Sūkta 66
- Devatā देवता
- Mitra, Varuṇa
- Ṛṣi ऋषि
- Rātahavya Ātreya
- Chandas छन्दस्
- Anuṣṭubh
Metres by ṛk
1st set of styles virāḍanuṣṭup (1, 5, 6); svarāḍanuṣṭup (3, 4); nicṛdanuṣṭup (2)
2nd set of styles anuṣṭubh
-
Ṛk 1
आ चि॑कितान सु॒क्रतू॑ दे॒वौ म॑र्त रि॒शाद॑सा ।
वरु॑णाय ऋ॒तपे॑शसे दधी॒त प्रय॑से म॒हे ॥आ चिकितान सुक्रतू देवौ मर्त रिशादसा |
वरुणाय ऋतपेशसे दधीत प्रयसे महे ||ā́ cikitāna sukrátū deváu marta riśā́dasā ǀ
váruṇāya ṛtápeśase dadhītá práyase mahé ǁā cikitāna sukratū devau marta riśādasā |
varuṇāya ṛtapeśase dadhīta prayase mahe ||आ । चि॒कि॒ता॒न॒ । सु॒क्रतू॒ इति॑ सु॒ऽक्रतू॑ । दे॒वौ । म॒र्त॒ । रि॒शाद॑सा ।
वरु॑णाय । ऋ॒तऽपे॑शसे । द॒धी॒त । प्रय॑से । म॒हे ॥आ । चिकितान । सुक्रतू इति सुऽक्रतू । देवौ । मर्त । रिशादसा ।
वरुणाय । ऋतऽपेशसे । दधीत । प्रयसे । महे ॥ā́ ǀ cikitāna ǀ sukrátū íti su-krátū ǀ deváu ǀ marta ǀ riśā́dasā ǀ
váruṇāya ǀ ṛtá-peśase ǀ dadhītá ǀ práyase ǀ mahé ǁā ǀ cikitāna ǀ sukratū iti su-kratū ǀ devau ǀ marta ǀ riśādasā ǀ
varuṇāya ǀ ṛta-peśase ǀ dadhīta ǀ prayase ǀ mahe ǁ5.66.1 Aṣṭaka 4.4.4.1Anuvāka 5.5.81
-
Ṛk 2
ता हि क्ष॒त्रमवि॑ह्रुतं स॒म्यग॑सु॒र्य१॒॑माशा॑ते ।
अध॑ व्र॒तेव॒ मानु॑षं॒ स्व१॒॑र्ण धा॑यि दर्श॒तं ॥ता हि क्षत्रम् अविह्रुतं सम्यग् असुर्यम् आशाते |
अध व्रतेव मानुषं स्वर् ण धायि दर्शतम् ||tā́ hí kṣatrámávihrutam samyágasuryámā́śāte ǀ
ádha vratéva mā́nuṣam svárṇá dhāyi darśatám ǁtā hi kṣatram avihrutaṃ samyag asuryam āśāte |
adha vrateva mānuṣaṃ svar ṇa dhāyi darśatam ||ता । हि । क्ष॒त्रम् । अवि॑ऽह्रुतम् । स॒म्यक् । अ॒सु॒र्य॑म् । आशा॑ते॒ इति॑ ।
अध॑ । व्र॒ताऽइ॑व । मानु॑षम् । स्वः॑ । न । धा॒यि॒ । द॒र्श॒तम् ॥ता । हि । क्षत्रम् । अविऽह्रुतम् । सम्यक् । असुर्यम् । आशाते इति ।
अध । व्रताऽइव । मानुषम् । स्वः । न । धायि । दर्शतम् ॥tā́ ǀ hí ǀ kṣatrám ǀ ávi-hrutam ǀ samyák ǀ asuryám ǀ ā́śāte íti ǀ
ádha ǀ vratā́-iva ǀ mā́nuṣam ǀ sváḥ ǀ ná ǀ dhāyi ǀ darśatám ǁtā ǀ hi ǀ kṣatram ǀ avi-hrutam ǀ samyak ǀ asuryam ǀ āśāte iti ǀ
adha ǀ vratā-iva ǀ mānuṣam ǀ svaḥ ǀ na ǀ dhāyi ǀ darśatam ǁ5.66.2 Aṣṭaka 4.4.4.2Anuvāka 5.5.82
-
Ṛk 3
ता वा॒मेषे॒ रथा॑नामु॒र्वीं गव्यू॑तिमेषां ।
रा॒तह॑व्यस्य सुष्टु॒तिं द॒धृक्स्तोमै॑र्मनामहे ॥ता वाम् एषे रथानाम् उर्वीं गव्यूतिम् एषाम् |
रातहव्यस्य सुष्टुतिं दधृक् स्तोमैर् मनामहे ||tā́ vāméṣe ráthānāmurvī́m gávyūtimeṣām ǀ
rātáhavyasya suṣṭutím dadhṛ́kstómairmanāmahe ǁtā vām eṣe rathānām urvīṃ gavyūtim eṣām |
rātahavyasya suṣṭutiṃ dadhṛk stomair manāmahe ||ता । वा॒म् । एषे॑ । रथा॑नाम् । उ॒र्वीम् । गव्यू॑तिम् । ए॒षा॒म् ।
रा॒तऽह॑व्यस्य । सु॒ऽस्तु॒तिम् । द॒धृक् । स्तोमैः॑ । म॒ना॒म॒हे॒ ॥ता । वाम् । एषे । रथानाम् । उर्वीम् । गव्यूतिम् । एषाम् ।
रातऽहव्यस्य । सुऽस्तुतिम् । दधृक् । स्तोमैः । मनामहे ॥tā́ ǀ vām ǀ éṣe ǀ ráthānām ǀ urvī́m ǀ gávyūtim ǀ eṣām ǀ
rātá-havyasya ǀ su-stutím ǀ dadhṛ́k ǀ stómaiḥ ǀ manāmahe ǁtā ǀ vām ǀ eṣe ǀ rathānām ǀ urvīm ǀ gavyūtim ǀ eṣām ǀ
rāta-havyasya ǀ su-stutim ǀ dadhṛk ǀ stomaiḥ ǀ manāmahe ǁ5.66.3 Aṣṭaka 4.4.4.3Anuvāka 5.5.83
-
Ṛk 4
अधा॒ हि काव्या॑ यु॒वं दक्ष॑स्य पू॒र्भिर॑द्भुता ।
नि के॒तुना॒ जना॑नां चि॒केथे॑ पूतदक्षसा ॥अधा हि काव्या युवं दक्षस्य पूर्भिर् अद्भुता |
नि केतुना जनानां चिकेथे पूतदक्षसा ||ádhā hí kā́vyā yuvám dákṣasya pūrbhíradbhutā ǀ
ní ketúnā jánānām cikéthe pūtadakṣasā ǁadhā hi kāvyā yuvaṃ dakṣasya pūrbhir adbhutā |
ni ketunā janānāṃ cikethe pūtadakṣasā ||अध॑ । हि । काव्या॑ । यु॒वम् । दक्ष॑स्य । पूः॒ऽभिः । अ॒द्भु॒ता॒ ।
नि । के॒तुना॑ । जना॑नाम् । चि॒केथे॒ इति॑ । पू॒त॒ऽद॒क्ष॒सा॒ ॥अध । हि । काव्या । युवम् । दक्षस्य । पूःऽभिः । अद्भुता ।
नि । केतुना । जनानाम् । चिकेथे इति । पूतऽदक्षसा ॥ádha ǀ hí ǀ kā́vyā ǀ yuvám ǀ dákṣasya ǀ pūḥ-bhíḥ ǀ adbhutā ǀ
ní ǀ ketúnā ǀ jánānām ǀ cikéthe íti ǀ pūta-dakṣasā ǁadha ǀ hi ǀ kāvyā ǀ yuvam ǀ dakṣasya ǀ pūḥ-bhiḥ ǀ adbhutā ǀ
ni ǀ ketunā ǀ janānām ǀ cikethe iti ǀ pūta-dakṣasā ǁ5.66.4 Aṣṭaka 4.4.4.4Anuvāka 5.5.84
-
Ṛk 5
तदृ॒तं पृ॑थिवि बृ॒हच्छ्र॑वए॒ष ऋषी॑णां ।
ज्र॒य॒सा॒नावरं॑ पृ॒थ्वति॑ क्षरंति॒ याम॑भिः ॥तद् ऋतम् पृथिवि बृहच् छ्रवएष ऋषीणाम् |
ज्रयसानाव् अरम् पृथ्व् अति क्षरन्ति यामभिः ||tádṛtám pṛthivi bṛhácchravaeṣá ṛ́ṣīṇām ǀ
jrayasānā́váram pṛthváti kṣaranti yā́mabhiḥ ǁtad ṛtam pṛthivi bṛhac chravaeṣa ṛṣīṇām |
jrayasānāv aram pṛthv ati kṣaranti yāmabhiḥ ||तत् । ऋ॒तम् । पृ॒थि॒वि॒ । बृ॒हत् । श्र॒वः॒ऽए॒षे । ऋषी॑णाम् ।
ज्र॒य॒सा॒नौ । अर॑म् । पृ॒थु । अति॑ । क्ष॒र॒न्ति॒ । याम॑ऽभिः ॥तत् । ऋतम् । पृथिवि । बृहत् । श्रवःऽएषे । ऋषीणाम् ।
ज्रयसानौ । अरम् । पृथु । अति । क्षरन्ति । यामऽभिः ॥tát ǀ ṛtám ǀ pṛthivi ǀ bṛhát ǀ śravaḥ-eṣé ǀ ṛ́ṣīṇām ǀ
jrayasānáu ǀ áram ǀ pṛthú ǀ áti ǀ kṣaranti ǀ yā́ma-bhiḥ ǁtat ǀ ṛtam ǀ pṛthivi ǀ bṛhat ǀ śravaḥ-eṣe ǀ ṛṣīṇām ǀ
jrayasānau ǀ aram ǀ pṛthu ǀ ati ǀ kṣaranti ǀ yāma-bhiḥ ǁ5.66.5 Aṣṭaka 4.4.4.5Anuvāka 5.5.85
-
Ṛk 6
आ यद्वा॑मीयचक्षसा॒ मित्र॑ व॒यं च॑ सू॒रयः॑ ।
व्यचि॑ष्ठे बहु॒पाय्ये॒ यते॑महि स्व॒राज्ये॑ ॥आ यद् वाम् ईयचक्षसा मित्र वयं च सूरयः |
व्यचिष्ठे बहुपाय्ये यतेमहि स्वराज्ये ||ā́ yádvāmīyacakṣasā mítra vayám ca sūráyaḥ ǀ
vyáciṣṭhe bahupā́yye yátemahi svarā́jye ǁā yad vām īyacakṣasā mitra vayaṃ ca sūrayaḥ |
vyaciṣṭhe bahupāyye yatemahi svarājye ||आ । यत् । वा॒म् । ई॒य॒ऽच॒क्ष॒सा॒ । मित्रा॑ । व॒यम् । च॒ । सू॒रयः॑ ।
व्यचि॑ष्ठे । ब॒हु॒ऽपाय्ये॑ । यते॑महि । स्व॒ऽराज्ये॑ ॥आ । यत् । वाम् । ईयऽचक्षसा । मित्रा । वयम् । च । सूरयः ।
व्यचिष्ठे । बहुऽपाय्ये । यतेमहि । स्वऽराज्ये ॥ā́ ǀ yát ǀ vām ǀ īya-cakṣasā ǀ mítrā ǀ vayám ǀ ca ǀ sūráyaḥ ǀ
vyáciṣṭhe ǀ bahu-pā́yye ǀ yátemahi ǀ sva-rā́jye ǁā ǀ yat ǀ vām ǀ īya-cakṣasā ǀ mitrā ǀ vayam ǀ ca ǀ sūrayaḥ ǀ
vyaciṣṭhe ǀ bahu-pāyye ǀ yatemahi ǀ sva-rājye ǁ5.66.6 Aṣṭaka 4.4.4.6Anuvāka 5.5.86
Text, recitation and interpretations from the Ṛgveda database of theveda.org.in.