Ṛk 5.41.12
Saṃhitā
शृ॒णोतु॑ न ऊ॒र्जां पति॒र्गिरः॒ स नभ॒स्तरी॑याँ इषि॒रः परि॑ज्मा ।
शृ॒ण्वंत्वापः॒ पुरो॒ न शु॒भ्राः परि॒ स्रुचो॑ बबृहा॒णस्याद्रेः॑ ॥
शृणोतु न ऊर्जाम् पतिर् गिरः स नभस् तरीयां इषिरः परिज्मा |
शृण्वन्त्व् आपः पुरो न शुभ्राः परि स्रुचो बबृहाणस्याद्रेः ||
śṛṇótu na ūrjā́m pátirgíraḥ sá nábhastárīyām̐ iṣiráḥ párijmā ǀ
śṛṇvántvā́paḥ púro ná śubhrā́ḥ pári srúco babṛhāṇásyā́dreḥ ǁ
śṛṇotu na ūrjām patir giraḥ sa nabhas tarīyāṃ iṣiraḥ parijmā |
śṛṇvantv āpaḥ puro na śubhrāḥ pari sruco babṛhāṇasyādreḥ ||
Padapāṭha
शृ॒णोतु॑ । नः॒ । ऊ॒र्जाम् । पतिः॑ । गिरः॑ । सः । नभः॑ । तरी॑यान् । इ॒षि॒रः । परि॑ऽज्मा ।
शृ॒ण्वन्तु॑ । आपः॑ । पुरः॑ । न । शु॒भ्राः । परि॑ । स्रुचः॑ । ब॒बृ॒हा॒णस्य॑ । अद्रेः॑ ॥
शृणोतु । नः । ऊर्जाम् । पतिः । गिरः । सः । नभः । तरीयान् । इषिरः । परिऽज्मा ।
शृण्वन्तु । आपः । पुरः । न । शुभ्राः । परि । स्रुचः । बबृहाणस्य । अद्रेः ॥
śṛṇótu ǀ naḥ ǀ ūrjā́m ǀ pátiḥ ǀ gíraḥ ǀ sáḥ ǀ nábhaḥ ǀ tárīyān ǀ iṣiráḥ ǀ pári-jmā ǀ
śṛṇvántu ǀ ā́paḥ ǀ púraḥ ǀ ná ǀ śubhrā́ḥ ǀ pári ǀ srúcaḥ ǀ babṛhāṇásya ǀ ádreḥ ǁ
śṛṇotu ǀ naḥ ǀ ūrjām ǀ patiḥ ǀ giraḥ ǀ saḥ ǀ nabhaḥ ǀ tarīyān ǀ iṣiraḥ ǀ pari-jmā ǀ
śṛṇvantu ǀ āpaḥ ǀ puraḥ ǀ na ǀ śubhrāḥ ǀ pari ǀ srucaḥ ǀ babṛhāṇasya ǀ adreḥ ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 05.041.12
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 4.2.15.02
- Maṇḍala · Anuvāka · Ṛk
- 05.03.069
- Devatā देवता
- Viśvedevās
- Ṛṣi ऋषि
- Atri Bhauma
- Chandas छन्दस्
- Triṣṭubh, Atijagatī, Ekapadā Virāj
- Svara स्वरः
- पञ्चमः
Text and interpretations from the Ṛgveda database of theveda.org.in.