Sūkta 67
- Devatā देवता
- Mitra, Varuṇa
- Ṛṣi ऋषि
- Yajata Ātreya
- Chandas छन्दस्
- Anuṣṭubh
Metres by ṛk
1st set of styles nicṛdanuṣṭup (1, 2, 4); virāḍanuṣṭup (3, 5)
2nd set of styles anuṣṭubh
-
Ṛk 1
बळि॒त्था दे॑व निष्कृ॒तमादि॑त्या यज॒तं बृ॒हत् ।
वरु॑ण॒ मित्रार्य॑म॒न्वर्षि॑ष्ठं क्ष॒त्रमा॑शाथे ॥बऌ इत्था देव निष्कृतम् आदित्या यजतम् बृहत् |
वरुण मित्रार्यमन् वर्षिष्ठं क्षत्रम् आशाथे ||báḷitthā́ deva niṣkṛtámā́dityā yajatám bṛhát ǀ
váruṇa mítrā́ryamanvárṣiṣṭham kṣatrámāśāthe ǁbaḷ itthā deva niṣkṛtam ādityā yajatam bṛhat |
varuṇa mitrāryaman varṣiṣṭhaṃ kṣatram āśāthe ||बट् । इ॒त्था । दे॒वा॒ । निः॒ऽकृ॒तम् । आदि॑त्या । य॒ज॒तम् । बृ॒हत् ।
वरु॑ण । मित्र॑ । अर्य॑मन् । वर्षि॑ष्ठम् । क्ष॒त्रम् । आ॒शा॒थे॒ इति॑ ॥बट् । इत्था । देवा । निःऽकृतम् । आदित्या । यजतम् । बृहत् ।
वरुण । मित्र । अर्यमन् । वर्षिष्ठम् । क्षत्रम् । आशाथे इति ॥báṭ ǀ itthā́ ǀ devā ǀ niḥ-kṛtám ǀ ā́dityā ǀ yajatám ǀ bṛhát ǀ
váruṇa ǀ mítra ǀ áryaman ǀ várṣiṣṭham ǀ kṣatrám ǀ āśāthe íti ǁbaṭ ǀ itthā ǀ devā ǀ niḥ-kṛtam ǀ ādityā ǀ yajatam ǀ bṛhat ǀ
varuṇa ǀ mitra ǀ aryaman ǀ varṣiṣṭham ǀ kṣatram ǀ āśāthe iti ǁ5.67.1 Aṣṭaka 4.4.5.1Anuvāka 5.5.87
-
Ṛk 2
आ यद्योनिं॑ हिर॒ण्ययं॒ वरु॑ण॒ मित्र॒ सद॑थः ।
ध॒र्तारा॑ चर्षणी॒नां यं॒तं सु॒म्नं रि॑शादसा ॥आ यद् योनिं हिरण्ययं वरुण मित्र सदथः |
धर्तारा चर्षणीनां यन्तं सुम्नं रिशादसा ||ā́ yádyónim hiraṇyáyam váruṇa mítra sádathaḥ ǀ
dhartā́rā carṣaṇīnā́m yantám sumnám riśādasā ǁā yad yoniṃ hiraṇyayaṃ varuṇa mitra sadathaḥ |
dhartārā carṣaṇīnāṃ yantaṃ sumnaṃ riśādasā ||आ । यत् । योनि॑म् । हि॒र॒ण्यय॑म् । वरु॑ण । मित्र॑ । सद॑थः ।
ध॒र्तारा॑ । च॒र्ष॒णी॒नाम् । य॒न्तम् । सु॒म्नम् । रि॒शा॒द॒सा॒ ॥आ । यत् । योनिम् । हिरण्ययम् । वरुण । मित्र । सदथः ।
धर्तारा । चर्षणीनाम् । यन्तम् । सुम्नम् । रिशादसा ॥ā́ ǀ yát ǀ yónim ǀ hiraṇyáyam ǀ váruṇa ǀ mítra ǀ sádathaḥ ǀ
dhartā́rā ǀ carṣaṇīnā́m ǀ yantám ǀ sumnám ǀ riśādasā ǁā ǀ yat ǀ yonim ǀ hiraṇyayam ǀ varuṇa ǀ mitra ǀ sadathaḥ ǀ
dhartārā ǀ carṣaṇīnām ǀ yantam ǀ sumnam ǀ riśādasā ǁ5.67.2 Aṣṭaka 4.4.5.2Anuvāka 5.5.88
-
Ṛk 3
विश्वे॒ हि वि॒श्ववे॑दसो॒ वरु॑णो मि॒त्रो अ॑र्य॒मा ।
व्र॒ता प॒देव॑ सश्चिरे॒ पांति॒ मर्त्यं॑ रि॒षः ॥विश्वे हि विश्ववेदसो वरुणो मित्रो अर्यमा |
व्रता पदेव सश्चिरे पान्ति मर्त्यं रिषः ||víśve hí viśvávedaso váruṇo mitró aryamā́ ǀ
vratā́ padéva saścire pā́nti mártyam riṣáḥ ǁviśve hi viśvavedaso varuṇo mitro aryamā |
vratā padeva saścire pānti martyaṃ riṣaḥ ||विश्वे॑ । हि । वि॒श्वऽवे॑दसः । वरु॑णः । मि॒त्रः । अ॒र्य॒मा ।
व्र॒ता । प॒दाऽइ॑व । स॒श्चि॒रे॒ । पान्ति॑ । मर्त्य॑म् । रि॒षः ॥विश्वे । हि । विश्वऽवेदसः । वरुणः । मित्रः । अर्यमा ।
व्रता । पदाऽइव । सश्चिरे । पान्ति । मर्त्यम् । रिषः ॥víśve ǀ hí ǀ viśvá-vedasaḥ ǀ váruṇaḥ ǀ mitráḥ ǀ aryamā́ ǀ
vratā́ ǀ padā́-iva ǀ saścire ǀ pā́nti ǀ mártyam ǀ riṣáḥ ǁviśve ǀ hi ǀ viśva-vedasaḥ ǀ varuṇaḥ ǀ mitraḥ ǀ aryamā ǀ
vratā ǀ padā-iva ǀ saścire ǀ pānti ǀ martyam ǀ riṣaḥ ǁ5.67.3 Aṣṭaka 4.4.5.3Anuvāka 5.5.89
-
Ṛk 4
ते हि स॒त्या ऋ॑त॒स्पृश॑ ऋ॒तावा॑नो॒ जने॑जने ।
सु॒नी॒थासः॑ सु॒दान॑वो॒ऽंहोश्चि॑दुरु॒चक्र॑यः ॥ते हि सत्या ऋतस्पृश ऋतावानो जने-जने |
सुनीथासः सुदानवो ऽंहोश् चिद् उरुचक्रयः ||té hí satyā́ ṛtaspṛ́śa ṛtā́vāno jánejane ǀ
sunīthā́saḥ sudā́navo’ṃhóścidurucákrayaḥ ǁte hi satyā ṛtaspṛśa ṛtāvāno jane-jane |
sunīthāsaḥ sudānavo 'ṃhoś cid urucakrayaḥ ||ते । हि । स॒त्याः । ऋ॒त॒ऽस्पृशः॑ । ऋ॒तऽवा॑नः । जने॑ऽजने ।
सु॒ऽनी॒थासः॑ । सु॒ऽदान॑वः । अं॒होः । चि॒त् । उ॒रु॒ऽचक्र॑यः ॥ते । हि । सत्याः । ऋतऽस्पृशः । ऋतऽवानः । जनेऽजने ।
सुऽनीथासः । सुऽदानवः । अंहोः । चित् । उरुऽचक्रयः ॥té ǀ hí ǀ satyā́ḥ ǀ ṛta-spṛ́śaḥ ǀ ṛtá-vānaḥ ǀ jáne-jane ǀ
su-nīthā́saḥ ǀ su-dā́navaḥ ǀ aṃhóḥ ǀ cit ǀ uru-cákrayaḥ ǁte ǀ hi ǀ satyāḥ ǀ ṛta-spṛśaḥ ǀ ṛta-vānaḥ ǀ jane-jane ǀ
su-nīthāsaḥ ǀ su-dānavaḥ ǀ aṃhoḥ ǀ cit ǀ uru-cakrayaḥ ǁ5.67.4 Aṣṭaka 4.4.5.4Anuvāka 5.5.90
-
Ṛk 5
को नु वां॑ मि॒त्रास्तु॑तो॒ वरु॑णो वा त॒नूनां॑ ।
तत्सु वा॒मेष॑ते म॒तिरत्रि॑भ्य॒ एष॑ते म॒तिः ॥को नु वाम् मित्रास्तुतो वरुणो वा तनूनाम् |
तत् सु वाम् एषते मतिर् अत्रिभ्य एषते मतिः ||kó nú vām mitrā́stuto váruṇo vā tanū́nām ǀ
tátsú vāméṣate matírátribhya éṣate matíḥ ǁko nu vām mitrāstuto varuṇo vā tanūnām |
tat su vām eṣate matir atribhya eṣate matiḥ ||कः । नु । वा॒म् । मि॒त्र॒ । अस्तु॑तः । वरु॑णः । वा॒ । त॒नूना॑म् ।
तत् । सु । वा॒म् । आ । ई॒ष॒ते॒ । म॒तिः । अत्रि॑ऽभ्यः । आ । ई॒ष॒ते॒ । म॒तिः ॥कः । नु । वाम् । मित्र । अस्तुतः । वरुणः । वा । तनूनाम् ।
तत् । सु । वाम् । आ । ईषते । मतिः । अत्रिऽभ्यः । आ । ईषते । मतिः ॥káḥ ǀ nú ǀ vām ǀ mitra ǀ ástutaḥ ǀ váruṇaḥ ǀ vā ǀ tanū́nām ǀ
tát ǀ sú ǀ vām ǀ ā́ ǀ īṣate ǀ matíḥ ǀ átri-bhyaḥ ǀ ā́ ǀ īṣate ǀ matíḥ ǁkaḥ ǀ nu ǀ vām ǀ mitra ǀ astutaḥ ǀ varuṇaḥ ǀ vā ǀ tanūnām ǀ
tat ǀ su ǀ vām ǀ ā ǀ īṣate ǀ matiḥ ǀ atri-bhyaḥ ǀ ā ǀ īṣate ǀ matiḥ ǁ5.67.5 Aṣṭaka 4.4.5.5Anuvāka 5.5.91
Text, recitation and interpretations from the Ṛgveda database of theveda.org.in.