Sūkta 77
- Devatā देवता
- Aśvins
- Ṛṣi ऋषि
- Atri Bhauma
- Chandas छन्दस्
- Triṣṭubh
Metres by ṛk
1st set of styles triṣṭup
2nd set of styles triṣṭubh
-
Ṛk 1
प्रा॒त॒र्यावा॑णा प्रथ॒मा य॑जध्वं पु॒रा गृध्रा॒दर॑रुषः पिबातः ।
प्रा॒तर्हि य॒ज्ञम॒श्विना॑ द॒धाते॒ प्र शं॑संति क॒वयः॑ पूर्व॒भाजः॑ ॥प्रातर्यावाणा प्रथमा यजध्वम् पुरा गृध्राद् अररुषः पिबातः |
प्रातर् हि यज्ञम् अश्विना दधाते प्र शंसन्ति कवयः पूर्वभाजः ||prātaryā́vāṇā prathamā́ yajadhvam purā́ gṛ́dhrādáraruṣaḥ pibātaḥ ǀ
prātárhí yajñámaśvínā dadhā́te prá śaṃsanti kaváyaḥ pūrvabhā́jaḥ ǁprātaryāvāṇā prathamā yajadhvam purā gṛdhrād araruṣaḥ pibātaḥ |
prātar hi yajñam aśvinā dadhāte pra śaṃsanti kavayaḥ pūrvabhājaḥ ||प्रा॒तः॒ऽयावा॑ना । प्र॒थ॒मा । य॒ज॒ध्व॒म् । पु॒रा । गृध्रा॑त् । अर॑रुषः । पि॒बा॒तः॒ ।
प्रा॒तः । हि । य॒ज्ञम् । अ॒श्विना॑ । द॒धाते॒ इति॑ । प्र । शं॒स॒न्ति॒ । क॒वयः॑ । पू॒र्व॒ऽभाजः॑ ॥प्रातःऽयावाना । प्रथमा । यजध्वम् । पुरा । गृध्रात् । अररुषः । पिबातः ।
प्रातः । हि । यज्ञम् । अश्विना । दधाते इति । प्र । शंसन्ति । कवयः । पूर्वऽभाजः ॥prātaḥ-yā́vānā ǀ prathamā́ ǀ yajadhvam ǀ purā́ ǀ gṛ́dhrāt ǀ áraruṣaḥ ǀ pibātaḥ ǀ
prātáḥ ǀ hí ǀ yajñám ǀ aśvínā ǀ dadhā́te íti ǀ prá ǀ śaṃsanti ǀ kaváyaḥ ǀ pūrva-bhā́jaḥ ǁprātaḥ-yāvānā ǀ prathamā ǀ yajadhvam ǀ purā ǀ gṛdhrāt ǀ araruṣaḥ ǀ pibātaḥ ǀ
prātaḥ ǀ hi ǀ yajñam ǀ aśvinā ǀ dadhāte iti ǀ pra ǀ śaṃsanti ǀ kavayaḥ ǀ pūrva-bhājaḥ ǁ5.77.1 Aṣṭaka 4.4.18.1Anuvāka 5.6.35
-
Ṛk 2
प्रा॒तर्य॑जध्वम॒श्विना॑ हिनोत॒ न सा॒यम॑स्ति देव॒या अजु॑ष्टं ।
उ॒तान्यो अ॒स्मद्य॑जते॒ वि चावः॒ पूर्वः॑पूर्वो॒ यज॑मानो॒ वनी॑यान् ॥प्रातर् यजध्वम् अश्विना हिनोत न सायम् अस्ति देवया अजुष्टम् |
उतान्यो अस्मद् यजते वि चावः पूर्वः-पूर्वो यजमानो वनीयान् ||prātáryajadhvamaśvínā hinota ná sāyámasti devayā́ ájuṣṭam ǀ
utā́nyó asmádyajate ví cā́vaḥ pū́rvaḥpūrvo yájamāno vánīyān ǁprātar yajadhvam aśvinā hinota na sāyam asti devayā ajuṣṭam |
utānyo asmad yajate vi cāvaḥ pūrvaḥ-pūrvo yajamāno vanīyān ||प्रा॒तः । य॒ज॒ध्व॒म् । अ॒श्विना॑ । हि॒नो॒त॒ । न । सा॒यम् । अ॒स्ति॒ । दे॒व॒ऽयाः । अजु॑ष्टम् ।
उ॒त । अ॒न्यः । अ॒स्मत् । य॒ज॒ते॒ । वि । च॒ । आवः॑ । पूर्वः॑ऽपूर्वः । यज॑मानः । वनी॑यान् ॥प्रातः । यजध्वम् । अश्विना । हिनोत । न । सायम् । अस्ति । देवऽयाः । अजुष्टम् ।
उत । अन्यः । अस्मत् । यजते । वि । च । आवः । पूर्वःऽपूर्वः । यजमानः । वनीयान् ॥prātáḥ ǀ yajadhvam ǀ aśvínā ǀ hinota ǀ ná ǀ sāyám ǀ asti ǀ deva-yā́ḥ ǀ ájuṣṭam ǀ
utá ǀ anyáḥ ǀ asmát ǀ yajate ǀ ví ǀ ca ǀ ā́vaḥ ǀ pū́rvaḥ-pūrvaḥ ǀ yájamānaḥ ǀ vánīyān ǁprātaḥ ǀ yajadhvam ǀ aśvinā ǀ hinota ǀ na ǀ sāyam ǀ asti ǀ deva-yāḥ ǀ ajuṣṭam ǀ
uta ǀ anyaḥ ǀ asmat ǀ yajate ǀ vi ǀ ca ǀ āvaḥ ǀ pūrvaḥ-pūrvaḥ ǀ yajamānaḥ ǀ vanīyān ǁ5.77.2 Aṣṭaka 4.4.18.2Anuvāka 5.6.36
-
Ṛk 3
हिर॑ण्यत्व॒ङ्मधु॑वर्णो घृ॒तस्नुः॒ पृक्षो॒ वह॒न्ना रथो॑ वर्तते वां ।
मनो॑जवा अश्विना॒ वात॑रंहा॒ येना॑तिया॒थो दु॑रि॒तानि॒ विश्वा॑ ॥हिरण्यत्वङ् मधुवर्णो घृतस्नुः पृक्षो वहन्न् आ रथो वर्तते वाम् |
मनोजवा अश्विना वातरंहा येनातियाथो दुरितानि विश्वा ||híraṇyatvaṅmádhuvarṇo ghṛtásnuḥ pṛ́kṣo váhannā́ rátho vartate vām ǀ
mánojavā aśvinā vā́taraṃhā yénātiyāthó duritā́ni víśvā ǁhiraṇyatvaṅ madhuvarṇo ghṛtasnuḥ pṛkṣo vahann ā ratho vartate vām |
manojavā aśvinā vātaraṃhā yenātiyātho duritāni viśvā ||हिर॑ण्यऽत्वक् । मधु॑ऽवर्णः । घृ॒तऽस्नुः॑ । पृक्षः॑ । वह॑न् । आ । रथः॑ । व॒र्त॒ते॒ । वा॒म् ।
मनः॑ऽजवाः । अ॒श्वि॒ना॒ । वात॑ऽरंहाः । येन॑ । अ॒ति॒ऽया॒थः । दुः॒ऽइ॒तानि॑ । विश्वा॑ ॥हिरण्यऽत्वक् । मधुऽवर्णः । घृतऽस्नुः । पृक्षः । वहन् । आ । रथः । वर्तते । वाम् ।
मनःऽजवाः । अश्विना । वातऽरंहाः । येन । अतिऽयाथः । दुःऽइतानि । विश्वा ॥híraṇya-tvak ǀ mádhu-varṇaḥ ǀ ghṛtá-snuḥ ǀ pṛ́kṣaḥ ǀ váhan ǀ ā́ ǀ ráthaḥ ǀ vartate ǀ vām ǀ
mánaḥ-javāḥ ǀ aśvinā ǀ vā́ta-raṃhāḥ ǀ yéna ǀ ati-yātháḥ ǀ duḥ-itā́ni ǀ víśvā ǁhiraṇya-tvak ǀ madhu-varṇaḥ ǀ ghṛta-snuḥ ǀ pṛkṣaḥ ǀ vahan ǀ ā ǀ rathaḥ ǀ vartate ǀ vām ǀ
manaḥ-javāḥ ǀ aśvinā ǀ vāta-raṃhāḥ ǀ yena ǀ ati-yāthaḥ ǀ duḥ-itāni ǀ viśvā ǁ5.77.3 Aṣṭaka 4.4.18.3Anuvāka 5.6.37
-
Ṛk 4
यो भूयि॑ष्ठं॒ नास॑त्याभ्यां वि॒वेष॒ चनि॑ष्ठं पि॒त्वो रर॑ते विभा॒गे ।
स तो॒कम॑स्य पीपर॒च्छमी॑भि॒रनू॑र्ध्वभासः॒ सद॒मित्तु॑तुर्यात् ॥यो भूयिष्ठं नासत्याभ्यां विवेष चनिष्ठम् पित्वो ररते विभागे |
स तोकम् अस्य पीपरच् छमीभिर् अनूर्ध्वभासः सदम् इत् तुतुर्यात् ||yó bhū́yiṣṭham nā́satyābhyām vivéṣa cániṣṭham pitvó rárate vibhāgé ǀ
sá tokámasya pīparacchámībhiránūrdhvabhāsaḥ sádamíttuturyāt ǁyo bhūyiṣṭhaṃ nāsatyābhyāṃ viveṣa caniṣṭham pitvo rarate vibhāge |
sa tokam asya pīparac chamībhir anūrdhvabhāsaḥ sadam it tuturyāt ||यः । भूयि॑ष्ठम् । नास॑त्याभ्याम् । वि॒वेष॑ । चनि॑ष्ठम् । पि॒त्वः । रर॑ते । वि॒ऽभा॒गे ।
सः । तो॒कम् । अ॒स्य॒ । पी॒प॒र॒त् । शमी॑भिः । अनू॑र्ध्वऽभासः । सद॑म् । इत् । तु॒तु॒र्या॒त् ॥यः । भूयिष्ठम् । नासत्याभ्याम् । विवेष । चनिष्ठम् । पित्वः । ररते । विऽभागे ।
सः । तोकम् । अस्य । पीपरत् । शमीभिः । अनूर्ध्वऽभासः । सदम् । इत् । तुतुर्यात् ॥yáḥ ǀ bhū́yiṣṭham ǀ nā́satyābhyām ǀ vivéṣa ǀ cániṣṭham ǀ pitváḥ ǀ rárate ǀ vi-bhāgé ǀ
sáḥ ǀ tokám ǀ asya ǀ pīparat ǀ śámībhiḥ ǀ ánūrdhva-bhāsaḥ ǀ sádam ǀ ít ǀ tuturyāt ǁyaḥ ǀ bhūyiṣṭham ǀ nāsatyābhyām ǀ viveṣa ǀ caniṣṭham ǀ pitvaḥ ǀ rarate ǀ vi-bhāge ǀ
saḥ ǀ tokam ǀ asya ǀ pīparat ǀ śamībhiḥ ǀ anūrdhva-bhāsaḥ ǀ sadam ǀ it ǀ tuturyāt ǁ5.77.4 Aṣṭaka 4.4.18.4Anuvāka 5.6.38
-
Ṛk 5
सम॒श्विनो॒रव॑सा॒ नूत॑नेन मयो॒भुवा॑ सु॒प्रणी॑ती गमेम ।
आ नो॑ र॒यिं व॑हत॒मोत वी॒राना विश्वा॑न्यमृता॒ सौभ॑गानि ॥सम् अश्विनोर् अवसा नूतनेन मयोभुवा सुप्रणीती गमेम |
आ नो रयिं वहतम् ओत वीरान् आ विश्वान्य् अमृता सौभगानि ||sámaśvínorávasā nū́tanena mayobhúvā supráṇītī gamema ǀ
ā́ no rayím vahatamótá vīrā́nā́ víśvānyamṛtā sáubhagāni ǁsam aśvinor avasā nūtanena mayobhuvā supraṇītī gamema |
ā no rayiṃ vahatam ota vīrān ā viśvāny amṛtā saubhagāni ||सम् । अ॒श्विनोः॑ । अव॑सा । नूत॑नेन । म॒यः॒ऽभुवा॑ । सु॒ऽप्रनी॑ती । ग॒मे॒म॒ ।
आ । नः॒ । र॒यिम् । व॒ह॒त॒म् । आ । उ॒त । वी॒रान् । आ । विश्वा॑नि । अ॒मृ॒ता॒ । सौभ॑गानि ॥सम् । अश्विनोः । अवसा । नूतनेन । मयःऽभुवा । सुऽप्रनीती । गमेम ।
आ । नः । रयिम् । वहतम् । आ । उत । वीरान् । आ । विश्वानि । अमृता । सौभगानि ॥sám ǀ aśvínoḥ ǀ ávasā ǀ nū́tanena ǀ mayaḥ-bhúvā ǀ su-pránītī ǀ gamema ǀ
ā́ ǀ naḥ ǀ rayím ǀ vahatam ǀ ā́ ǀ utá ǀ vīrā́n ǀ ā́ ǀ víśvāni ǀ amṛtā ǀ sáubhagāni ǁsam ǀ aśvinoḥ ǀ avasā ǀ nūtanena ǀ mayaḥ-bhuvā ǀ su-pranītī ǀ gamema ǀ
ā ǀ naḥ ǀ rayim ǀ vahatam ǀ ā ǀ uta ǀ vīrān ǀ ā ǀ viśvāni ǀ amṛtā ǀ saubhagāni ǁ5.77.5 Aṣṭaka 4.4.18.5Anuvāka 5.6.39
Text, recitation and interpretations from the Ṛgveda database of theveda.org.in.