Sūkta 19
- Devatā देवता
- Agni
- Ṛṣi ऋषि
- Vavri Ātreya
- Chandas छन्दस्
- Gāyatrī, Anuṣṭubh, Virāḍrūpā
Metres by ṛk
1st set of styles gāyatrī (1); nicṛdgāyatrī (2); anuṣṭup (3); bhuriguṣṇik (4); nicṛtpaṅkti (5)
2nd set of styles gāyatrī (1, 2); anuṣṭubh (3, 4); virāḍrūpā (5)
-
Ṛk 1
अ॒भ्य॑व॒स्थाः प्र जा॑यंते॒ प्र व॒व्रेर्व॒व्रिश्चि॑केत ।
उ॒पस्थे॑ मा॒तुर्वि च॑ष्टे ॥अभ्य् अवस्थाः प्र जायन्ते प्र वव्रेर् वव्रिश् चिकेत |
उपस्थे मातुर् वि चष्टे ||abhyávasthā́ḥ prá jāyante prá vavrérvavríściketa ǀ
upásthe mātúrví caṣṭe ǁabhy avasthāḥ pra jāyante pra vavrer vavriś ciketa |
upasthe mātur vi caṣṭe ||अ॒भि । अ॒व॒ऽस्थाः । प्र । जा॒य॒न्ते॒ । प्र । व॒व्रेः । व॒व्रिः । चि॒के॒त॒ ।
उ॒पऽस्थे॑ । मा॒तुः । वि । च॒ष्टे॒ ॥अभि । अवऽस्थाः । प्र । जायन्ते । प्र । वव्रेः । वव्रिः । चिकेत ।
उपऽस्थे । मातुः । वि । चष्टे ॥abhí ǀ ava-sthā́ḥ ǀ prá ǀ jāyante ǀ prá ǀ vavréḥ ǀ vavríḥ ǀ ciketa ǀ
upá-sthe ǀ mātúḥ ǀ ví ǀ caṣṭe ǁabhi ǀ ava-sthāḥ ǀ pra ǀ jāyante ǀ pra ǀ vavreḥ ǀ vavriḥ ǀ ciketa ǀ
upa-sthe ǀ mātuḥ ǀ vi ǀ caṣṭe ǁ5.19.1 Aṣṭaka 4.1.11.1Anuvāka 5.2.21
-
Ṛk 2
जु॒हु॒रे वि चि॒तयं॒तोऽनि॑मिषं नृ॒म्णं पां॑ति ।
आ दृ॒ळ्हां पुरं॑ विविशुः ॥जुहुरे वि चितयन्तो ऽनिमिषं नृम्णम् पान्ति |
आ दृऌहाम् पुरं विविशुः ||juhuré ví citáyantó’nimiṣam nṛmṇám pānti ǀ
ā́ dṛḷhā́m púram viviśuḥ ǁjuhure vi citayanto 'nimiṣaṃ nṛmṇam pānti |
ā dṛḷhām puraṃ viviśuḥ ||जु॒हु॒रे । वि । चि॒तय॑न्तः । अनि॑ऽमिषम् । नृ॒म्णम् । पा॒न्ति॒ ।
आ । दृ॒ळ्हाम् । पुर॑म् । वि॒वि॒शुः॒ ॥जुहुरे । वि । चितयन्तः । अनिऽमिषम् । नृम्णम् । पान्ति ।
आ । दृळ्हाम् । पुरम् । विविशुः ॥juhuré ǀ ví ǀ citáyantaḥ ǀ áni-miṣam ǀ nṛmṇám ǀ pānti ǀ
ā́ ǀ dṛḷhā́m ǀ púram ǀ viviśuḥ ǁjuhure ǀ vi ǀ citayantaḥ ǀ ani-miṣam ǀ nṛmṇam ǀ pānti ǀ
ā ǀ dṛḷhām ǀ puram ǀ viviśuḥ ǁ5.19.2 Aṣṭaka 4.1.11.2Anuvāka 5.2.22
-
Ṛk 3
आ श्वै॑त्रे॒यस्य॑ जं॒तवो॑ द्यु॒मद्व॑र्धंत कृ॒ष्टयः॑ ।
नि॒ष्कग्री॑वो बृ॒हदु॑क्थ ए॒ना मध्वा॒ न वा॑ज॒युः ॥आ श्वैत्रेयस्य जन्तवो द्युमद् वर्धन्त कृष्टयः |
निष्कग्रीवो बृहदुक्थ एना मध्वा न वाजयुः ||ā́ śvaitreyásya jantávo dyumádvardhanta kṛṣṭáyaḥ ǀ
niṣkágrīvo bṛháduktha enā́ mádhvā ná vājayúḥ ǁā śvaitreyasya jantavo dyumad vardhanta kṛṣṭayaḥ |
niṣkagrīvo bṛhaduktha enā madhvā na vājayuḥ ||आ । श्वै॒त्रे॒यस्य॑ । ज॒न्तवः॑ । द्यु॒ऽमत् । व॒र्ध॒न्त॒ । कृ॒ष्टयः॑ ।
नि॒ष्कऽग्री॑वः । बृ॒हत्ऽउ॑क्थः । ए॒ना । मध्वा॑ । न । वा॒ज॒ऽयुः ॥आ । श्वैत्रेयस्य । जन्तवः । द्युऽमत् । वर्धन्त । कृष्टयः ।
निष्कऽग्रीवः । बृहत्ऽउक्थः । एना । मध्वा । न । वाजऽयुः ॥ā́ ǀ śvaitreyásya ǀ jantávaḥ ǀ dyu-mát ǀ vardhanta ǀ kṛṣṭáyaḥ ǀ
niṣká-grīvaḥ ǀ bṛhát-ukthaḥ ǀ enā́ ǀ mádhvā ǀ ná ǀ vāja-yúḥ ǁā ǀ śvaitreyasya ǀ jantavaḥ ǀ dyu-mat ǀ vardhanta ǀ kṛṣṭayaḥ ǀ
niṣka-grīvaḥ ǀ bṛhat-ukthaḥ ǀ enā ǀ madhvā ǀ na ǀ vāja-yuḥ ǁ5.19.3 Aṣṭaka 4.1.11.3Anuvāka 5.2.23
-
Ṛk 4
प्रि॒यं दु॒ग्धं न काम्य॒मजा॑मि जा॒म्योः सचा॑ ।
घ॒र्मो न वाज॑जठ॒रोऽद॑ब्धः॒ शश्व॑तो॒ दभः॑ ॥प्रियं दुग्धं न काम्यम् अजामि जाम्योः सचा |
घर्मो न वाजजठरो ऽदब्धः शश्वतो दभः ||priyám dugdhám ná kā́myamájāmi jāmyóḥ sácā ǀ
gharmó ná vā́jajaṭharó’dabdhaḥ śáśvato dábhaḥ ǁpriyaṃ dugdhaṃ na kāmyam ajāmi jāmyoḥ sacā |
gharmo na vājajaṭharo 'dabdhaḥ śaśvato dabhaḥ ||प्रि॒यम् । दु॒ग्धम् । न । काम्य॑म् । अजा॑मि । जा॒म्योः । सचा॑ ।
घ॒र्मः । न । वाज॑ऽजठरः । अद॑ब्धः । शश्व॑तः । दभः॑ ॥प्रियम् । दुग्धम् । न । काम्यम् । अजामि । जाम्योः । सचा ।
घर्मः । न । वाजऽजठरः । अदब्धः । शश्वतः । दभः ॥priyám ǀ dugdhám ǀ ná ǀ kā́myam ǀ ájāmi ǀ jāmyóḥ ǀ sácā ǀ
gharmáḥ ǀ ná ǀ vā́ja-jaṭharaḥ ǀ ádabdhaḥ ǀ śáśvataḥ ǀ dábhaḥ ǁpriyam ǀ dugdham ǀ na ǀ kāmyam ǀ ajāmi ǀ jāmyoḥ ǀ sacā ǀ
gharmaḥ ǀ na ǀ vāja-jaṭharaḥ ǀ adabdhaḥ ǀ śaśvataḥ ǀ dabhaḥ ǁ5.19.4 Aṣṭaka 4.1.11.4Anuvāka 5.2.24
-
Ṛk 5
क्रीळ॑न्नो रश्म॒ आ भु॑वः॒ सं भस्म॑ना वा॒युना॒ वेवि॑दानः ।
ता अ॑स्य संधृ॒षजो॒ न ति॒ग्माः सुसं॑शिता व॒क्ष्यो॑ वक्षणे॒स्थाः ॥क्रीऌअन् नो रश्म आ भुवः सम् भस्मना वायुना वेविदानः |
ता अस्य सन् धृषजो न तिग्माः सुसंशिता वक्ष्यो वक्षणेस्थाः ||krī́ḷanno raśma ā́ bhuvaḥ sám bhásmanā vāyúnā vévidānaḥ ǀ
tā́ asya sandhṛṣájo ná tigmā́ḥ súsaṃśitā vakṣyó vakṣaṇesthā́ḥ ǁkrīḷan no raśma ā bhuvaḥ sam bhasmanā vāyunā vevidānaḥ |
tā asya san dhṛṣajo na tigmāḥ susaṃśitā vakṣyo vakṣaṇesthāḥ ||क्रीळ॑न् । नः॒ । र॒श्मे॒ । आ । भु॒वः॒ । सम् । भस्म॑ना । वा॒युना॑ । वेवि॑दानः ।
ताः । अ॒स्य॒ । स॒न् । धृ॒षजः॑ । न । ति॒ग्माः । सुऽसं॑शिताः । व॒क्ष्यः॑ । व॒क्ष॒णे॒ऽस्थाः ॥क्रीळन् । नः । रश्मे । आ । भुवः । सम् । भस्मना । वायुना । वेविदानः ।
ताः । अस्य । सन् । धृषजः । न । तिग्माः । सुऽसंशिताः । वक्ष्यः । वक्षणेऽस्थाः ॥krī́ḷan ǀ naḥ ǀ raśme ǀ ā́ ǀ bhuvaḥ ǀ sám ǀ bhásmanā ǀ vāyúnā ǀ vévidānaḥ ǀ
tā́ḥ ǀ asya ǀ san ǀ dhṛṣájaḥ ǀ ná ǀ tigmā́ḥ ǀ sú-saṃśitāḥ ǀ vakṣyáḥ ǀ vakṣaṇe-sthā́ḥ ǁkrīḷan ǀ naḥ ǀ raśme ǀ ā ǀ bhuvaḥ ǀ sam ǀ bhasmanā ǀ vāyunā ǀ vevidānaḥ ǀ
tāḥ ǀ asya ǀ san ǀ dhṛṣajaḥ ǀ na ǀ tigmāḥ ǀ su-saṃśitāḥ ǀ vakṣyaḥ ǀ vakṣaṇe-sthāḥ ǁ5.19.5 Aṣṭaka 4.1.11.5Anuvāka 5.2.25
Text, recitation and interpretations from the Ṛgveda database of theveda.org.in.