Sūkta 61
- Devatā देवता
- 1-4, 11-16: Maruts; 5-8: Śaśīyasī Tarantamahiṣī; 9: Purumīḷha Vaidadaśvī; 10: Taranto Vaidadaśviḥ; 17-19: Rathavīti Dārbhya
- Ṛṣi ऋषि
- Śyāvāśva Ātreya
- Chandas छन्दस्
- Gāyatrī, Anuṣṭubh, Satobṛhatī
Metres by ṛk
1st set of styles gāyatrī (1-4, 6-8, 10-19); anuṣṭup (5, 9)
2nd set of styles gāyatrī (1-4, 6-8, 10-19); anuṣṭubh (5); satobṛhatī (9)
-
Ṛk 1
के ष्ठा॑ नरः॒ श्रेष्ठ॑तमा॒ य एक॑एक आय॒य ।
प॒र॒मस्याः॑ परा॒वतः॑ ॥के ष्ठा नरः श्रेष्ठतमा य एक-एक आयय |
परमस्याः परावतः ||ké ṣṭhā naraḥ śréṣṭhatamā yá ékaeka āyayá ǀ
paramásyāḥ parāvátaḥ ǁke ṣṭhā naraḥ śreṣṭhatamā ya eka-eka āyaya |
paramasyāḥ parāvataḥ ||के । स्थ॒ । न॒रः॒ । श्रेष्ठ॑ऽतमाः । ये । एकः॑ऽएकः । आ॒ऽय॒य ।
प॒र॒मस्याः॑ । प॒रा॒ऽवतः॑ ॥के । स्थ । नरः । श्रेष्ठऽतमाः । ये । एकःऽएकः । आऽयय ।
परमस्याः । पराऽवतः ॥ké ǀ stha ǀ naraḥ ǀ śréṣṭha-tamāḥ ǀ yé ǀ ékaḥ-ekaḥ ǀ ā-yayá ǀ
paramásyāḥ ǀ parā-vátaḥ ǁke ǀ stha ǀ naraḥ ǀ śreṣṭha-tamāḥ ǀ ye ǀ ekaḥ-ekaḥ ǀ ā-yaya ǀ
paramasyāḥ ǀ parā-vataḥ ǁ5.61.1 Aṣṭaka 4.3.26.1Anuvāka 5.5.33
-
Ṛk 2
क्व१॒॑ वोऽश्वाः॒ क्वा॒३॒॑भीश॑वः क॒थं शे॑क क॒था य॑य ।
पृ॒ष्ठे सदो॑ न॒सोर्यमः॑ ॥क्व वो ऽश्वाः क्वाभीशवः कथं शेक कथा यय |
पृष्ठे सदो नसोर् यमः ||kvá vó’śvāḥ kvā́bhī́śavaḥ kathám śeka kathā́ yaya ǀ
pṛṣṭhé sádo nasóryámaḥ ǁkva vo 'śvāḥ kvābhīśavaḥ kathaṃ śeka kathā yaya |
pṛṣṭhe sado nasor yamaḥ ||क्व॑ । वः॒ । अश्वाः॑ । क्व॑ । अ॒भीश॑वः । क॒थम् । शे॒क॒ । क॒था । य॒य॒ ।
पृ॒ष्ठे । सदः॑ । न॒सोः । यमः॑ ॥क्व । वः । अश्वाः । क्व । अभीशवः । कथम् । शेक । कथा । यय ।
पृष्ठे । सदः । नसोः । यमः ॥kvá ǀ vaḥ ǀ áśvāḥ ǀ kvá ǀ abhī́śavaḥ ǀ kathám ǀ śeka ǀ kathā́ ǀ yaya ǀ
pṛṣṭhé ǀ sádaḥ ǀ nasóḥ ǀ yámaḥ ǁkva ǀ vaḥ ǀ aśvāḥ ǀ kva ǀ abhīśavaḥ ǀ katham ǀ śeka ǀ kathā ǀ yaya ǀ
pṛṣṭhe ǀ sadaḥ ǀ nasoḥ ǀ yamaḥ ǁ5.61.2 Aṣṭaka 4.3.26.2Anuvāka 5.5.34
-
Ṛk 3
ज॒घने॒ चोद॑ एषां॒ वि स॒क्थानि॒ नरो॑ यमुः ।
पु॒त्र॒कृ॒थे न जन॑यः ॥जघने चोद एषां वि सक्थानि नरो यमुः |
पुत्रकृथे न जनयः ||jagháne códa eṣām ví sakthā́ni náro yamuḥ ǀ
putrakṛthé ná jánayaḥ ǁjaghane coda eṣāṃ vi sakthāni naro yamuḥ |
putrakṛthe na janayaḥ ||ज॒घने॑ । चोदः॑ । ए॒षा॒म् । वि । स॒क्थानि॑ । नरः॑ । य॒मुः॒ ।
पु॒त्र॒ऽकृ॒थे । न । जन॑यः ॥जघने । चोदः । एषाम् । वि । सक्थानि । नरः । यमुः ।
पुत्रऽकृथे । न । जनयः ॥jagháne ǀ códaḥ ǀ eṣām ǀ ví ǀ sakthā́ni ǀ náraḥ ǀ yamuḥ ǀ
putra-kṛthé ǀ ná ǀ jánayaḥ ǁjaghane ǀ codaḥ ǀ eṣām ǀ vi ǀ sakthāni ǀ naraḥ ǀ yamuḥ ǀ
putra-kṛthe ǀ na ǀ janayaḥ ǁ5.61.3 Aṣṭaka 4.3.26.3Anuvāka 5.5.35
-
Ṛk 4
परा॑ वीरास एतन॒ मर्या॑सो॒ भद्र॑जानयः ।
अ॒ग्नि॒तपो॒ यथास॑थ ॥परा वीरास एतन मर्यासो भद्रजानयः |
अग्नितपो यथासथ ||párā vīrāsa etana máryāso bhádrajānayaḥ ǀ
agnitápo yáthā́satha ǁparā vīrāsa etana maryāso bhadrajānayaḥ |
agnitapo yathāsatha ||परा॑ । वी॒रा॒सः॒ । इ॒त॒न॒ । मर्या॑सः । भद्र॑ऽजानयः ।
अ॒ग्नि॒ऽतपः॑ । यथा॑ । अस॑थ ॥परा । वीरासः । इतन । मर्यासः । भद्रऽजानयः ।
अग्निऽतपः । यथा । असथ ॥párā ǀ vīrāsaḥ ǀ itana ǀ máryāsaḥ ǀ bhádra-jānayaḥ ǀ
agni-tápaḥ ǀ yáthā ǀ ásatha ǁparā ǀ vīrāsaḥ ǀ itana ǀ maryāsaḥ ǀ bhadra-jānayaḥ ǀ
agni-tapaḥ ǀ yathā ǀ asatha ǁ5.61.4 Aṣṭaka 4.3.26.4Anuvāka 5.5.36
-
Ṛk 5
सन॒त्साश्व्यं॑ प॒शुमु॒त गव्यं॑ श॒ताव॑यं ।
श्या॒वाश्व॑स्तुताय॒ या दोर्वी॒रायो॑प॒बर्बृ॑हत् ॥सनत् साश्व्यम् पशुम् उत गव्यं शतावयम् |
श्यावाश्वस्तुताय या दोर् वीरायोपबर्बृहत् ||sánatsā́śvyam paśúmutá gávyam śatā́vayam ǀ
śyāvā́śvastutāya yā́ dórvīrā́yopabárbṛhat ǁsanat sāśvyam paśum uta gavyaṃ śatāvayam |
śyāvāśvastutāya yā dor vīrāyopabarbṛhat ||सन॑त् । सा । अश्व्य॑म् । प॒शुम् । उ॒त । गव्य॑म् । श॒तऽअ॑वयम् ।
श्या॒वाश्व॑ऽस्तुताय । या । दोः । वी॒राय॑ । उ॒प॒ऽबर्बृ॑हत् ॥सनत् । सा । अश्व्यम् । पशुम् । उत । गव्यम् । शतऽअवयम् ।
श्यावाश्वऽस्तुताय । या । दोः । वीराय । उपऽबर्बृहत् ॥sánat ǀ sā́ ǀ áśvyam ǀ paśúm ǀ utá ǀ gávyam ǀ śatá-avayam ǀ
śyāvā́śva-stutāya ǀ yā́ ǀ dóḥ ǀ vīrā́ya ǀ upa-bárbṛhat ǁsanat ǀ sā ǀ aśvyam ǀ paśum ǀ uta ǀ gavyam ǀ śata-avayam ǀ
śyāvāśva-stutāya ǀ yā ǀ doḥ ǀ vīrāya ǀ upa-barbṛhat ǁ5.61.5 Aṣṭaka 4.3.26.5Anuvāka 5.5.37
-
Ṛk 6
उ॒त त्वा॒ स्त्री शशी॑यसी पुं॒सो भ॑वति॒ वस्य॑सी ।
अदे॑वत्रादरा॒धसः॑ ॥उत त्वा स्त्री शशीयसी पुंसो भवति वस्यसी |
अदेवत्राद् अराधसः ||utá tvā strī́ śáśīyasī puṃsó bhavati vásyasī ǀ
ádevatrādarādhásaḥ ǁuta tvā strī śaśīyasī puṃso bhavati vasyasī |
adevatrād arādhasaḥ ||उ॒त । त्वा॒ । स्त्री । शशी॑यसी । पुं॒सः । भ॒व॒ति॒ । वस्य॑सी ।
अदे॑वऽत्रात् । अ॒रा॒धसः॑ ॥उत । त्वा । स्त्री । शशीयसी । पुंसः । भवति । वस्यसी ।
अदेवऽत्रात् । अराधसः ॥utá ǀ tvā ǀ strī́ ǀ śáśīyasī ǀ puṃsáḥ ǀ bhavati ǀ vásyasī ǀ
ádeva-trāt ǀ arādhásaḥ ǁuta ǀ tvā ǀ strī ǀ śaśīyasī ǀ puṃsaḥ ǀ bhavati ǀ vasyasī ǀ
adeva-trāt ǀ arādhasaḥ ǁ5.61.6 Aṣṭaka 4.3.27.1Anuvāka 5.5.38
-
Ṛk 7
वि या जा॒नाति॒ जसु॑रिं॒ वि तृष्यं॑तं॒ वि का॒मिनं॑ ।
दे॒व॒त्रा कृ॑णु॒ते मनः॑ ॥वि या जानाति जसुरिं वि तृष्यन्तं वि कामिनम् |
देवत्रा कृणुते मनः ||ví yā́ jānā́ti jásurim ví tṛ́ṣyantam ví kāmínam ǀ
devatrā́ kṛṇuté mánaḥ ǁvi yā jānāti jasuriṃ vi tṛṣyantaṃ vi kāminam |
devatrā kṛṇute manaḥ ||वि । या । जा॒नाति॑ । जसु॑रिम् । वि । तृष्य॑न्तम् । वि । का॒मिन॑म् ।
दे॒व॒ऽत्रा । कृ॒णु॒ते । मनः॑ ॥वि । या । जानाति । जसुरिम् । वि । तृष्यन्तम् । वि । कामिनम् ।
देवऽत्रा । कृणुते । मनः ॥ví ǀ yā́ ǀ jānā́ti ǀ jásurim ǀ ví ǀ tṛ́ṣyantam ǀ ví ǀ kāmínam ǀ
deva-trā́ ǀ kṛṇuté ǀ mánaḥ ǁvi ǀ yā ǀ jānāti ǀ jasurim ǀ vi ǀ tṛṣyantam ǀ vi ǀ kāminam ǀ
deva-trā ǀ kṛṇute ǀ manaḥ ǁ5.61.7 Aṣṭaka 4.3.27.2Anuvāka 5.5.39
-
Ṛk 8
उ॒त घा॒ नेमो॒ अस्तु॑तः॒ पुमाँ॒ इति॑ ब्रुवे प॒णिः ।
स वैर॑देय॒ इत्स॒मः ॥उत घा नेमो अस्तुतः पुमां इति ब्रुवे पणिः |
स वैरदेय इत् समः ||utá ghā némo ástutaḥ púmām̐ íti bruve paṇíḥ ǀ
sá váiradeya ítsamáḥ ǁuta ghā nemo astutaḥ pumāṃ iti bruve paṇiḥ |
sa vairadeya it samaḥ ||उ॒त । घ॒ । नेमः॑ । अस्तु॑तः । पुमा॑न् । इति॑ । ब्रु॒वे॒ । प॒णिः ।
सः । वैर॑ऽदेये । इत् । स॒मः ॥उत । घ । नेमः । अस्तुतः । पुमान् । इति । ब्रुवे । पणिः ।
सः । वैरऽदेये । इत् । समः ॥utá ǀ gha ǀ némaḥ ǀ ástutaḥ ǀ púmān ǀ íti ǀ bruve ǀ paṇíḥ ǀ
sáḥ ǀ váira-deye ǀ ít ǀ samáḥ ǁuta ǀ gha ǀ nemaḥ ǀ astutaḥ ǀ pumān ǀ iti ǀ bruve ǀ paṇiḥ ǀ
saḥ ǀ vaira-deye ǀ it ǀ samaḥ ǁ5.61.8 Aṣṭaka 4.3.27.3Anuvāka 5.5.40
-
Ṛk 9
उ॒त मे॑ऽरपद्युव॒तिर्म॑मं॒दुषी॒ प्रति॑ श्या॒वाय॑ वर्त॒निं ।
वि रोहि॑ता पुरुमी॒ळ्हाय॑ येमतु॒र्विप्रा॑य दी॒र्घय॑शसे ॥उत मे ऽरपद् युवतिर् ममन्दुषी प्रति श्यावाय वर्तनिम् |
वि रोहिता पुरुमीऌहाय येमतुर् विप्राय दीर्घयशसे ||utá me’rapadyuvatírmamandúṣī práti śyāvā́ya vartaním ǀ
ví róhitā purumīḷhā́ya yematurvíprāya dīrgháyaśase ǁuta me 'rapad yuvatir mamanduṣī prati śyāvāya vartanim |
vi rohitā purumīḷhāya yematur viprāya dīrghayaśase ||उ॒त । मे॒ । अ॒र॒प॒त् । यु॒व॒तिः । म॒म॒न्दुषी॑ । प्रति॑ । श्या॒वाय॑ । व॒र्त॒निम् ।
वि । रोहि॑ता । पु॒रु॒ऽमी॒ळ्हाय॑ । ये॒म॒तुः॒ । विप्रा॑य । दी॒र्घऽय॑शसे ॥उत । मे । अरपत् । युवतिः । ममन्दुषी । प्रति । श्यावाय । वर्तनिम् ।
वि । रोहिता । पुरुऽमीळ्हाय । येमतुः । विप्राय । दीर्घऽयशसे ॥utá ǀ me ǀ arapat ǀ yuvatíḥ ǀ mamandúṣī ǀ práti ǀ śyāvā́ya ǀ vartaním ǀ
ví ǀ róhitā ǀ puru-mīḷhā́ya ǀ yematuḥ ǀ víprāya ǀ dīrghá-yaśase ǁuta ǀ me ǀ arapat ǀ yuvatiḥ ǀ mamanduṣī ǀ prati ǀ śyāvāya ǀ vartanim ǀ
vi ǀ rohitā ǀ puru-mīḷhāya ǀ yematuḥ ǀ viprāya ǀ dīrgha-yaśase ǁ5.61.9 Aṣṭaka 4.3.27.4Anuvāka 5.5.41
-
Ṛk 10
यो मे॑ धेनू॒नां श॒तं वैद॑दश्वि॒र्यथा॒ दद॑त् ।
त॒रं॒त इ॑व मं॒हना॑ ॥यो मे धेनूनां शतं वैददश्विर् यथा ददत् |
तरन्त इव मंहना ||yó me dhenūnā́m śatám váidadaśviryáthā dádat ǀ
tarantá iva maṃhánā ǁyo me dhenūnāṃ śataṃ vaidadaśvir yathā dadat |
taranta iva maṃhanā ||यः । मे॒ । धे॒नू॒नाम् । श॒तम् । वैद॑त्ऽअश्विः । यथा॑ । दद॑त् ।
त॒र॒न्तःऽइ॑व । मं॒हना॑ ॥यः । मे । धेनूनाम् । शतम् । वैदत्ऽअश्विः । यथा । ददत् ।
तरन्तःऽइव । मंहना ॥yáḥ ǀ me ǀ dhenūnā́m ǀ śatám ǀ váidat-aśviḥ ǀ yáthā ǀ dádat ǀ
tarantáḥ-iva ǀ maṃhánā ǁyaḥ ǀ me ǀ dhenūnām ǀ śatam ǀ vaidat-aśviḥ ǀ yathā ǀ dadat ǀ
tarantaḥ-iva ǀ maṃhanā ǁ5.61.10 Aṣṭaka 4.3.27.5Anuvāka 5.5.42
-
Ṛk 11
य ईं॒ वहं॑त आ॒शुभिः॒ पिबं॑तो मदि॒रं मधु॑ ।
अत्र॒ श्रवां॑सि दधिरे ॥य ईं वहन्त आशुभिः पिबन्तो मदिरम् मधु |
अत्र श्रवांसि दधिरे ||yá īm váhanta āśúbhiḥ píbanto madirám mádhu ǀ
átra śrávāṃsi dadhire ǁya īṃ vahanta āśubhiḥ pibanto madiram madhu |
atra śravāṃsi dadhire ||ये । ई॒म् । वह॑न्ते । आ॒शुऽभिः॑ । पिब॑न्तः । म॒दि॒रम् । मधु॑ ।
अत्र॑ । श्रवां॑सि । द॒धि॒रे॒ ॥ये । ईम् । वहन्ते । आशुऽभिः । पिबन्तः । मदिरम् । मधु ।
अत्र । श्रवांसि । दधिरे ॥yé ǀ īm ǀ váhante ǀ āśú-bhiḥ ǀ píbantaḥ ǀ madirám ǀ mádhu ǀ
átra ǀ śrávāṃsi ǀ dadhire ǁye ǀ īm ǀ vahante ǀ āśu-bhiḥ ǀ pibantaḥ ǀ madiram ǀ madhu ǀ
atra ǀ śravāṃsi ǀ dadhire ǁ5.61.11 Aṣṭaka 4.3.28.1Anuvāka 5.5.43
-
Ṛk 12
येषां॑ श्रि॒याधि॒ रोद॑सी वि॒भ्राजं॑ते॒ रथे॒ष्वा ।
दि॒वि रु॒क्म इ॑वो॒परि॑ ॥येषां श्रियाधि रोदसी विभ्राजन्ते रथेष्व् आ |
दिवि रुक्म इवोपरि ||yéṣām śriyā́dhi ródasī vibhrā́jante rátheṣvā́ ǀ
diví rukmá ivopári ǁyeṣāṃ śriyādhi rodasī vibhrājante ratheṣv ā |
divi rukma ivopari ||येषा॑म् । श्रि॒या । अधि॑ । रोद॑सी॒ इति॑ । वि॒ऽभ्राज॑न्ते । रथे॑षु । आ ।
दि॒वि । रु॒क्मःऽइ॑व । उ॒परि॑ ॥येषाम् । श्रिया । अधि । रोदसी इति । विऽभ्राजन्ते । रथेषु । आ ।
दिवि । रुक्मःऽइव । उपरि ॥yéṣām ǀ śriyā́ ǀ ádhi ǀ ródasī íti ǀ vi-bhrā́jante ǀ rátheṣu ǀ ā́ ǀ
diví ǀ rukmáḥ-iva ǀ upári ǁyeṣām ǀ śriyā ǀ adhi ǀ rodasī iti ǀ vi-bhrājante ǀ ratheṣu ǀ ā ǀ
divi ǀ rukmaḥ-iva ǀ upari ǁ5.61.12 Aṣṭaka 4.3.28.2Anuvāka 5.5.44
-
Ṛk 13
युवा॒ स मारु॑तो ग॒णस्त्वे॒षर॑थो॒ अने॑द्यः ।
शु॒भं॒यावाप्र॑तिष्कुतः ॥युवा स मारुतो गणस् त्वेषरथो अनेद्यः |
शुभंयावाप्रतिष्कुतः ||yúvā sá mā́ruto gaṇástveṣáratho ánedyaḥ ǀ
śubhaṃyā́vā́pratiṣkutaḥ ǁyuvā sa māruto gaṇas tveṣaratho anedyaḥ |
śubhaṃyāvāpratiṣkutaḥ ||युवा॑ । सः । मारु॑तः । ग॒णः । त्वे॒षऽर॑थः । अने॑द्यः ।
शु॒भ॒म्ऽयावा॑ । अप्र॑तिऽस्कुतः ॥युवा । सः । मारुतः । गणः । त्वेषऽरथः । अनेद्यः ।
शुभम्ऽयावा । अप्रतिऽस्कुतः ॥yúvā ǀ sáḥ ǀ mā́rutaḥ ǀ gaṇáḥ ǀ tveṣá-rathaḥ ǀ ánedyaḥ ǀ
śubham-yā́vā ǀ áprati-skutaḥ ǁyuvā ǀ saḥ ǀ mārutaḥ ǀ gaṇaḥ ǀ tveṣa-rathaḥ ǀ anedyaḥ ǀ
śubham-yāvā ǀ aprati-skutaḥ ǁ5.61.13 Aṣṭaka 4.3.28.3Anuvāka 5.5.45
-
Ṛk 14
को वे॑द नू॒नमे॑षां॒ यत्रा॒ मदं॑ति॒ धूत॑यः ।
ऋ॒तजा॑ता अरे॒पसः॑ ॥को वेद नूनम् एषां यत्रा मदन्ति धूतयः |
ऋतजाता अरेपसः ||kó veda nūnámeṣām yátrā mádanti dhū́tayaḥ ǀ
ṛtájātā arepásaḥ ǁko veda nūnam eṣāṃ yatrā madanti dhūtayaḥ |
ṛtajātā arepasaḥ ||कः । वे॒द॒ । नू॒नम् । ए॒षा॒म् । यत्र॑ । मद॑न्ति । धूत॑यः ।
ऋ॒तऽजा॑ताः । अ॒रे॒पसः॑ ॥कः । वेद । नूनम् । एषाम् । यत्र । मदन्ति । धूतयः ।
ऋतऽजाताः । अरेपसः ॥káḥ ǀ veda ǀ nūnám ǀ eṣām ǀ yátra ǀ mádanti ǀ dhū́tayaḥ ǀ
ṛtá-jātāḥ ǀ arepásaḥ ǁkaḥ ǀ veda ǀ nūnam ǀ eṣām ǀ yatra ǀ madanti ǀ dhūtayaḥ ǀ
ṛta-jātāḥ ǀ arepasaḥ ǁ5.61.14 Aṣṭaka 4.3.28.4Anuvāka 5.5.46
-
Ṛk 15
यू॒यं मर्तं॑ विपन्यवः प्रणे॒तार॑ इ॒त्था धि॒या ।
श्रोता॑रो॒ याम॑हूतिषु ॥यूयम् मर्तं विपन्यवः प्रणेतार इत्था धिया |
श्रोतारो यामहूतिषु ||yūyám mártam vipanyavaḥ praṇetā́ra itthā́ dhiyā́ ǀ
śrótāro yā́mahūtiṣu ǁyūyam martaṃ vipanyavaḥ praṇetāra itthā dhiyā |
śrotāro yāmahūtiṣu ||यू॒यम् । मर्त॑म् । वि॒प॒न्य॒वः॒ । प्र॒ऽने॒तारः॑ । इ॒त्था । धि॒या ।
श्रोता॑रः । याम॑ऽहूतिषु ॥यूयम् । मर्तम् । विपन्यवः । प्रऽनेतारः । इत्था । धिया ।
श्रोतारः । यामऽहूतिषु ॥yūyám ǀ mártam ǀ vipanyavaḥ ǀ pra-netā́raḥ ǀ itthā́ ǀ dhiyā́ ǀ
śrótāraḥ ǀ yā́ma-hūtiṣu ǁyūyam ǀ martam ǀ vipanyavaḥ ǀ pra-netāraḥ ǀ itthā ǀ dhiyā ǀ
śrotāraḥ ǀ yāma-hūtiṣu ǁ5.61.15 Aṣṭaka 4.3.28.5Anuvāka 5.5.47
-
Ṛk 16
ते नो॒ वसू॑नि॒ काम्या॑ पुरुश्चं॒द्रा रि॑शादसः ।
आ य॑ज्ञियासो ववृत्तन ॥ते नो वसूनि काम्या पुरुश्चन्द्रा रिशादसः |
आ यज्ञियासो ववृत्तन ||té no vásūni kā́myā puruścandrā́ riśādasaḥ ǀ
ā́ yajñiyāso vavṛttana ǁte no vasūni kāmyā puruścandrā riśādasaḥ |
ā yajñiyāso vavṛttana ||ते । नः॒ । वसू॑नि । काम्या॑ । पु॒रु॒ऽच॒न्द्राः । रि॒शा॒द॒सः॒ ।
आ । य॒ज्ञि॒या॒सः॒ । व॒वृ॒त्त॒न॒ ॥ते । नः । वसूनि । काम्या । पुरुऽचन्द्राः । रिशादसः ।
आ । यज्ञियासः । ववृत्तन ॥té ǀ naḥ ǀ vásūni ǀ kā́myā ǀ puru-candrā́ḥ ǀ riśādasaḥ ǀ
ā́ ǀ yajñiyāsaḥ ǀ vavṛttana ǁte ǀ naḥ ǀ vasūni ǀ kāmyā ǀ puru-candrāḥ ǀ riśādasaḥ ǀ
ā ǀ yajñiyāsaḥ ǀ vavṛttana ǁ5.61.16 Aṣṭaka 4.3.29.1Anuvāka 5.5.48
-
Ṛk 17
ए॒तं मे॒ स्तोम॑मूर्म्ये दा॒र्भ्याय॒ परा॑ वह ।
गिरो॑ देवि र॒थीरि॑व ॥एतम् मे स्तोमम् ऊर्म्ये दार्भ्याय परा वह |
गिरो देवि रथीर् इव ||etám me stómamūrmye dārbhyā́ya párā vaha ǀ
gíro devi rathī́riva ǁetam me stomam ūrmye dārbhyāya parā vaha |
giro devi rathīr iva ||ए॒तम् । मे॒ । स्तोम॑म् । ऊ॒र्म्ये॒ । दा॒र्भ्याय॑ । परा॑ । व॒ह॒ ।
गिरः॑ । दे॒वि॒ । र॒थीःऽइ॑व ॥एतम् । मे । स्तोमम् । ऊर्म्ये । दार्भ्याय । परा । वह ।
गिरः । देवि । रथीःऽइव ॥etám ǀ me ǀ stómam ǀ ūrmye ǀ dārbhyā́ya ǀ párā ǀ vaha ǀ
gíraḥ ǀ devi ǀ rathī́ḥ-iva ǁetam ǀ me ǀ stomam ǀ ūrmye ǀ dārbhyāya ǀ parā ǀ vaha ǀ
giraḥ ǀ devi ǀ rathīḥ-iva ǁ5.61.17 Aṣṭaka 4.3.29.2Anuvāka 5.5.49
-
Ṛk 18
उ॒त मे॑ वोचता॒दिति॑ सु॒तसो॑मे॒ रथ॑वीतौ ।
न कामो॒ अप॑ वेति मे ॥उत मे वोचताद् इति सुतसोमे रथवीतौ |
न कामो अप वेति मे ||utá me vocatādíti sutásome ráthavītau ǀ
ná kā́mo ápa veti me ǁuta me vocatād iti sutasome rathavītau |
na kāmo apa veti me ||उ॒त । मे॒ । वो॒च॒ता॒त् । इति॑ । सु॒तऽसो॑मे । रथ॑ऽवीतौ ।
न । कामः॑ । अप॑ । वे॒ति॒ । मे॒ ॥उत । मे । वोचतात् । इति । सुतऽसोमे । रथऽवीतौ ।
न । कामः । अप । वेति । मे ॥utá ǀ me ǀ vocatāt ǀ íti ǀ sutá-some ǀ rátha-vītau ǀ
ná ǀ kā́maḥ ǀ ápa ǀ veti ǀ me ǁuta ǀ me ǀ vocatāt ǀ iti ǀ suta-some ǀ ratha-vītau ǀ
na ǀ kāmaḥ ǀ apa ǀ veti ǀ me ǁ5.61.18 Aṣṭaka 4.3.29.3Anuvāka 5.5.50
-
Ṛk 19
ए॒ष क्षे॑ति॒ रथ॑वीतिर्म॒घवा॒ गोम॑ती॒रनु॑ ।
पर्व॑ते॒ष्वप॑श्रितः ॥एष क्षेति रथवीतिर् मघवा गोमतीर् अनु |
पर्वतेष्व् अपश्रितः ||eṣá kṣeti ráthavītirmaghávā gómatīránu ǀ
párvateṣvápaśritaḥ ǁeṣa kṣeti rathavītir maghavā gomatīr anu |
parvateṣv apaśritaḥ ||ए॒षः । क्षे॒ति॒ । रथ॑ऽवीतिः । म॒घऽवा॑ । गोऽम॑तीः । अनु॑ ।
पर्व॑तेषु । अप॑ऽश्रितः ॥एषः । क्षेति । रथऽवीतिः । मघऽवा । गोऽमतीः । अनु ।
पर्वतेषु । अपऽश्रितः ॥eṣáḥ ǀ kṣeti ǀ rátha-vītiḥ ǀ maghá-vā ǀ gó-matīḥ ǀ ánu ǀ
párvateṣu ǀ ápa-śritaḥ ǁeṣaḥ ǀ kṣeti ǀ ratha-vītiḥ ǀ magha-vā ǀ go-matīḥ ǀ anu ǀ
parvateṣu ǀ apa-śritaḥ ǁ5.61.19 Aṣṭaka 4.3.29.4Anuvāka 5.5.51
Text, recitation and interpretations from the Ṛgveda database of theveda.org.in.