Sūkta 41
- Devatā देवता
- Viśvedevās
- Ṛṣi ऋषि
- Atri Bhauma
- Chandas छन्दस्
- Triṣṭubh, Atijagatī, Ekapadā Virāj
Metres by ṛk
1st set of styles triṣṭup (1, 2, 6, 15, 18); paṅktiḥ (3, 7, 8, 14, 19); bhurikpaṅkti (5, 9-12); virāṭtrisṭup (4, 13); jagatī (16); nicṛjjagatī (17); yājuṣīpaṅkti (20)
2nd set of styles triṣṭubh (1-15, 18, 19); atijagatī (16, 17); ekapadā virāj (20)
-
Ṛk 1
को नु वां॑ मित्रावरुणावृता॒यंदि॒वो वा॑ म॒हः पार्थि॑वस्य वा॒ दे ।
ऋ॒तस्य॑ वा॒ सद॑सि॒ त्रासी॑थां नो यज्ञाय॒ते वा॑ पशु॒षो न वाजा॑न् ॥को नु वाम् मित्रावरुणाव् ऋतायन् दिवो वा महः पार्थिवस्य वा दे |
ऋतस्य वा सदसि त्रासीथां नो यज्ञायते वा पशुषो न वाजान् ||kó nú vām mitrāvaruṇāvṛtāyándivó vā maháḥ pā́rthivasya vā dé ǀ
ṛtásya vā sádasi trā́sīthām no yajñāyaté vā paśuṣó ná vā́jān ǁko nu vām mitrāvaruṇāv ṛtāyan divo vā mahaḥ pārthivasya vā de |
ṛtasya vā sadasi trāsīthāṃ no yajñāyate vā paśuṣo na vājān ||कः । नु । वा॒म् । मि॒त्रा॒व॒रु॒णौ॒ । ऋ॒त॒ऽयन् । दि॒वः । वा॒ । म॒हः । पार्थि॑वस्य । वा॒ । दे ।
ऋ॒तस्य॑ । वा॒ । सद॑सि । त्रासी॑थाम् । नः॒ । य॒ज्ञ॒ऽय॒ते । वा॒ । प॒शु॒ऽसः । न । वाजा॑न् ॥कः । नु । वाम् । मित्रावरुणौ । ऋतऽयन् । दिवः । वा । महः । पार्थिवस्य । वा । दे ।
ऋतस्य । वा । सदसि । त्रासीथाम् । नः । यज्ञऽयते । वा । पशुऽसः । न । वाजान् ॥káḥ ǀ nú ǀ vām ǀ mitrāvaruṇau ǀ ṛta-yán ǀ diváḥ ǀ vā ǀ maháḥ ǀ pā́rthivasya ǀ vā ǀ dé ǀ
ṛtásya ǀ vā ǀ sádasi ǀ trā́sīthām ǀ naḥ ǀ yajña-yaté ǀ vā ǀ paśu-sáḥ ǀ ná ǀ vā́jān ǁkaḥ ǀ nu ǀ vām ǀ mitrāvaruṇau ǀ ṛta-yan ǀ divaḥ ǀ vā ǀ mahaḥ ǀ pārthivasya ǀ vā ǀ de ǀ
ṛtasya ǀ vā ǀ sadasi ǀ trāsīthām ǀ naḥ ǀ yajña-yate ǀ vā ǀ paśu-saḥ ǀ na ǀ vājān ǁ5.41.1 Aṣṭaka 4.2.13.1Anuvāka 5.3.58
-
Ṛk 2
ते नो॑ मि॒त्रो वरु॑णो अर्य॒मायुरिंद्र॑ ऋभु॒क्षा म॒रुतो॑ जुषंत ।
नमो॑भिर्वा॒ ये दध॑ते सुवृ॒क्तिं स्तोमं॑ रु॒द्राय॑ मी॒ळ्हुषे॑ स॒जोषाः॑ ॥ते नो मित्रो वरुणो अर्यमायुर् इन्द्र ऋभुक्षा मरुतो जुषन्त |
नमोभिर् वा ये दधते सुवृक्तिं स्तोमं रुद्राय मीऌहुषे सजोषाः ||té no mitró váruṇo aryamā́yúríndra ṛbhukṣā́ marúto juṣanta ǀ
námobhirvā yé dádhate suvṛktím stómam rudrā́ya mīḷhúṣe sajóṣāḥ ǁte no mitro varuṇo aryamāyur indra ṛbhukṣā maruto juṣanta |
namobhir vā ye dadhate suvṛktiṃ stomaṃ rudrāya mīḷhuṣe sajoṣāḥ ||ते । नः॒ । मि॒त्रः । वरु॑णः । अ॒र्य॒मा । आ॒युः । इन्द्रः॑ । ऋ॒भु॒क्षाः । म॒रुतः॑ । जु॒ष॒न्त॒ ।
नमः॑ऽभिः । वा॒ । ये । दध॑ते । सु॒ऽवृ॒क्तिम् । स्तोम॑म् । रु॒द्राय॑ । मी॒ळ्हुषे॑ । स॒ऽजोषाः॑ ॥ते । नः । मित्रः । वरुणः । अर्यमा । आयुः । इन्द्रः । ऋभुक्षाः । मरुतः । जुषन्त ।
नमःऽभिः । वा । ये । दधते । सुऽवृक्तिम् । स्तोमम् । रुद्राय । मीळ्हुषे । सऽजोषाः ॥té ǀ naḥ ǀ mitráḥ ǀ váruṇaḥ ǀ aryamā́ ǀ āyúḥ ǀ índraḥ ǀ ṛbhukṣā́ḥ ǀ marútaḥ ǀ juṣanta ǀ
námaḥ-bhiḥ ǀ vā ǀ yé ǀ dádhate ǀ su-vṛktím ǀ stómam ǀ rudrā́ya ǀ mīḷhúṣe ǀ sa-jóṣāḥ ǁte ǀ naḥ ǀ mitraḥ ǀ varuṇaḥ ǀ aryamā ǀ āyuḥ ǀ indraḥ ǀ ṛbhukṣāḥ ǀ marutaḥ ǀ juṣanta ǀ
namaḥ-bhiḥ ǀ vā ǀ ye ǀ dadhate ǀ su-vṛktim ǀ stomam ǀ rudrāya ǀ mīḷhuṣe ǀ sa-joṣāḥ ǁ5.41.2 Aṣṭaka 4.2.13.2Anuvāka 5.3.59
-
Ṛk 3
आ वां॒ येष्ठा॑श्विना हु॒वध्यै॒ वात॑स्य॒ पत्म॒न्रथ्य॑स्य पु॒ष्टौ ।
उ॒त वा॑ दि॒वो असु॑राय॒ मन्म॒ प्रांधां॑सीव॒ यज्य॑वे भरध्वं ॥आ वां येष्ठाश्विना हुवध्यै वातस्य पत्मन् रथ्यस्य पुष्टौ |
उत वा दिवो असुराय मन्म प्रान्धांसीव यज्यवे भरध्वम् ||ā́ vām yéṣṭhāśvinā huvádhyai vā́tasya pátmanráthyasya puṣṭáu ǀ
utá vā divó ásurāya mánma prā́ndhāṃsīva yájyave bharadhvam ǁā vāṃ yeṣṭhāśvinā huvadhyai vātasya patman rathyasya puṣṭau |
uta vā divo asurāya manma prāndhāṃsīva yajyave bharadhvam ||आ । वा॒म् । येष्ठा॑ । अ॒श्वि॒ना॒ । हु॒वध्यै॑ । वात॑स्य । पत्म॑न् । रथ्य॑स्य । पु॒ष्टौ ।
उ॒त । वा॒ । दि॒वः । असु॑राय । मन्म॑ । प्र । अन्धां॑सिऽइव । यज्य॑वे । भ॒र॒ध्व॒म् ॥आ । वाम् । येष्ठा । अश्विना । हुवध्यै । वातस्य । पत्मन् । रथ्यस्य । पुष्टौ ।
उत । वा । दिवः । असुराय । मन्म । प्र । अन्धांसिऽइव । यज्यवे । भरध्वम् ॥ā́ ǀ vām ǀ yéṣṭhā ǀ aśvinā ǀ huvádhyai ǀ vā́tasya ǀ pátman ǀ ráthyasya ǀ puṣṭáu ǀ
utá ǀ vā ǀ diváḥ ǀ ásurāya ǀ mánma ǀ prá ǀ ándhāṃsi-iva ǀ yájyave ǀ bharadhvam ǁā ǀ vām ǀ yeṣṭhā ǀ aśvinā ǀ huvadhyai ǀ vātasya ǀ patman ǀ rathyasya ǀ puṣṭau ǀ
uta ǀ vā ǀ divaḥ ǀ asurāya ǀ manma ǀ pra ǀ andhāṃsi-iva ǀ yajyave ǀ bharadhvam ǁ5.41.3 Aṣṭaka 4.2.13.3Anuvāka 5.3.60
-
Ṛk 4
प्र स॒क्षणो॑ दि॒व्यः कण्व॑होता त्रि॒तो दि॒वः स॒जोषा॒ वातो॑ अ॒ग्निः ।
पू॒षा भगः॑ प्रभृ॒थे वि॒श्वभो॑जा आ॒जिं न ज॑ग्मुरा॒श्व॑श्वतमाः ॥प्र सक्षणो दिव्यः कण्वहोता त्रितो दिवः सजोषा वातो अग्निः |
पूषा भगः प्रभृथे विश्वभोजा आजिं न जग्मुर् आश्वश्वतमाः ||prá sakṣáṇo divyáḥ káṇvahotā tritó diváḥ sajóṣā vā́to agníḥ ǀ
pūṣā́ bhágaḥ prabhṛthé viśvábhojā ājím ná jagmurāśváśvatamāḥ ǁpra sakṣaṇo divyaḥ kaṇvahotā trito divaḥ sajoṣā vāto agniḥ |
pūṣā bhagaḥ prabhṛthe viśvabhojā ājiṃ na jagmur āśvaśvatamāḥ ||प्र । स॒क्षणः॑ । दि॒व्यः । कण्व॑ऽहोता । त्रि॒तः । दि॒वः । स॒ऽजोषाः॑ । वातः॑ । अ॒ग्निः ।
पू॒षा । भगः॑ । प्र॒ऽभृ॒थे । वि॒श्वऽभो॑जाः । आ॒जिम् । न । ज॒ग्मुः॒ । आ॒श्व॑श्वऽतमाः ॥प्र । सक्षणः । दिव्यः । कण्वऽहोता । त्रितः । दिवः । सऽजोषाः । वातः । अग्निः ।
पूषा । भगः । प्रऽभृथे । विश्वऽभोजाः । आजिम् । न । जग्मुः । आश्वश्वऽतमाः ॥prá ǀ sakṣáṇaḥ ǀ divyáḥ ǀ káṇva-hotā ǀ tritáḥ ǀ diváḥ ǀ sa-jóṣāḥ ǀ vā́taḥ ǀ agníḥ ǀ
pūṣā́ ǀ bhágaḥ ǀ pra-bhṛthé ǀ viśvá-bhojāḥ ǀ ājím ǀ ná ǀ jagmuḥ ǀ āśváśva-tamāḥ ǁpra ǀ sakṣaṇaḥ ǀ divyaḥ ǀ kaṇva-hotā ǀ tritaḥ ǀ divaḥ ǀ sa-joṣāḥ ǀ vātaḥ ǀ agniḥ ǀ
pūṣā ǀ bhagaḥ ǀ pra-bhṛthe ǀ viśva-bhojāḥ ǀ ājim ǀ na ǀ jagmuḥ ǀ āśvaśva-tamāḥ ǁ5.41.4 Aṣṭaka 4.2.13.4Anuvāka 5.3.61
-
Ṛk 5
प्र वो॑ र॒यिं यु॒क्ताश्वं॑ भरध्वं रा॒य एषेऽव॑से दधीत॒ धीः ।
सु॒शेव॒ एवै॑रौशि॒जस्य॒ होता॒ ये व॒ एवा॑ मरुतस्तु॒राणां॑ ॥प्र वो रयिं युक्ताश्वम् भरध्वं राय एषे ऽवसे दधीत धीः |
सुशेव एवैर् औशिजस्य होता ये व एवा मरुतस् तुराणाम् ||prá vo rayím yuktā́śvam bharadhvam rāyá éṣé’vase dadhīta dhī́ḥ ǀ
suśéva évairauśijásya hótā yé va évā marutasturā́ṇām ǁpra vo rayiṃ yuktāśvam bharadhvaṃ rāya eṣe 'vase dadhīta dhīḥ |
suśeva evair auśijasya hotā ye va evā marutas turāṇām ||प्र । वः॒ । र॒यिम् । यु॒क्तऽअ॑श्वम् । भ॒र॒ध्व॒म् । रा॒यः । एषे॑ । अव॑से । द॒धी॒त॒ । धीः ।
सु॒ऽशेवः॑ । एवैः॑ । औ॒शि॒जस्य॑ । होता॑ । ये । वः॒ । एवाः॑ । म॒रु॒तः॒ । तु॒राणा॑म् ॥प्र । वः । रयिम् । युक्तऽअश्वम् । भरध्वम् । रायः । एषे । अवसे । दधीत । धीः ।
सुऽशेवः । एवैः । औशिजस्य । होता । ये । वः । एवाः । मरुतः । तुराणाम् ॥prá ǀ vaḥ ǀ rayím ǀ yuktá-aśvam ǀ bharadhvam ǀ rāyáḥ ǀ éṣe ǀ ávase ǀ dadhīta ǀ dhī́ḥ ǀ
su-śévaḥ ǀ évaiḥ ǀ auśijásya ǀ hótā ǀ yé ǀ vaḥ ǀ évāḥ ǀ marutaḥ ǀ turā́ṇām ǁpra ǀ vaḥ ǀ rayim ǀ yukta-aśvam ǀ bharadhvam ǀ rāyaḥ ǀ eṣe ǀ avase ǀ dadhīta ǀ dhīḥ ǀ
su-śevaḥ ǀ evaiḥ ǀ auśijasya ǀ hotā ǀ ye ǀ vaḥ ǀ evāḥ ǀ marutaḥ ǀ turāṇām ǁ5.41.5 Aṣṭaka 4.2.13.5Anuvāka 5.3.62
-
Ṛk 6
प्र वो॑ वा॒युं र॑थ॒युजं॑ कृणुध्वं॒ प्र दे॒वं विप्रं॑ पनि॒तार॑म॒र्कैः ।
इ॒षु॒ध्यव॑ ऋत॒सापः॒ पुरं॑धी॒र्वस्वी॑र्नो॒ अत्र॒ पत्नी॒रा धि॒ये धुः॑ ॥प्र वो वायुं रथयुजं कृणुध्वम् प्र देवं विप्रम् पनितारम् अर्कैः |
इषुध्यव ऋतसापः पुरन्धीर् वस्वीर् नो अत्र पत्नीर् आ धिये धुः ||prá vo vāyúm rathayújam kṛṇudhvam prá devám vípram panitā́ramarkáiḥ ǀ
iṣudhyáva ṛtasā́paḥ púraṃdhīrvásvīrno átra pátnīrā́ dhiyé dhuḥ ǁpra vo vāyuṃ rathayujaṃ kṛṇudhvam pra devaṃ vipram panitāram arkaiḥ |
iṣudhyava ṛtasāpaḥ purandhīr vasvīr no atra patnīr ā dhiye dhuḥ ||प्र । वः॒ । वा॒युम् । र॒थ॒ऽयुज॑म् । कृ॒णु॒ध्व॒म् । प्र । दे॒वम् । विप्र॑म् । प॒नि॒तार॑म् । अ॒र्कैः ।
इ॒षु॒ध्यवः॑ । ऋ॒त॒ऽसापः॑ । पुर॑म्ऽधीः । वस्वीः॑ । नः॒ । अत्र॑ । पत्नीः॑ । आ । धि॒ये । धु॒रिति॑ धुः ॥प्र । वः । वायुम् । रथऽयुजम् । कृणुध्वम् । प्र । देवम् । विप्रम् । पनितारम् । अर्कैः ।
इषुध्यवः । ऋतऽसापः । पुरम्ऽधीः । वस्वीः । नः । अत्र । पत्नीः । आ । धिये । धुरिति धुः ॥prá ǀ vaḥ ǀ vāyúm ǀ ratha-yújam ǀ kṛṇudhvam ǀ prá ǀ devám ǀ vípram ǀ panitā́ram ǀ arkáiḥ ǀ
iṣudhyávaḥ ǀ ṛta-sā́paḥ ǀ púram-dhīḥ ǀ vásvīḥ ǀ naḥ ǀ átra ǀ pátnīḥ ǀ ā́ ǀ dhiyé ǀ dhuríti dhuḥ ǁpra ǀ vaḥ ǀ vāyum ǀ ratha-yujam ǀ kṛṇudhvam ǀ pra ǀ devam ǀ vipram ǀ panitāram ǀ arkaiḥ ǀ
iṣudhyavaḥ ǀ ṛta-sāpaḥ ǀ puram-dhīḥ ǀ vasvīḥ ǀ naḥ ǀ atra ǀ patnīḥ ǀ ā ǀ dhiye ǀ dhuriti dhuḥ ǁ5.41.6 Aṣṭaka 4.2.14.1Anuvāka 5.3.63
-
Ṛk 7
उप॑ व॒ एषे॒ वंद्ये॑भिः शू॒षैः प्र य॒ह्वी दि॒वश्चि॒तय॑द्भिर॒र्कैः ।
उ॒षासा॒नक्ता॑ वि॒दुषी॑व॒ विश्व॒मा हा॑ वहतो॒ मर्त्या॑य य॒ज्ञं ॥उप व एषे वन्द्येभिः शूषैः प्र यह्वी दिवश् चितयद्भिर् अर्कैः |
उषासानक्ता विदुषीव विश्वम् आ हा वहतो मर्त्याय यज्ञम् ||úpa va éṣe vándyebhiḥ śūṣáiḥ prá yahvī́ diváścitáyadbhirarkáiḥ ǀ
uṣā́sānáktā vidúṣīva víśvamā́ hā vahato mártyāya yajñám ǁupa va eṣe vandyebhiḥ śūṣaiḥ pra yahvī divaś citayadbhir arkaiḥ |
uṣāsānaktā viduṣīva viśvam ā hā vahato martyāya yajñam ||उप॑ । वः॒ । एषे॑ । वन्द्ये॑भिः । शू॒षैः । प्र । य॒ह्वी इति॑ । दि॒वः । चि॒तय॑त्ऽभिः । अ॒र्कैः ।
उ॒षसा॒नक्ता॑ । वि॒दुषी॑ इ॒वेति॑ वि॒दुषी॑ऽइव । विश्व॑म् । आ । ह॒ । व॒ह॒तः॒ । मर्त्या॑य । य॒ज्ञम् ॥उप । वः । एषे । वन्द्येभिः । शूषैः । प्र । यह्वी इति । दिवः । चितयत्ऽभिः । अर्कैः ।
उषसानक्ता । विदुषी इवेति विदुषीऽइव । विश्वम् । आ । ह । वहतः । मर्त्याय । यज्ञम् ॥úpa ǀ vaḥ ǀ éṣe ǀ vándyebhiḥ ǀ śūṣáiḥ ǀ prá ǀ yahvī́ íti ǀ diváḥ ǀ citáyat-bhiḥ ǀ arkáiḥ ǀ
uṣásānáktā ǀ vidúṣī ivéti vidúṣī-iva ǀ víśvam ǀ ā́ ǀ ha ǀ vahataḥ ǀ mártyāya ǀ yajñám ǁupa ǀ vaḥ ǀ eṣe ǀ vandyebhiḥ ǀ śūṣaiḥ ǀ pra ǀ yahvī iti ǀ divaḥ ǀ citayat-bhiḥ ǀ arkaiḥ ǀ
uṣasānaktā ǀ viduṣī iveti viduṣī-iva ǀ viśvam ǀ ā ǀ ha ǀ vahataḥ ǀ martyāya ǀ yajñam ǁ5.41.7 Aṣṭaka 4.2.14.2Anuvāka 5.3.64
-
Ṛk 8
अ॒भि वो॑ अर्चे पो॒ष्याव॑तो॒ नॄन्वास्तो॒ष्पतिं॒ त्वष्टा॑रं॒ ररा॑णः ।
धन्या॑ स॒जोषा॑ धि॒षणा॒ नमो॑भि॒र्वन॒स्पतीँ॒रोष॑धी रा॒य एषे॑ ॥अभि वो अर्चे पोष्यावतो नॄन् वास्तोष् पतिं त्वष्टारं रराणः |
धन्या सजोषा धिषणा नमोभिर् वनस्पतींर् ओषधी राय एषे ||abhí vo arce poṣyā́vato nṝ́nvā́stoṣpátim tváṣṭāram rárāṇaḥ ǀ
dhányā sajóṣā dhiṣáṇā námobhirvánaspátīm̐róṣadhī rāyá éṣe ǁabhi vo arce poṣyāvato nṝn vāstoṣ patiṃ tvaṣṭāraṃ rarāṇaḥ |
dhanyā sajoṣā dhiṣaṇā namobhir vanaspatīṃr oṣadhī rāya eṣe ||अ॒भि । वः॒ । अ॒र्चे॒ । पो॒ष्याऽव॑तः । नॄन् । वास्तोः॑ । पति॑म् । त्वष्टा॑रम् । ररा॑णः ।
धन्या॑ । स॒ऽजोषाः॑ । धि॒षणा॑ । नमः॑ऽभिः । वन॒स्पती॑न् । ओष॑धीः । रा॒यः । एषे॑ ॥अभि । वः । अर्चे । पोष्याऽवतः । नॄन् । वास्तोः । पतिम् । त्वष्टारम् । रराणः ।
धन्या । सऽजोषाः । धिषणा । नमःऽभिः । वनस्पतीन् । ओषधीः । रायः । एषे ॥abhí ǀ vaḥ ǀ arce ǀ poṣyā́-vataḥ ǀ nṝ́n ǀ vā́stoḥ ǀ pátim ǀ tváṣṭāram ǀ rárāṇaḥ ǀ
dhányā ǀ sa-jóṣāḥ ǀ dhiṣáṇā ǀ námaḥ-bhiḥ ǀ vánaspátīn ǀ óṣadhīḥ ǀ rāyáḥ ǀ éṣe ǁabhi ǀ vaḥ ǀ arce ǀ poṣyā-vataḥ ǀ nṝn ǀ vāstoḥ ǀ patim ǀ tvaṣṭāram ǀ rarāṇaḥ ǀ
dhanyā ǀ sa-joṣāḥ ǀ dhiṣaṇā ǀ namaḥ-bhiḥ ǀ vanaspatīn ǀ oṣadhīḥ ǀ rāyaḥ ǀ eṣe ǁ5.41.8 Aṣṭaka 4.2.14.3Anuvāka 5.3.65
-
Ṛk 9
तु॒जे न॒स्तने॒ पर्व॑ताः संतु॒ स्वैत॑वो॒ ये वस॑वो॒ न वी॒राः ।
प॒नि॒त आ॒प्त्यो य॑ज॒तः सदा॑ नो॒ वर्धा॑न्नः॒ शंसं॒ नर्यो॑ अ॒भिष्टौ॑ ॥तुजे नस् तने पर्वताः सन्तु स्वैतवो ये वसवो न वीराः |
पनित आप्त्यो यजतः सदा नो वर्धान् नः शंसं नर्यो अभिष्टौ ||tujé nastáne párvatāḥ santu sváitavo yé vásavo ná vīrā́ḥ ǀ
panitá āptyó yajatáḥ sádā no várdhānnaḥ śáṃsam náryo abhíṣṭau ǁtuje nas tane parvatāḥ santu svaitavo ye vasavo na vīrāḥ |
panita āptyo yajataḥ sadā no vardhān naḥ śaṃsaṃ naryo abhiṣṭau ||तु॒जे । नः॒ । तने॑ । पर्व॑ताः । स॒न्तु॒ । स्वऽए॑तवः । ये । वस॑वः । न । वी॒राः ।
प॒नि॒तः । आ॒प्त्यः । य॒ज॒तः । सदा॑ । नः॒ । वर्धा॑त् । नः॒ । शंस॑म् । नर्यः॑ । अ॒भिष्टौ॑ ॥तुजे । नः । तने । पर्वताः । सन्तु । स्वऽएतवः । ये । वसवः । न । वीराः ।
पनितः । आप्त्यः । यजतः । सदा । नः । वर्धात् । नः । शंसम् । नर्यः । अभिष्टौ ॥tujé ǀ naḥ ǀ táne ǀ párvatāḥ ǀ santu ǀ svá-etavaḥ ǀ yé ǀ vásavaḥ ǀ ná ǀ vīrā́ḥ ǀ
panitáḥ ǀ āptyáḥ ǀ yajatáḥ ǀ sádā ǀ naḥ ǀ várdhāt ǀ naḥ ǀ śáṃsam ǀ náryaḥ ǀ abhíṣṭau ǁtuje ǀ naḥ ǀ tane ǀ parvatāḥ ǀ santu ǀ sva-etavaḥ ǀ ye ǀ vasavaḥ ǀ na ǀ vīrāḥ ǀ
panitaḥ ǀ āptyaḥ ǀ yajataḥ ǀ sadā ǀ naḥ ǀ vardhāt ǀ naḥ ǀ śaṃsam ǀ naryaḥ ǀ abhiṣṭau ǁ5.41.9 Aṣṭaka 4.2.14.4Anuvāka 5.3.66
-
Ṛk 10
वृष्णो॑ अस्तोषि भू॒म्यस्य॒ गर्भं॑ त्रि॒तो नपा॑तम॒पां सु॑वृ॒क्ति ।
गृ॒णी॒ते अ॒ग्निरे॒तरी॒ न शू॒षैः शो॒चिष्के॑शो॒ नि रि॑णाति॒ वना॑ ॥वृष्णो अस्तोषि भूम्यस्य गर्भं त्रितो नपातम् अपां सुवृक्ति |
गृणीते अग्निर् एतरी न शूषैः शोचिष्केशो नि रिणाति वना ||vṛ́ṣṇo astoṣi bhūmyásya gárbham tritó nápātamapā́m suvṛktí ǀ
gṛṇīté agníretárī ná śūṣáiḥ śocíṣkeśo ní riṇāti vánā ǁvṛṣṇo astoṣi bhūmyasya garbhaṃ trito napātam apāṃ suvṛkti |
gṛṇīte agnir etarī na śūṣaiḥ śociṣkeśo ni riṇāti vanā ||वृष्णः॑ । अ॒स्तो॒षि॒ । भू॒म्यस्य॑ । गर्भ॑म् । त्रि॒तः । नपा॑तम् । अ॒पाम् । सु॒ऽवृ॒क्ति ।
गृ॒णी॒ते । अ॒ग्निः । ए॒तरि॑ । न । शू॒षैः । शो॒चिःऽके॑शः । नि । रि॒णा॒ति॒ । वना॑ ॥वृष्णः । अस्तोषि । भूम्यस्य । गर्भम् । त्रितः । नपातम् । अपाम् । सुऽवृक्ति ।
गृणीते । अग्निः । एतरि । न । शूषैः । शोचिःऽकेशः । नि । रिणाति । वना ॥vṛ́ṣṇaḥ ǀ astoṣi ǀ bhūmyásya ǀ gárbham ǀ tritáḥ ǀ nápātam ǀ apā́m ǀ su-vṛktí ǀ
gṛṇīté ǀ agníḥ ǀ etári ǀ ná ǀ śūṣáiḥ ǀ śocíḥ-keśaḥ ǀ ní ǀ riṇāti ǀ vánā ǁvṛṣṇaḥ ǀ astoṣi ǀ bhūmyasya ǀ garbham ǀ tritaḥ ǀ napātam ǀ apām ǀ su-vṛkti ǀ
gṛṇīte ǀ agniḥ ǀ etari ǀ na ǀ śūṣaiḥ ǀ śociḥ-keśaḥ ǀ ni ǀ riṇāti ǀ vanā ǁ5.41.10 Aṣṭaka 4.2.14.5Anuvāka 5.3.67
-
Ṛk 11
क॒था म॒हे रु॒द्रिया॑य ब्रवाम॒ कद्रा॒ये चि॑कि॒तुषे॒ भगा॑य ।
आप॒ ओष॑धीरु॒त नो॑ऽवंतु॒ द्यौर्वना॑ गि॒रयो॑ वृ॒क्षके॑शाः ॥कथा महे रुद्रियाय ब्रवाम कद् राये चिकितुषे भगाय |
आप ओषधीर् उत नो ऽवन्तु द्यौर् वना गिरयो वृक्षकेशाः ||kathā́ mahé rudríyāya bravāma kádrāyé cikitúṣe bhágāya ǀ
ā́pa óṣadhīrutá no’vantu dyáurvánā giráyo vṛkṣákeśāḥ ǁkathā mahe rudriyāya bravāma kad rāye cikituṣe bhagāya |
āpa oṣadhīr uta no 'vantu dyaur vanā girayo vṛkṣakeśāḥ ||क॒था । म॒हे । रु॒द्रिया॑य । ब्र॒वा॒म॒ । कत् । रा॒ये । चि॒कि॒तुषे॑ । भगा॑य ।
आपः॑ । ओष॑धीः । उ॒त । नः॒ । अ॒व॒न्तु॒ । द्यौः । वना॑ । गि॒रयः॑ । वृ॒क्षऽके॑शाः ॥कथा । महे । रुद्रियाय । ब्रवाम । कत् । राये । चिकितुषे । भगाय ।
आपः । ओषधीः । उत । नः । अवन्तु । द्यौः । वना । गिरयः । वृक्षऽकेशाः ॥kathā́ ǀ mahé ǀ rudríyāya ǀ bravāma ǀ kát ǀ rāyé ǀ cikitúṣe ǀ bhágāya ǀ
ā́paḥ ǀ óṣadhīḥ ǀ utá ǀ naḥ ǀ avantu ǀ dyáuḥ ǀ vánā ǀ giráyaḥ ǀ vṛkṣá-keśāḥ ǁkathā ǀ mahe ǀ rudriyāya ǀ bravāma ǀ kat ǀ rāye ǀ cikituṣe ǀ bhagāya ǀ
āpaḥ ǀ oṣadhīḥ ǀ uta ǀ naḥ ǀ avantu ǀ dyauḥ ǀ vanā ǀ girayaḥ ǀ vṛkṣa-keśāḥ ǁ5.41.11 Aṣṭaka 4.2.15.1Anuvāka 5.3.68
-
Ṛk 12
शृ॒णोतु॑ न ऊ॒र्जां पति॒र्गिरः॒ स नभ॒स्तरी॑याँ इषि॒रः परि॑ज्मा ।
शृ॒ण्वंत्वापः॒ पुरो॒ न शु॒भ्राः परि॒ स्रुचो॑ बबृहा॒णस्याद्रेः॑ ॥शृणोतु न ऊर्जाम् पतिर् गिरः स नभस् तरीयां इषिरः परिज्मा |
शृण्वन्त्व् आपः पुरो न शुभ्राः परि स्रुचो बबृहाणस्याद्रेः ||śṛṇótu na ūrjā́m pátirgíraḥ sá nábhastárīyām̐ iṣiráḥ párijmā ǀ
śṛṇvántvā́paḥ púro ná śubhrā́ḥ pári srúco babṛhāṇásyā́dreḥ ǁśṛṇotu na ūrjām patir giraḥ sa nabhas tarīyāṃ iṣiraḥ parijmā |
śṛṇvantv āpaḥ puro na śubhrāḥ pari sruco babṛhāṇasyādreḥ ||शृ॒णोतु॑ । नः॒ । ऊ॒र्जाम् । पतिः॑ । गिरः॑ । सः । नभः॑ । तरी॑यान् । इ॒षि॒रः । परि॑ऽज्मा ।
शृ॒ण्वन्तु॑ । आपः॑ । पुरः॑ । न । शु॒भ्राः । परि॑ । स्रुचः॑ । ब॒बृ॒हा॒णस्य॑ । अद्रेः॑ ॥शृणोतु । नः । ऊर्जाम् । पतिः । गिरः । सः । नभः । तरीयान् । इषिरः । परिऽज्मा ।
शृण्वन्तु । आपः । पुरः । न । शुभ्राः । परि । स्रुचः । बबृहाणस्य । अद्रेः ॥śṛṇótu ǀ naḥ ǀ ūrjā́m ǀ pátiḥ ǀ gíraḥ ǀ sáḥ ǀ nábhaḥ ǀ tárīyān ǀ iṣiráḥ ǀ pári-jmā ǀ
śṛṇvántu ǀ ā́paḥ ǀ púraḥ ǀ ná ǀ śubhrā́ḥ ǀ pári ǀ srúcaḥ ǀ babṛhāṇásya ǀ ádreḥ ǁśṛṇotu ǀ naḥ ǀ ūrjām ǀ patiḥ ǀ giraḥ ǀ saḥ ǀ nabhaḥ ǀ tarīyān ǀ iṣiraḥ ǀ pari-jmā ǀ
śṛṇvantu ǀ āpaḥ ǀ puraḥ ǀ na ǀ śubhrāḥ ǀ pari ǀ srucaḥ ǀ babṛhāṇasya ǀ adreḥ ǁ5.41.12 Aṣṭaka 4.2.15.2Anuvāka 5.3.69
-
Ṛk 13
वि॒दा चि॒न्नु म॑हांतो॒ ये व॒ एवा॒ ब्रवा॑म दस्मा॒ वार्यं॒ दधा॑नाः ।
वय॑श्च॒न सु॒भ्व१॒॑ आव॑ यंति क्षु॒भा मर्त॒मनु॑यतं वध॒स्नैः ॥विदा चिन् नु महान्तो ये व एवा ब्रवाम दस्मा वार्यं दधानाः |
वयश् चन सुभ्व आव यन्ति क्षुभा मर्तम् अनुयतं वधस्नैः ||vidā́ cinnú mahānto yé va évā brávāma dasmā vā́ryam dádhānāḥ ǀ
váyaścaná subhvá ā́va yanti kṣubhā́ mártamánuyatam vadhasnáiḥ ǁvidā cin nu mahānto ye va evā bravāma dasmā vāryaṃ dadhānāḥ |
vayaś cana subhva āva yanti kṣubhā martam anuyataṃ vadhasnaiḥ ||वि॒द । चि॒त् । नु । म॒हा॒न्तः॒ । ये । वः॒ । एवाः॑ । ब्रवा॑म । द॒स्माः॒ । वार्य॑म् । दधा॑नाः ।
वयः॑ । च॒न । सु॒ऽभ्वः॑ । आ । अव॑ । य॒न्ति॒ । क्षु॒भा । मर्त॑म् । अनु॑ऽयतम् । व॒ध॒ऽस्नैः ॥विद । चित् । नु । महान्तः । ये । वः । एवाः । ब्रवाम । दस्माः । वार्यम् । दधानाः ।
वयः । चन । सुऽभ्वः । आ । अव । यन्ति । क्षुभा । मर्तम् । अनुऽयतम् । वधऽस्नैः ॥vidá ǀ cit ǀ nú ǀ mahāntaḥ ǀ yé ǀ vaḥ ǀ évāḥ ǀ brávāma ǀ dasmāḥ ǀ vā́ryam ǀ dádhānāḥ ǀ
váyaḥ ǀ caná ǀ su-bhváḥ ǀ ā́ ǀ áva ǀ yanti ǀ kṣubhā́ ǀ mártam ǀ ánu-yatam ǀ vadha-snáiḥ ǁvida ǀ cit ǀ nu ǀ mahāntaḥ ǀ ye ǀ vaḥ ǀ evāḥ ǀ bravāma ǀ dasmāḥ ǀ vāryam ǀ dadhānāḥ ǀ
vayaḥ ǀ cana ǀ su-bhvaḥ ǀ ā ǀ ava ǀ yanti ǀ kṣubhā ǀ martam ǀ anu-yatam ǀ vadha-snaiḥ ǁ5.41.13 Aṣṭaka 4.2.15.3Anuvāka 5.3.70
-
Ṛk 14
आ दैव्या॑नि॒ पार्थि॑वानि॒ जन्मा॒पश्चाच्छा॒ सुम॑खाय वोचं ।
वर्धं॑तां॒ द्यावो॒ गिर॑श्चं॒द्राग्रा॑ उ॒दा व॑र्धंताम॒भिषा॑ता॒ अर्णाः॑ ॥आ दैव्यानि पार्थिवानि जन्मापश् चाच्छा सुमखाय वोचम् |
वर्धन्तां द्यावो गिरश् चन्द्राग्रा उदा वर्धन्ताम् अभिषाता अर्णाः ||ā́ dáivyāni pā́rthivāni jánmāpáścā́cchā súmakhāya vocam ǀ
várdhantām dyā́vo gíraścandrā́grā udā́ vardhantāmabhíṣātā árṇāḥ ǁā daivyāni pārthivāni janmāpaś cācchā sumakhāya vocam |
vardhantāṃ dyāvo giraś candrāgrā udā vardhantām abhiṣātā arṇāḥ ||आ । दैव्या॑नि । पार्थि॑वानि । जन्म॑ । अ॒पः । च॒ । अच्छ॑ । सुऽम॑खाय । वो॒च॒म् ।
वर्ध॑न्ताम् । द्यावः॑ । गिरः॑ । च॒न्द्रऽअ॑ग्राः । उ॒दा । व॒र्ध॒न्ता॒म् । अ॒भिऽसा॑ताः । अर्णाः॑ ॥आ । दैव्यानि । पार्थिवानि । जन्म । अपः । च । अच्छ । सुऽमखाय । वोचम् ।
वर्धन्ताम् । द्यावः । गिरः । चन्द्रऽअग्राः । उदा । वर्धन्ताम् । अभिऽसाताः । अर्णाः ॥ā́ ǀ dáivyāni ǀ pā́rthivāni ǀ jánma ǀ apáḥ ǀ ca ǀ áccha ǀ sú-makhāya ǀ vocam ǀ
várdhantām ǀ dyā́vaḥ ǀ gíraḥ ǀ candrá-agrāḥ ǀ udā́ ǀ vardhantām ǀ abhí-sātāḥ ǀ árṇāḥ ǁā ǀ daivyāni ǀ pārthivāni ǀ janma ǀ apaḥ ǀ ca ǀ accha ǀ su-makhāya ǀ vocam ǀ
vardhantām ǀ dyāvaḥ ǀ giraḥ ǀ candra-agrāḥ ǀ udā ǀ vardhantām ǀ abhi-sātāḥ ǀ arṇāḥ ǁ5.41.14 Aṣṭaka 4.2.15.4Anuvāka 5.3.71
-
Ṛk 15
प॒देप॑दे मे जरि॒मा नि धा॑यि॒ वरू॑त्री वा श॒क्रा या पा॒युभि॑श्च ।
सिष॑क्तु मा॒ता म॒ही र॒सा नः॒ स्मत्सू॒रिभि॑र्ऋजु॒हस्त॑ ऋजु॒वनिः॑ ॥पदे-पदे मे जरिमा नि धायि वरूत्री वा शक्रा या पायुभिश् च |
सिषक्तु माता मही रसा नः स्मत् सूरिभिर् ऋजुहस्त ऋजुवनिः ||padépade me jarimā́ ní dhāyi várūtrī vā śakrā́ yā́ pāyúbhiśca ǀ
síṣaktu mātā́ mahī́ rasā́ naḥ smátsūríbhirṛjuhásta ṛjuvániḥ ǁpade-pade me jarimā ni dhāyi varūtrī vā śakrā yā pāyubhiś ca |
siṣaktu mātā mahī rasā naḥ smat sūribhir ṛjuhasta ṛjuvaniḥ ||प॒देऽप॑दे । मे॒ । ज॒रि॒मा । नि । धा॒यि॒ । वरू॑त्री । वा॒ । श॒क्रा । या । पा॒युऽभिः॑ । च॒ ।
सिस॑क्तु । मा॒ता । म॒ही । र॒सा । नः॒ । स्मत् । सू॒रिऽभिः॑ । ऋ॒जु॒ऽहस्ता॑ । ऋ॒जु॒ऽवनिः॑ ॥पदेऽपदे । मे । जरिमा । नि । धायि । वरूत्री । वा । शक्रा । या । पायुऽभिः । च ।
सिसक्तु । माता । मही । रसा । नः । स्मत् । सूरिऽभिः । ऋजुऽहस्ता । ऋजुऽवनिः ॥padé-pade ǀ me ǀ jarimā́ ǀ ní ǀ dhāyi ǀ várūtrī ǀ vā ǀ śakrā́ ǀ yā́ ǀ pāyú-bhiḥ ǀ ca ǀ
sísaktu ǀ mātā́ ǀ mahī́ ǀ rasā́ ǀ naḥ ǀ smát ǀ sūrí-bhiḥ ǀ ṛju-hástā ǀ ṛju-vániḥ ǁpade-pade ǀ me ǀ jarimā ǀ ni ǀ dhāyi ǀ varūtrī ǀ vā ǀ śakrā ǀ yā ǀ pāyu-bhiḥ ǀ ca ǀ
sisaktu ǀ mātā ǀ mahī ǀ rasā ǀ naḥ ǀ smat ǀ sūri-bhiḥ ǀ ṛju-hastā ǀ ṛju-vaniḥ ǁ5.41.15 Aṣṭaka 4.2.15.5Anuvāka 5.3.72
-
Ṛk 16
क॒था दा॑शेम॒ नम॑सा सु॒दानू॑नेव॒या म॒रुतो॒ अच्छो॑क्तौ॒ प्रश्र॑वसो म॒रुतो॒ अच्छो॑क्तौ ।
मा नोऽहि॑र्बु॒ध्न्यो॑ रि॒षे धा॑द॒स्माकं॑ भूदुपमाति॒वनिः॑ ॥कथा दाशेम नमसा सुदानून् एवया मरुतो अच्छोक्तौ प्रश्रवसो मरुतो अच्छोक्तौ |
मा नो ऽहिर् बुध्न्यो रिषे धाद् अस्माकम् भूद् उपमातिवनिः ||kathā́ dāśema námasā sudā́nūnevayā́ marúto ácchoktau práśravaso marúto ácchoktau ǀ
mā́ nó’hirbudhnyó riṣé dhādasmā́kam bhūdupamātivániḥ ǁkathā dāśema namasā sudānūn evayā maruto acchoktau praśravaso maruto acchoktau |
mā no 'hir budhnyo riṣe dhād asmākam bhūd upamātivaniḥ ||क॒था । दा॒शे॒म॒ । नम॑सा । सु॒ऽदानू॑न् । ए॒व॒ऽया । म॒रुतः॑ । अच्छ॑ऽउक्तौ । प्रऽश्र॑वसः । म॒रुतः॑ । अच्छ॑ऽउक्तौ ।
मा । नः॒ । अहिः॑ । बु॒ध्न्यः॑ । रि॒षे । धा॒त् । अ॒स्माक॑म् । भू॒त् । उ॒प॒मा॒ति॒ऽवनिः॑ ॥कथा । दाशेम । नमसा । सुऽदानून् । एवऽया । मरुतः । अच्छऽउक्तौ । प्रऽश्रवसः । मरुतः । अच्छऽउक्तौ ।
मा । नः । अहिः । बुध्न्यः । रिषे । धात् । अस्माकम् । भूत् । उपमातिऽवनिः ॥kathā́ ǀ dāśema ǀ námasā ǀ su-dā́nūn ǀ eva-yā́ ǀ marútaḥ ǀ áccha-uktau ǀ prá-śravasaḥ ǀ marútaḥ ǀ áccha-uktau ǀ
mā́ ǀ naḥ ǀ áhiḥ ǀ budhnyáḥ ǀ riṣé ǀ dhāt ǀ asmā́kam ǀ bhūt ǀ upamāti-vániḥ ǁkathā ǀ dāśema ǀ namasā ǀ su-dānūn ǀ eva-yā ǀ marutaḥ ǀ accha-uktau ǀ pra-śravasaḥ ǀ marutaḥ ǀ accha-uktau ǀ
mā ǀ naḥ ǀ ahiḥ ǀ budhnyaḥ ǀ riṣe ǀ dhāt ǀ asmākam ǀ bhūt ǀ upamāti-vaniḥ ǁ5.41.16 Aṣṭaka 4.2.16.1Anuvāka 5.3.73
-
Ṛk 17
इति॑ चि॒न्नु प्र॒जायै॑ पशु॒मत्यै॒ देवा॑सो॒ वन॑ते॒ मर्त्यो॑ व॒ आ दे॑वासो वनते॒ मर्त्यो॑ वः ।
अत्रा॑ शि॒वां त॒न्वो॑ धा॒सिम॒स्या ज॒रां चि॑न्मे॒ निर्ऋ॑तिर्जग्रसीत ॥इति चिन् नु प्रजायै पशुमत्यै देवासो वनते मर्त्यो व आ देवासो वनते मर्त्यो वः |
अत्रा शिवां तन्वो धासिम् अस्या जरां चिन् मे निरृतिर् जग्रसीत ||íti cinnú prajā́yai paśumátyai dévāso vánate mártyo va ā́ devāso vanate mártyo vaḥ ǀ
átrā śivā́m tanvó dhāsímasyā́ jarā́m cinme nírṛtirjagrasīta ǁiti cin nu prajāyai paśumatyai devāso vanate martyo va ā devāso vanate martyo vaḥ |
atrā śivāṃ tanvo dhāsim asyā jarāṃ cin me nirṛtir jagrasīta ||इति॑ । चि॒त् । नु । प्र॒ऽजायै॑ । प॒शु॒ऽमत्यै॑ । देवा॑सः । वन॑ते । मर्त्यः॑ । वः॒ । आ । दे॒वा॒सः॒ । व॒न॒ते॒ । मर्त्यः॑ । वः॒ ।
अत्र॑ । शि॒वाम् । त॒न्वः॑ । धा॒सिम् । अ॒स्याः । ज॒राम् । चि॒त् । मे॒ । निःऽऋ॑तिः । ज॒ग्र॒सी॒त॒ ॥इति । चित् । नु । प्रऽजायै । पशुऽमत्यै । देवासः । वनते । मर्त्यः । वः । आ । देवासः । वनते । मर्त्यः । वः ।
अत्र । शिवाम् । तन्वः । धासिम् । अस्याः । जराम् । चित् । मे । निःऽऋतिः । जग्रसीत ॥íti ǀ cit ǀ nú ǀ pra-jā́yai ǀ paśu-mátyai ǀ dévāsaḥ ǀ vánate ǀ mártyaḥ ǀ vaḥ ǀ ā́ ǀ devāsaḥ ǀ vanate ǀ mártyaḥ ǀ vaḥ ǀ
átra ǀ śivā́m ǀ tanváḥ ǀ dhāsím ǀ asyā́ḥ ǀ jarā́m ǀ cit ǀ me ǀ níḥ-ṛtiḥ ǀ jagrasīta ǁiti ǀ cit ǀ nu ǀ pra-jāyai ǀ paśu-matyai ǀ devāsaḥ ǀ vanate ǀ martyaḥ ǀ vaḥ ǀ ā ǀ devāsaḥ ǀ vanate ǀ martyaḥ ǀ vaḥ ǀ
atra ǀ śivām ǀ tanvaḥ ǀ dhāsim ǀ asyāḥ ǀ jarām ǀ cit ǀ me ǀ niḥ-ṛtiḥ ǀ jagrasīta ǁ5.41.17 Aṣṭaka 4.2.16.2Anuvāka 5.3.74
-
Ṛk 18
तां वो॑ देवाः सुम॒तिमू॒र्जयं॑ती॒मिष॑मश्याम वसवः॒ शसा॒ गोः ।
सा नः॑ सु॒दानु॑र्मृ॒ळयं॑ती दे॒वी प्रति॒ द्रवं॑ती सुवि॒ताय॑ गम्याः ॥तां वो देवाः सुमतिम् ऊर्जयन्तीम् इषम् अश्याम वसवः शसा गोः |
सा नः सुदानुर् मृऌअयन्ती देवी प्रति द्रवन्ती सुविताय गम्याः ||tā́m vo devāḥ sumatímūrjáyantīmíṣamaśyāma vasavaḥ śásā góḥ ǀ
sā́ naḥ sudā́nurmṛḷáyantī devī́ práti drávantī suvitā́ya gamyāḥ ǁtāṃ vo devāḥ sumatim ūrjayantīm iṣam aśyāma vasavaḥ śasā goḥ |
sā naḥ sudānur mṛḷayantī devī prati dravantī suvitāya gamyāḥ ||ताम् । वः॒ । दे॒वाः॒ । सु॒ऽम॒तिम् । ऊ॒र्जय॑न्तीम् । इष॑म् । अ॒श्या॒म॒ । व॒स॒वः॒ । शसा॑ । गोः ।
सा । नः॒ । सु॒ऽदानुः॑ । मृ॒ळय॑न्ती । दे॒वी । प्रति॑ । द्रव॑न्ती । सु॒वि॒ताय॑ । ग॒म्याः॒ ॥ताम् । वः । देवाः । सुऽमतिम् । ऊर्जयन्तीम् । इषम् । अश्याम । वसवः । शसा । गोः ।
सा । नः । सुऽदानुः । मृळयन्ती । देवी । प्रति । द्रवन्ती । सुविताय । गम्याः ॥tā́m ǀ vaḥ ǀ devāḥ ǀ su-matím ǀ ūrjáyantīm ǀ íṣam ǀ aśyāma ǀ vasavaḥ ǀ śásā ǀ góḥ ǀ
sā́ ǀ naḥ ǀ su-dā́nuḥ ǀ mṛḷáyantī ǀ devī́ ǀ práti ǀ drávantī ǀ suvitā́ya ǀ gamyāḥ ǁtām ǀ vaḥ ǀ devāḥ ǀ su-matim ǀ ūrjayantīm ǀ iṣam ǀ aśyāma ǀ vasavaḥ ǀ śasā ǀ goḥ ǀ
sā ǀ naḥ ǀ su-dānuḥ ǀ mṛḷayantī ǀ devī ǀ prati ǀ dravantī ǀ suvitāya ǀ gamyāḥ ǁ5.41.18 Aṣṭaka 4.2.16.3Anuvāka 5.3.75
-
Ṛk 19
अ॒भि न॒ इळा॑ यू॒थस्य॑ मा॒ता स्मन्न॒दीभि॑रु॒र्वशी॑ वा गृणातु ।
उ॒र्वशी॑ वा बृहद्दि॒वा गृ॑णा॒नाभ्यू॑र्ण्वा॒ना प्र॑भृ॒थस्या॒योः ॥अभि न इऌआ यूथस्य माता स्मन् नदीभिर् उर्वशी वा गृणातु |
उर्वशी वा बृहद्दिवा गृणानाभ्यूर्ण्वाना प्रभृथस्यायोः ||abhí na íḷā yūthásya mātā́ smánnadī́bhirurváśī vā gṛṇātu ǀ
urváśī vā bṛhaddivā́ gṛṇānā́bhyūrṇvānā́ prabhṛthásyāyóḥ ǁabhi na iḷā yūthasya mātā sman nadībhir urvaśī vā gṛṇātu |
urvaśī vā bṛhaddivā gṛṇānābhyūrṇvānā prabhṛthasyāyoḥ ||अ॒भि । नः॒ । इळा॑ । यू॒थस्य॑ । मा॒ता । स्मत् । न॒दीभिः॑ । उ॒र्वशी॑ । वा॒ । गृ॒णा॒तु॒ ।
उ॒र्वशी॑ । वा॒ । बृ॒ह॒त्ऽदि॒वा । गृ॒णा॒ना । अ॒भि॒ऽऊ॒र्ण्वा॒ना । प्र॒ऽभृ॒थस्य॑ । आ॒योः ॥अभि । नः । इळा । यूथस्य । माता । स्मत् । नदीभिः । उर्वशी । वा । गृणातु ।
उर्वशी । वा । बृहत्ऽदिवा । गृणाना । अभिऽऊर्ण्वाना । प्रऽभृथस्य । आयोः ॥abhí ǀ naḥ ǀ íḷā ǀ yūthásya ǀ mātā́ ǀ smát ǀ nadī́bhiḥ ǀ urváśī ǀ vā ǀ gṛṇātu ǀ
urváśī ǀ vā ǀ bṛhat-divā́ ǀ gṛṇānā́ ǀ abhi-ūrṇvānā́ ǀ pra-bhṛthásya ǀ āyóḥ ǁabhi ǀ naḥ ǀ iḷā ǀ yūthasya ǀ mātā ǀ smat ǀ nadībhiḥ ǀ urvaśī ǀ vā ǀ gṛṇātu ǀ
urvaśī ǀ vā ǀ bṛhat-divā ǀ gṛṇānā ǀ abhi-ūrṇvānā ǀ pra-bhṛthasya ǀ āyoḥ ǁ5.41.19 Aṣṭaka 4.2.16.4Anuvāka 5.3.76
-
Ṛk 20
सिष॑क्तु न ऊर्ज॒व्य॑स्य पु॒ष्टेः ॥
सिषक्तु न ऊर्जव्यस्य पुष्टेः ||
síṣaktu na ūrjavyásya puṣṭéḥ ǁ
siṣaktu na ūrjavyasya puṣṭeḥ ||
सिस॑क्तु । नः॒ । ऊ॒र्ज॒व्य॑स्य । पु॒ष्टेः ॥
सिसक्तु । नः । ऊर्जव्यस्य । पुष्टेः ॥
sísaktu ǀ naḥ ǀ ūrjavyásya ǀ puṣṭéḥ ǁ
sisaktu ǀ naḥ ǀ ūrjavyasya ǀ puṣṭeḥ ǁ
5.41.20 Aṣṭaka 4.2.16.5Anuvāka 5.3.77
Text, recitation and interpretations from the Ṛgveda database of theveda.org.in.