति । वि॒ऽद्युतः॑ । उत् । ओष॑धीः । जिह॑ते । पिन्व॑ते । स्वः॑ ।
    इरा॑ । विश्व॑स्मै । भुव॑नाय । जा॒य॒ते॒ । यत् । प॒र्जन्यः॑ । पृ॒थि॒वीम् । रेत॑सा । अव॑ति ॥

    प्र । वाताः । वान्ति । पतयन्ति । विऽद्युतः । उत् । ओषधीः । जिहते । पिन्वते । स्वः ।
    इरा । विश्वस्मै । भुवनाय । जायते । यत् । पर्जन्यः । पृथिवीम् । रेतसा । अवति ॥

    prá ǀ vā́tāḥ ǀ vā́nti ǀ patáyanti ǀ vi-dyútaḥ ǀ út ǀ óṣadhīḥ ǀ jíhate ǀ pínvate ǀ sváḥ ǀ
    írā ǀ víśvasmai ǀ bhúvanāya ǀ jāyate ǀ yát ǀ parjányaḥ ǀ pṛthivī́m ǀ rétasā ǀ ávati ǁ

    pra ǀ vātāḥ ǀ vānti ǀ patayanti ǀ vi-dyutaḥ ǀ ut ǀ oṣadhīḥ ǀ jihate ǀ pinvate ǀ svaḥ ǀ
    irā ǀ viśvasmai ǀ bhuvanāya ǀ jāyate ǀ yat ǀ parjanyaḥ ǀ pṛthivīm ǀ retasā ǀ avati ǁ

    5.83.4 Aṣṭaka 4.4.27.4Anuvāka 5.6.82

  5. Ṛk 5

    यस्य॑ व्र॒ते पृ॑थि॒वी नन्न॑मीति॒ यस्य॑ व्र॒ते श॒फव॒ज्जर्भु॑रीति ।
    यस्य॑ व्र॒त ओष॑धीर्वि॒श्वरू॑पाः॒ स नः॑ पर्जन्य॒ महि॒ शर्म॑ यच्छ ॥

    यस्य व्रते पृथिवी नन्नमीति यस्य व्रते शफवज् जर्भुरीति |
    यस्य व्रत ओषधीर् विश्वरूपाः स नः पर्जन्य महि शर्म यच्छ ||

    yásya vraté pṛthivī́ nánnamīti yásya vraté śaphávajjárbhurīti ǀ
    yásya vratá óṣadhīrviśvárūpāḥ sá naḥ parjanya máhi śárma yaccha ǁ

    yasya vrate pṛthivī nannamīti yasya vrate śaphavaj jarbhurīti |
    yasya vrata oṣadhīr viśvarūpāḥ sa naḥ parjanya mahi śarma yaccha ||

    यस्य॑ । व्र॒ते । पृ॒थि॒वी । नम्न॑मीति । यस्य॑ । व्र॒ते । श॒फऽव॑त् । जर्भु॑रीति ।
    यस्य॑ । व्र॒ते । ओष॑धीः । वि॒श्वऽरू॑पाः । सः । नः॒ । प॒र्ज॒न्य॒ । महि॑ । शर्म॑ । य॒च्छ॒ ॥

    यस्य । व्रते । पृथिवी । नम्नमीति । यस्य । व्रते । शफऽवत् । जर्भुरीति ।
    यस्य । व्रते । ओषधीः । विश्वऽरूपाः । सः । नः । पर्जन्य । महि । शर्म । यच्छ ॥

    yásya ǀ vraté ǀ pṛthivī́ ǀ námnamīti ǀ yásya ǀ vraté ǀ śaphá-vat ǀ járbhurīti ǀ
    yásya ǀ vraté ǀ óṣadhīḥ ǀ viśvá-rūpāḥ ǀ sáḥ ǀ naḥ ǀ parjanya ǀ máhi ǀ śárma ǀ yaccha ǁ

    yasya ǀ vrate ǀ pṛthivī ǀ namnamīti ǀ yasya ǀ vrate ǀ śapha-vat ǀ jarbhurīti ǀ
    yasya ǀ vrate ǀ oṣadhīḥ ǀ viśva-rūpāḥ ǀ saḥ ǀ naḥ ǀ parjanya ǀ mahi ǀ śarma ǀ yaccha ǁ

    5.83.5 Aṣṭaka 4.4.27.5Anuvāka 5.6.83

  6. Ṛk 6

    दि॒वो नो॑ वृ॒ष्टिं म॑रुतो ररीध्वं॒ प्र पि॑न्वत॒ वृष्णो॒ अश्व॑स्य॒ धाराः॑ ।
    अ॒र्वाङे॒तेन॑ स्तनयि॒त्नुनेह्य॒पो नि॑षिं॒चन्नसु॑रः पि॒ता नः॑ ॥

    दिवो नो वृष्टिम् मरुतो ररीध्वम् प्र पिन्वत वृष्णो अश्वस्य धाराः |
    अर्वाङ् एतेन स्तनयित्नुनेह्य् अपो निषिञ्चन्न् असुरः पिता नः ||

    divó no vṛṣṭím maruto rarīdhvam prá pinvata vṛ́ṣṇo áśvasya dhā́rāḥ ǀ
    arvā́ṅeténa stanayitnúnéhyapó niṣiñcánnásuraḥ pitā́ naḥ ǁ

    divo no vṛṣṭim maruto rarīdhvam pra pinvata vṛṣṇo aśvasya dhārāḥ |
    arvāṅ etena stanayitnunehy apo niṣiñcann asuraḥ pitā naḥ ||

    दि॒वः । नः॒ । वृ॒ष्टिम् । म॒रु॒तः॒ । र॒री॒ध्व॒म् । प्र । पि॒न्व॒त॒ । वृष्णः॑ । अश्व॑स्य । धाराः॑ ।
    अ॒र्वाङ् । ए॒तेन॑ । स्त॒न॒यि॒त्नुना॑ । आ । इ॒हि॒ । अ॒पः । नि॒ऽसि॒ञ्चन् । असु॑रः । पि॒ता । नः॒ ॥

    दिवः । नः । वृष्टिम् । मरुतः । ररीध्वम् । प्र । पिन्वत । वृष्णः । अश्वस्य । धाराः ।
    अर्वाङ् । एतेन । स्तनयित्नुना । आ । इहि । अपः । निऽसिञ्चन् । असुरः । पिता । नः ॥

    diváḥ ǀ naḥ ǀ vṛṣṭím ǀ marutaḥ ǀ rarīdhvam ǀ prá ǀ pinvata ǀ vṛ́ṣṇaḥ ǀ áśvasya ǀ dhā́rāḥ ǀ
    arvā́ṅ ǀ eténa ǀ stanayitnúnā ǀ ā́ ǀ ihi ǀ apáḥ ǀ ni-siñcán ǀ ásuraḥ ǀ pitā́ ǀ naḥ ǁ

    divaḥ ǀ naḥ ǀ vṛṣṭim ǀ marutaḥ ǀ rarīdhvam ǀ pra ǀ pinvata ǀ vṛṣṇaḥ ǀ aśvasya ǀ dhārāḥ ǀ
    arvāṅ ǀ etena ǀ stanayitnunā ǀ ā ǀ ihi ǀ apaḥ ǀ ni-siñcan ǀ asuraḥ ǀ pitā ǀ naḥ ǁ

    5.83.6 Aṣṭaka 4.4.28.1Anuvāka 5.6.84

  7. Ṛk 7

    अ॒भि क्रं॑द स्त॒नय॒ गर्भ॒मा धा॑ उद॒न्वता॒ परि॑ दीया॒ रथे॑न ।
    दृतिं॒ सु क॑र्ष॒ विषि॑तं॒ न्यं॑चं स॒मा भ॑वंतू॒द्वतो॑ निपा॒दाः ॥

    अभि क्रन्द स्तनय गर्भम् आ धा उदन्वता परि दीया रथेन |
    दृतिं सु कर्ष विषितं न्यञ्चं समा भवन्तूद्वतो निपादाः ||

    abhí kranda stanáya gárbhamā́ dhā udanvátā pári dīyā ráthena ǀ
    dṛ́tim sú karṣa víṣitam nyáñcam samā́ bhavantūdváto nipādā́ḥ ǁ

    abhi kranda stanaya garbham ā dhā udanvatā pari dīyā rathena |
    dṛtiṃ su karṣa viṣitaṃ nyañcaṃ samā bhavantūdvato nipādāḥ ||

    अ॒भि । क्र॒न्द॒ । स्त॒नय॑ । गर्भ॑म् । आ । धाः॒ । उ॒द॒न्ऽवता॑ । परि॑ । दी॒य॒ । रथे॑न ।
    दृति॑म् । सु । क॒र्ष॒ । विऽसि॑तम् । न्य॑ञ्चम् । स॒माः । भ॒व॒न्तु॒ । उ॒त्ऽवतः॑ । नि॒ऽपा॒दाः ॥

    अभि । क्रन्द । स्तनय । गर्भम् । आ । धाः । उदन्ऽवता । परि । दीय । रथेन ।
    दृतिम् । सु । कर्ष । विऽसितम् । न्यञ्चम् । समाः । भवन्तु । उत्ऽवतः । निऽपादाः ॥

    abhí ǀ kranda ǀ stanáya ǀ gárbham ǀ ā́ ǀ dhāḥ ǀ udan-vátā ǀ pári ǀ dīya ǀ ráthena ǀ
    dṛ́tim ǀ sú ǀ karṣa ǀ ví-sitam ǀ nyáñcam ǀ samā́ḥ ǀ bhavantu ǀ ut-vátaḥ ǀ ni-pādā́ḥ ǁ

    abhi ǀ kranda ǀ stanaya ǀ garbham ǀ ā ǀ dhāḥ ǀ udan-vatā ǀ pari ǀ dīya ǀ rathena ǀ
    dṛtim ǀ su ǀ karṣa ǀ vi-sitam ǀ nyañcam ǀ samāḥ ǀ bhavantu ǀ ut-vataḥ ǀ ni-pādāḥ ǁ

    5.83.7 Aṣṭaka 4.4.28.2Anuvāka 5.6.85

  8. Ṛk 8

    म॒हांतं॒ कोश॒मुद॑चा॒ नि षिं॑च॒ स्यंदं॑तां कु॒ल्या विषि॑ताः पु॒रस्ता॑त् ।
    घृ॒तेन॒ द्यावा॑पृथि॒वी व्युं॑धि सुप्रपा॒णं भ॑वत्व॒घ्न्याभ्यः॑ ॥

    महान्तं कोशम् उद् अचा नि षिञ्च स्यन्दन्तां कुल्या विषिताः पुरस्तात् |
    घृतेन द्यावापृथिवी व्य् उन्धि सुप्रपाणम् भवत्व् अघ्न्याभ्यः ||

    mahā́ntam kóśamúdacā ní ṣiñca syándantām kulyā́ víṣitāḥ purástāt ǀ
    ghṛténa dyā́vāpṛthivī́ vyúndhi suprapāṇám bhavatvaghnyā́bhyaḥ ǁ

    mahāntaṃ kośam ud acā ni ṣiñca syandantāṃ kulyā viṣitāḥ purastāt |
    ghṛtena dyāvāpṛthivī vy undhi suprapāṇam bhavatv aghnyābhyaḥ ||

    म॒हान्त॑म् । कोश॑म् । उत् । अ॒च॒ । नि । सि॒ञ्च॒ । स्यन्द॑न्ताम् । कु॒ल्याः । विऽसि॑ताः । पु॒रस्ता॑त् ।
    घृ॒तेन॑ । द्यावा॑पृथि॒वी इति॑ । वि । उ॒न्धि॒ । सु॒ऽप्र॒पा॒नम् । भ॒व॒तु॒ । अ॒घ्न्याभ्यः॑ ॥

    महान्तम् । कोशम् । उत् । अच । नि । सिञ्च । स्यन्दन्ताम् । कुल्याः । विऽसिताः । पुरस्तात् ।
    घृतेन । द्यावापृथिवी इति । वि । उन्धि । सुऽप्रपानम् । भवतु । अघ्न्याभ्यः ॥

    mahā́ntam ǀ kóśam ǀ út ǀ aca ǀ ní ǀ siñca ǀ syándantām ǀ kulyā́ḥ ǀ ví-sitāḥ ǀ purástāt ǀ
    ghṛténa ǀ dyā́vāpṛthivī́ íti ǀ ví ǀ undhi ǀ su-prapānám ǀ bhavatu ǀ aghnyā́bhyaḥ ǁ

    mahāntam ǀ kośam ǀ ut ǀ aca ǀ ni ǀ siñca ǀ syandantām ǀ kulyāḥ ǀ vi-sitāḥ ǀ purastāt ǀ
    ghṛtena ǀ dyāvāpṛthivī iti ǀ vi ǀ undhi ǀ su-prapānam ǀ bhavatu ǀ aghnyābhyaḥ ǁ

    5.83.8 Aṣṭaka 4.4.28.3Anuvāka 5.6.86

  9. Ṛk 9

    यत्प॑र्जन्य॒ कनि॑क्रदत्स्त॒नय॒न् हंसि॑ दु॒ष्कृतः॑ ।
    प्रती॒दं विश्वं॑ मोदते॒ यत्किं च॑ पृथि॒व्यामधि॑ ॥

    यत् पर्जन्य कनिक्रदत् स्तनयन् हंसि दुष्कृतः |
    प्रतीदं विश्वम् मोदते यत् किं च पृथिव्याम् अधि ||

    yátparjanya kánikradatstanáyan háṃsi duṣkṛ́taḥ ǀ
    prátīdám víśvam modate yátkím ca pṛthivyā́mádhi ǁ

    yat parjanya kanikradat stanayan haṃsi duṣkṛtaḥ |
    pratīdaṃ viśvam modate yat kiṃ ca pṛthivyām adhi ||

    यत् । प॒र्ज॒न्य॒ । कनि॑क्रदत् । स्त॒नय॑न् । हंसि॑ । दुः॒ऽकृतः॑ ।
    प्रति॑ । इ॒दम् । विश्व॑म् । मो॒द॒ते॒ । यत् । किम् । च॒ । पृ॒थि॒व्याम् । अधि॑ ॥

    यत् । पर्जन्य । कनिक्रदत् । स्तनयन् । हंसि । दुःऽकृतः ।
    प्रति । इदम् । विश्वम् । मोदते । यत् । किम् । च । पृथिव्याम् । अधि ॥

    yát ǀ parjanya ǀ kánikradat ǀ stanáyan ǀ háṃsi ǀ duḥ-kṛ́taḥ ǀ
    práti ǀ idám ǀ víśvam ǀ modate ǀ yát ǀ kím ǀ ca ǀ pṛthivyā́m ǀ ádhi ǁ

    yat ǀ parjanya ǀ kanikradat ǀ stanayan ǀ haṃsi ǀ duḥ-kṛtaḥ ǀ
    prati ǀ idam ǀ viśvam ǀ modate ǀ yat ǀ kim ǀ ca ǀ pṛthivyām ǀ adhi ǁ

    5.83.9 Aṣṭaka 4.4.28.4Anuvāka 5.6.87

  10. Ṛk 10

    अव॑र्षीर्व॒र्षमुदु॒ षू गृ॑भा॒याक॒र्धन्वा॒न्यत्ये॑त॒वा उ॑ ।
    अजी॑जन॒ ओष॑धी॒र्भोज॑नाय॒ कमु॒त प्र॒जाभ्यो॑ऽविदो मनी॒षां ॥

    अवर्षीर् वर्षम् उद् उ षू गृभायाकर् धन्वान्य् अत्येतवा उ |
    अजीजन ओषधीर् भोजनाय कम् उत प्रजाभ्यो ऽविदो मनीषाम् ||

    ávarṣīrvarṣámúdu ṣū́ gṛbhāyā́kardhánvānyátyetavā́ u ǀ
    ájījana óṣadhīrbhójanāya kámutá prajā́bhyo’vido manīṣā́m ǁ

    avarṣīr varṣam ud u ṣū gṛbhāyākar dhanvāny atyetavā u |
    ajījana oṣadhīr bhojanāya kam uta prajābhyo 'vido manīṣām ||

    अव॑र्षीः । व॒र्षम् । उत् । ऊं॒ इति॑ । सु । गृ॒भा॒य॒ । अकः॑ । धन्वा॑नि । अति॑ऽए॒त॒वै । ऊं॒ इति॑ ।
    अजी॑जनः । ओष॑धीः । भोज॑नाय । कम् । उ॒त । प्र॒ऽजाभ्यः॑ । अ॒वि॒दः॒ । म॒नी॒षाम् ॥

    अवर्षीः । वर्षम् । उत् । ऊं इति । सु । गृभाय । अकः । धन्वानि । अतिऽएतवै । ऊं इति ।
    अजीजनः । ओषधीः । भोजनाय । कम् । उत । प्रऽजाभ्यः । अविदः । मनीषाम् ॥

    ávarṣīḥ ǀ varṣám ǀ út ǀ ūṃ íti ǀ sú ǀ gṛbhāya ǀ ákaḥ ǀ dhánvāni ǀ áti-etavái ǀ ūṃ íti ǀ
    ájījanaḥ ǀ óṣadhīḥ ǀ bhójanāya ǀ kám ǀ utá ǀ pra-jā́bhyaḥ ǀ avidaḥ ǀ manīṣā́m ǁ

    avarṣīḥ ǀ varṣam ǀ ut ǀ ūṃ iti ǀ su ǀ gṛbhāya ǀ akaḥ ǀ dhanvāni ǀ ati-etavai ǀ ūṃ iti ǀ
    ajījanaḥ ǀ oṣadhīḥ ǀ bhojanāya ǀ kam ǀ uta ǀ pra-jābhyaḥ ǀ avidaḥ ǀ manīṣām ǁ

    5.83.10 Aṣṭaka 4.4.28.5Anuvāka 5.6.88

Text, recitation and interpretations from the Ṛgveda database of theveda.org.in.

Ṛgveda 5.83 · Parjanya

Interpretations

Sri Aurobindo

Ṛk 1

Let thy speech turn in these Words towards the mighty One, affirm the Master of the Storm and by submission lodge him in all thy being. Shouting aloud the Bull swiftly achieving sets his seed, his child in earth’s growths that bear her heats.

Ṛk 2

He smites down her trees; he smites down also the giants of evil; the whole world is in fear of his mighty blow. Even he that is blameless is seized and driven by him in his abundant might, when as the lord of the storm roaring he slays the doers of evil.

Ṛk 3

Like a charioteer with his lash he drives on the steeds,— oh, he makes manifest his messengers of the rain. From afar arise his roarings of the lion when the lord of the storm makes his heavens full of the rain.

Ṛk 4

The winds of life blow, the lightnings leap from our heaven, upward are tossed the growths of earth, nourished is the light of the luminous svar; for the whole world impulse of movement is born when the lord of the storm fosters our earth with his seed.

Ṛk 5

To his law our earth bows down, by his law she bears the galloping hooves of the life-powers; by his law the growths of earth’s warmths assume all forms; O Master of the storm, achieve for us a vast peace.

Ṛk 6

Oh ye Thought-forces, set flowing for us your rain of heaven; nourish us, O ye streams of the Horse of Life, the Male of the worlds; downwards in this form of thy thunders come pouring out the Waters; come as the Master of Might and our Father.

Ṛk 7

Shout, roar aloud, plant thy offspring here; storm about with thy car full of the Waters; drag to thee entirely the skin opened wide and turned downward; let the high places and the low be equalled with each other.

Ṛk 8

Raise up thy vast sack of the waters, pour out, let the rivers flow wide-streaming in front of us; flood our earth and heaven with the clarity, let there be free drinking of it for the herds unslayable.

Ṛk 9

When, O Master of Storm, thou shoutest aloud and roaring smitest the doers of evil, all the world rejoices and whatsoever is upon the earth.

Ṛk 10

Thou hast rained thy rains, now catch them upward; thou hast made the desert places easy to be crossed, thou hast produced the growths of earth’s heats for our enjoying,— yea, thou hast found the thought-mind for thy creatures.