Sūkta 37
- Devatā देवता
- Indra
- Ṛṣi ऋषि
- Atri Bhauma
- Chandas छन्दस्
- Triṣṭubh
Metres by ṛk
1st set of styles nicṛttriṣṭup (3-5); nicṛtpaṅkti (1); virāṭtrisṭup (2)
2nd set of styles triṣṭubh
-
Ṛk 1
सं भा॒नुना॑ यतते॒ सूर्य॑स्या॒जुह्वा॑नो घृ॒तपृ॑ष्ठः॒ स्वंचाः॑ ।
तस्मा॒ अमृ॑ध्रा उ॒षसो॒ व्यु॑च्छा॒न्य इंद्रा॑य सु॒नवा॒मेत्याह॑ ॥सम् भानुना यतते सूर्यस्याजुह्वानो घृतपृष्ठः स्वञ्चाः |
तस्मा अमृध्रा उषसो व्य् उच्छान् य इन्द्राय सुनवामेत्य् आह ||sám bhānúnā yatate sū́ryasyājúhvāno ghṛtápṛṣṭhaḥ sváñcāḥ ǀ
tásmā ámṛdhrā uṣáso vyúcchānyá índrāya sunávāmétyā́ha ǁsam bhānunā yatate sūryasyājuhvāno ghṛtapṛṣṭhaḥ svañcāḥ |
tasmā amṛdhrā uṣaso vy ucchān ya indrāya sunavāmety āha ||सम् । भा॒नुना॑ । य॒त॒ते॒ । सूर्य॑स्य । आ॒ऽजुह्वा॑नः । घृ॒तऽपृ॑ष्ठः । सु॒ऽअञ्चाः॑ ।
तस्मै॑ । अमृ॑ध्राः । उ॒षसः॑ । वि । उ॒च्छा॒न् । यः । इन्द्रा॑य । सु॒नवा॑म । इति॑ । आह॑ ॥सम् । भानुना । यतते । सूर्यस्य । आऽजुह्वानः । घृतऽपृष्ठः । सुऽअञ्चाः ।
तस्मै । अमृध्राः । उषसः । वि । उच्छान् । यः । इन्द्राय । सुनवाम । इति । आह ॥sám ǀ bhānúnā ǀ yatate ǀ sū́ryasya ǀ ā-júhvānaḥ ǀ ghṛtá-pṛṣṭhaḥ ǀ su-áñcāḥ ǀ
tásmai ǀ ámṛdhrāḥ ǀ uṣásaḥ ǀ ví ǀ ucchān ǀ yáḥ ǀ índrāya ǀ sunávāma ǀ íti ǀ ā́ha ǁsam ǀ bhānunā ǀ yatate ǀ sūryasya ǀ ā-juhvānaḥ ǀ ghṛta-pṛṣṭhaḥ ǀ su-añcāḥ ǀ
tasmai ǀ amṛdhrāḥ ǀ uṣasaḥ ǀ vi ǀ ucchān ǀ yaḥ ǀ indrāya ǀ sunavāma ǀ iti ǀ āha ǁ5.37.1 Aṣṭaka 4.2.8.1Anuvāka 5.3.34
-
Ṛk 2
समि॑द्धाग्निर्वनवत्स्ती॒र्णब॑र्हिर्यु॒क्तग्रा॑वा सु॒तसो॑मो जराते ।
ग्रावा॑णो॒ यस्ये॑षि॒रं वदं॒त्यय॑दध्व॒र्युर्ह॒विषाव॒ सिंधुं॑ ॥समिद्धाग्निर् वनवत् स्तीर्णबर्हिर् युक्तग्रावा सुतसोमो जराते |
ग्रावाणो यस्येषिरं वदन्त्य् अयद् अध्वर्युर् हविषाव सिन्धुम् ||sámiddhāgnirvanavatstīrṇábarhiryuktágrāvā sutásomo jarāte ǀ
grā́vāṇo yásyeṣirám vádantyáyadadhvaryúrhavíṣā́va síndhum ǁsamiddhāgnir vanavat stīrṇabarhir yuktagrāvā sutasomo jarāte |
grāvāṇo yasyeṣiraṃ vadanty ayad adhvaryur haviṣāva sindhum ||समि॑द्धऽअग्निः । व॒न॒व॒त् । स्ती॒र्णऽब॑र्हिः । यु॒क्तऽग्रा॑वा । सु॒तऽसो॑मः । ज॒रा॒ते॒ ।
ग्रावा॑णः । यस्य॑ । इ॒षि॒रम् । वद॑न्ति । अय॑त् । अ॒ध्व॒र्युः । ह॒विषा॑ । अव॑ । सिन्धु॑म् ॥समिद्धऽअग्निः । वनवत् । स्तीर्णऽबर्हिः । युक्तऽग्रावा । सुतऽसोमः । जराते ।
ग्रावाणः । यस्य । इषिरम् । वदन्ति । अयत् । अध्वर्युः । हविषा । अव । सिन्धुम् ॥sámiddha-agniḥ ǀ vanavat ǀ stīrṇá-barhiḥ ǀ yuktá-grāvā ǀ sutá-somaḥ ǀ jarāte ǀ
grā́vāṇaḥ ǀ yásya ǀ iṣirám ǀ vádanti ǀ áyat ǀ adhvaryúḥ ǀ havíṣā ǀ áva ǀ síndhum ǁsamiddha-agniḥ ǀ vanavat ǀ stīrṇa-barhiḥ ǀ yukta-grāvā ǀ suta-somaḥ ǀ jarāte ǀ
grāvāṇaḥ ǀ yasya ǀ iṣiram ǀ vadanti ǀ ayat ǀ adhvaryuḥ ǀ haviṣā ǀ ava ǀ sindhum ǁ5.37.2 Aṣṭaka 4.2.8.2Anuvāka 5.3.35
-
Ṛk 3
व॒धूरि॒यं पति॑मि॒च्छंत्ये॑ति॒ य ईं॒ वहा॑ते॒ महि॑षीमिषि॒रां ।
आस्य॑ श्रवस्या॒द्रथ॒ आ च॑ घोषात्पु॒रू स॒हस्रा॒ परि॑ वर्तयाते ॥वधूर् इयम् पतिम् इच्छन्त्य् एति य ईं वहाते महिषीम् इषिराम् |
आस्य श्रवस्याद् रथ आ च घोषात् पुरू सहस्रा परि वर्तयाते ||vadhū́riyám pátimicchántyeti yá īm váhāte máhiṣīmiṣirā́m ǀ
ā́sya śravasyādrátha ā́ ca ghoṣātpurū́ sahásrā pári vartayāte ǁvadhūr iyam patim icchanty eti ya īṃ vahāte mahiṣīm iṣirām |
āsya śravasyād ratha ā ca ghoṣāt purū sahasrā pari vartayāte ||व॒धूः । इ॒यम् । पति॑म् । इ॒च्छन्ती॑ । ए॒ति॒ । यः । ई॒म् । वहा॑ते । महि॑षीम् । इ॒षि॒राम् ।
आ । अ॒स्य॒ । श्र॒व॒स्या॒त् । रथः॑ । आ । च॒ । घो॒षा॒त् । पु॒रु । स॒हस्रा॑ । परि॑ । व॒र्त॒या॒ते॒ ॥वधूः । इयम् । पतिम् । इच्छन्ती । एति । यः । ईम् । वहाते । महिषीम् । इषिराम् ।
आ । अस्य । श्रवस्यात् । रथः । आ । च । घोषात् । पुरु । सहस्रा । परि । वर्तयाते ॥vadhū́ḥ ǀ iyám ǀ pátim ǀ icchántī ǀ eti ǀ yáḥ ǀ īm ǀ váhāte ǀ máhiṣīm ǀ iṣirā́m ǀ
ā́ ǀ asya ǀ śravasyāt ǀ ráthaḥ ǀ ā́ ǀ ca ǀ ghoṣāt ǀ purú ǀ sahásrā ǀ pári ǀ vartayāte ǁvadhūḥ ǀ iyam ǀ patim ǀ icchantī ǀ eti ǀ yaḥ ǀ īm ǀ vahāte ǀ mahiṣīm ǀ iṣirām ǀ
ā ǀ asya ǀ śravasyāt ǀ rathaḥ ǀ ā ǀ ca ǀ ghoṣāt ǀ puru ǀ sahasrā ǀ pari ǀ vartayāte ǁ5.37.3 Aṣṭaka 4.2.8.3Anuvāka 5.3.36
-
Ṛk 4
न स राजा॑ व्यथते॒ यस्मि॒न्निंद्र॑स्ती॒व्रं सोमं॒ पिब॑ति॒ गोस॑खायं ।
आ स॑त्व॒नैरज॑ति॒ हंति॑ वृ॒त्रं क्षेति॑ क्षि॒तीः सु॒भगो॒ नाम॒ पुष्य॑न् ॥न स राजा व्यथते यस्मिन्न् इन्द्रस् तीव्रं सोमम् पिबति गोसखायम् |
आ सत्वनैर् अजति हन्ति वृत्रं क्षेति क्षितीः सुभगो नाम पुष्यन् ||ná sá rā́jā vyathate yásminníndrastīvrám sómam píbati gósakhāyam ǀ
ā́ satvanáirájati hánti vṛtrám kṣéti kṣitī́ḥ subhágo nā́ma púṣyan ǁna sa rājā vyathate yasminn indras tīvraṃ somam pibati gosakhāyam |
ā satvanair ajati hanti vṛtraṃ kṣeti kṣitīḥ subhago nāma puṣyan ||न । सः । राजा॑ । व्य॒थ॒ते॒ । यस्मि॑न् । इन्द्रः॑ । ती॒व्रम् । सोम॑म् । पिब॑ति । गोऽस॑खायम् ।
आ । स॒त्व॒नैः । अज॑ति । हन्ति॑ । वृ॒त्रम् । क्षेति॑ । क्षि॒तीः । सु॒ऽभगः॑ । नाम॑ । पुष्य॑न् ॥न । सः । राजा । व्यथते । यस्मिन् । इन्द्रः । तीव्रम् । सोमम् । पिबति । गोऽसखायम् ।
आ । सत्वनैः । अजति । हन्ति । वृत्रम् । क्षेति । क्षितीः । सुऽभगः । नाम । पुष्यन् ॥ná ǀ sáḥ ǀ rā́jā ǀ vyathate ǀ yásmin ǀ índraḥ ǀ tīvrám ǀ sómam ǀ píbati ǀ gó-sakhāyam ǀ
ā́ ǀ satvanáiḥ ǀ ájati ǀ hánti ǀ vṛtrám ǀ kṣéti ǀ kṣitī́ḥ ǀ su-bhágaḥ ǀ nā́ma ǀ púṣyan ǁna ǀ saḥ ǀ rājā ǀ vyathate ǀ yasmin ǀ indraḥ ǀ tīvram ǀ somam ǀ pibati ǀ go-sakhāyam ǀ
ā ǀ satvanaiḥ ǀ ajati ǀ hanti ǀ vṛtram ǀ kṣeti ǀ kṣitīḥ ǀ su-bhagaḥ ǀ nāma ǀ puṣyan ǁ5.37.4 Aṣṭaka 4.2.8.4Anuvāka 5.3.37
-
Ṛk 5
पुष्या॒त्क्षेमे॑ अ॒भि योगे॑ भवात्यु॒भे वृतौ॑ संय॒ती सं ज॑याति ।
प्रि॒यः सूर्ये॑ प्रि॒यो अ॒ग्ना भ॑वाति॒ य इंद्रा॑य सु॒तसो॑मो॒ ददा॑शत् ॥पुष्यात् क्षेमे अभि योगे भवात्य् उभे वृतौ संयती सं जयाति |
प्रियः सूर्ये प्रियो अग्ना भवाति य इन्द्राय सुतसोमो ददाशत् ||púṣyātkṣéme abhí yóge bhavātyubhé vṛ́tau saṃyatī́ sám jayāti ǀ
priyáḥ sū́rye priyó agnā́ bhavāti yá índrāya sutásomo dádāśat ǁpuṣyāt kṣeme abhi yoge bhavāty ubhe vṛtau saṃyatī saṃ jayāti |
priyaḥ sūrye priyo agnā bhavāti ya indrāya sutasomo dadāśat ||पुष्या॑त् । क्षेमे॑ । अ॒भि । योगे॑ । भ॒वा॒ति॒ । उ॒भे इति॑ । वृतौ॑ । सं॒य॒ती इति॑ स॒म्ऽय॒ती । सम् । ज॒या॒ति॒ ।
प्रि॒यः । सूर्ये॑ । प्रि॒यः । अ॒ग्ना । भ॒वा॒ति॒ । यः । इन्द्रा॑य । सु॒तऽसो॑मः । ददा॑शत् ॥पुष्यात् । क्षेमे । अभि । योगे । भवाति । उभे इति । वृतौ । संयती इति सम्ऽयती । सम् । जयाति ।
प्रियः । सूर्ये । प्रियः । अग्ना । भवाति । यः । इन्द्राय । सुतऽसोमः । ददाशत् ॥púṣyāt ǀ kṣéme ǀ abhí ǀ yóge ǀ bhavāti ǀ ubhé íti ǀ vṛ́tau ǀ saṃyatī́ íti sam-yatī́ ǀ sám ǀ jayāti ǀ
priyáḥ ǀ sū́rye ǀ priyáḥ ǀ agnā́ ǀ bhavāti ǀ yáḥ ǀ índrāya ǀ sutá-somaḥ ǀ dádāśat ǁpuṣyāt ǀ kṣeme ǀ abhi ǀ yoge ǀ bhavāti ǀ ubhe iti ǀ vṛtau ǀ saṃyatī iti sam-yatī ǀ sam ǀ jayāti ǀ
priyaḥ ǀ sūrye ǀ priyaḥ ǀ agnā ǀ bhavāti ǀ yaḥ ǀ indrāya ǀ suta-somaḥ ǀ dadāśat ǁ5.37.5 Aṣṭaka 4.2.8.5Anuvāka 5.3.38
Text, recitation and interpretations from the Ṛgveda database of theveda.org.in.