Ṛk 5.77.2
Saṃhitā
प्रा॒तर्य॑जध्वम॒श्विना॑ हिनोत॒ न सा॒यम॑स्ति देव॒या अजु॑ष्टं ।
उ॒तान्यो अ॒स्मद्य॑जते॒ वि चावः॒ पूर्वः॑पूर्वो॒ यज॑मानो॒ वनी॑यान् ॥
प्रातर् यजध्वम् अश्विना हिनोत न सायम् अस्ति देवया अजुष्टम् |
उतान्यो अस्मद् यजते वि चावः पूर्वः-पूर्वो यजमानो वनीयान् ||
prātáryajadhvamaśvínā hinota ná sāyámasti devayā́ ájuṣṭam ǀ
utā́nyó asmádyajate ví cā́vaḥ pū́rvaḥpūrvo yájamāno vánīyān ǁ
prātar yajadhvam aśvinā hinota na sāyam asti devayā ajuṣṭam |
utānyo asmad yajate vi cāvaḥ pūrvaḥ-pūrvo yajamāno vanīyān ||
Padapāṭha
प्रा॒तः । य॒ज॒ध्व॒म् । अ॒श्विना॑ । हि॒नो॒त॒ । न । सा॒यम् । अ॒स्ति॒ । दे॒व॒ऽयाः । अजु॑ष्टम् ।
उ॒त । अ॒न्यः । अ॒स्मत् । य॒ज॒ते॒ । वि । च॒ । आवः॑ । पूर्वः॑ऽपूर्वः । यज॑मानः । वनी॑यान् ॥
प्रातः । यजध्वम् । अश्विना । हिनोत । न । सायम् । अस्ति । देवऽयाः । अजुष्टम् ।
उत । अन्यः । अस्मत् । यजते । वि । च । आवः । पूर्वःऽपूर्वः । यजमानः । वनीयान् ॥
prātáḥ ǀ yajadhvam ǀ aśvínā ǀ hinota ǀ ná ǀ sāyám ǀ asti ǀ deva-yā́ḥ ǀ ájuṣṭam ǀ
utá ǀ anyáḥ ǀ asmát ǀ yajate ǀ ví ǀ ca ǀ ā́vaḥ ǀ pū́rvaḥ-pūrvaḥ ǀ yájamānaḥ ǀ vánīyān ǁ
prātaḥ ǀ yajadhvam ǀ aśvinā ǀ hinota ǀ na ǀ sāyam ǀ asti ǀ deva-yāḥ ǀ ajuṣṭam ǀ
uta ǀ anyaḥ ǀ asmat ǀ yajate ǀ vi ǀ ca ǀ āvaḥ ǀ pūrvaḥ-pūrvaḥ ǀ yajamānaḥ ǀ vanīyān ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 05.077.02
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 4.4.18.02
- Maṇḍala · Anuvāka · Ṛk
- 05.06.036
- Devatā देवता
- Aśvins
- Ṛṣi ऋषि
- Atri Bhauma
- Chandas छन्दस्
- Triṣṭubh
- Svara स्वरः
- धैवतः
Text and interpretations from the Ṛgveda database of theveda.org.in.