Sūkta 46
- Devatā देवता
- 1-6: Viśvedevās; 7, 8: God’s Wives
- Ṛṣi ऋषि
- Pratikṣatra Ātreya
- Chandas छन्दस्
- Jagatī, Triṣṭubh
Metres by ṛk
1st set of styles nicṛjjagatī (3, 5, 6); nicṛtpaṅkti (2, 8); jagatī (4, 7); bhurigjagatī (1)
2nd set of styles jagatī (1, 3-7); triṣṭubh (2, 8)
-
Ṛk 1
हयो॒ न वि॒द्वाँ अ॑युजि स्व॒यं धु॒रि तां व॑हामि प्र॒तर॑णीमव॒स्युवं॑ ।
नास्या॑ वश्मि वि॒मुचं॒ नावृतं॒ पुन॑र्वि॒द्वान्प॒थः पु॑रए॒त ऋ॒जु ने॑षति ॥हयो न विद्वां अयुजि स्वयं धुरि तां वहामि प्रतरणीम् अवस्युवम् |
नास्या वश्मि विमुचं नावृतम् पुनर् विद्वान् पथः पुरएत ऋजु नेषति ||háyo ná vidvā́m̐ ayuji svayám dhurí tā́m vahāmi pratáraṇīmavasyúvam ǀ
nā́syā vaśmi vimúcam nā́vṛ́tam púnarvidvā́npatháḥ puraetá ṛjú neṣati ǁhayo na vidvāṃ ayuji svayaṃ dhuri tāṃ vahāmi prataraṇīm avasyuvam |
nāsyā vaśmi vimucaṃ nāvṛtam punar vidvān pathaḥ puraeta ṛju neṣati ||हयः॑ । न । वि॒द्वान् । अ॒यु॒जि॒ । स्व॒यम् । धु॒रि । ताम् । व॒हा॒मि॒ । प्र॒तर॑णीम् । अ॒व॒स्युव॑म् ।
न । अ॒स्याः॒ । व॒श्मि॒ । वि॒ऽमुच॑म् । न । आ॒ऽवृत॑म् । पुनः॑ । वि॒द्वान् । प॒थः । पु॒रः॒ऽए॒ता । ऋ॒जु । ने॒ष॒ति॒ ॥हयः । न । विद्वान् । अयुजि । स्वयम् । धुरि । ताम् । वहामि । प्रतरणीम् । अवस्युवम् ।
न । अस्याः । वश्मि । विऽमुचम् । न । आऽवृतम् । पुनः । विद्वान् । पथः । पुरःऽएता । ऋजु । नेषति ॥háyaḥ ǀ ná ǀ vidvā́n ǀ ayuji ǀ svayám ǀ dhurí ǀ tā́m ǀ vahāmi ǀ pratáraṇīm ǀ avasyúvam ǀ
ná ǀ asyāḥ ǀ vaśmi ǀ vi-múcam ǀ ná ǀ ā-vṛ́tam ǀ púnaḥ ǀ vidvā́n ǀ patháḥ ǀ puraḥ-etā́ ǀ ṛjú ǀ neṣati ǁhayaḥ ǀ na ǀ vidvān ǀ ayuji ǀ svayam ǀ dhuri ǀ tām ǀ vahāmi ǀ prataraṇīm ǀ avasyuvam ǀ
na ǀ asyāḥ ǀ vaśmi ǀ vi-mucam ǀ na ǀ ā-vṛtam ǀ punaḥ ǀ vidvān ǀ pathaḥ ǀ puraḥ-etā ǀ ṛju ǀ neṣati ǁ5.46.1 Aṣṭaka 4.2.28.1Anuvāka 5.4.12
-
Ṛk 2
अग्न॒ इंद्र॒ वरु॑ण॒ मित्र॒ देवाः॒ शर्धः॒ प्र यं॑त॒ मारु॑तो॒त वि॑ष्णो ।
उ॒भा नास॑त्या रु॒द्रो अध॒ ग्नाः पू॒षा भगः॒ सर॑स्वती जुषंत ॥अग्न इन्द्र वरुण मित्र देवाः शर्धः प्र यन्त मारुतोत विष्णो |
उभा नासत्या रुद्रो अध ग्नाः पूषा भगः सरस्वती जुषन्त ||ágna índra váruṇa mítra dévāḥ śárdhaḥ prá yanta mā́rutotá viṣṇo ǀ
ubhā́ nā́satyā rudró ádha gnā́ḥ pūṣā́ bhágaḥ sárasvatī juṣanta ǁagna indra varuṇa mitra devāḥ śardhaḥ pra yanta mārutota viṣṇo |
ubhā nāsatyā rudro adha gnāḥ pūṣā bhagaḥ sarasvatī juṣanta ||अग्ने॑ । इन्द्र॑ । वरु॑ण । मित्र॑ । देवाः॑ । शर्धः॑ । प्र । य॒न्त॒ । मारु॑त । उ॒त । वि॒ष्णो॒ इति॑ ।
उ॒भा । नास॑त्या । रु॒द्रः । अध॑ । ग्नाः । पू॒षा । भगः॑ । सर॑स्वती । जु॒ष॒न्त॒ ॥अग्ने । इन्द्र । वरुण । मित्र । देवाः । शर्धः । प्र । यन्त । मारुत । उत । विष्णो इति ।
उभा । नासत्या । रुद्रः । अध । ग्नाः । पूषा । भगः । सरस्वती । जुषन्त ॥ágne ǀ índra ǀ váruṇa ǀ mítra ǀ dévāḥ ǀ śárdhaḥ ǀ prá ǀ yanta ǀ mā́ruta ǀ utá ǀ viṣṇo íti ǀ
ubhā́ ǀ nā́satyā ǀ rudráḥ ǀ ádha ǀ gnā́ḥ ǀ pūṣā́ ǀ bhágaḥ ǀ sárasvatī ǀ juṣanta ǁagne ǀ indra ǀ varuṇa ǀ mitra ǀ devāḥ ǀ śardhaḥ ǀ pra ǀ yanta ǀ māruta ǀ uta ǀ viṣṇo iti ǀ
ubhā ǀ nāsatyā ǀ rudraḥ ǀ adha ǀ gnāḥ ǀ pūṣā ǀ bhagaḥ ǀ sarasvatī ǀ juṣanta ǁ5.46.2 Aṣṭaka 4.2.28.2Anuvāka 5.4.13
-
Ṛk 3
इं॒द्रा॒ग्नी मि॒त्रावरु॒णादि॑तिं॒ स्वः॑ पृथि॒वीं द्यां म॒रुतः॒ पर्व॑ताँ अ॒पः ।
हु॒वे विष्णुं॑ पू॒षणं॒ ब्रह्म॑ण॒स्पतिं॒ भगं॒ नु शंसं॑ सवि॒तार॑मू॒तये॑ ॥इन्द्राग्नी मित्रावरुणादितिं स्वः पृथिवीं द्याम् मरुतः पर्वतां अपः |
हुवे विष्णुम् पूषणम् ब्रह्मणस् पतिम् भगं नु शंसं सवितारम् ऊतये ||indrāgnī́ mitrā́váruṇā́ditim sváḥ pṛthivī́m dyā́m marútaḥ párvatām̐ apáḥ ǀ
huvé víṣṇum pūṣáṇam bráhmaṇaspátim bhágam nú śáṃsam savitā́ramūtáye ǁindrāgnī mitrāvaruṇāditiṃ svaḥ pṛthivīṃ dyām marutaḥ parvatāṃ apaḥ |
huve viṣṇum pūṣaṇam brahmaṇas patim bhagaṃ nu śaṃsaṃ savitāram ūtaye ||इ॒न्द्रा॒ग्नी इति॑ । मि॒त्रावरु॑णा । अदि॑तिम् । स्व१॒॑रिति॑ स्वः॑ । पृ॒थि॒वीम् । द्याम् । म॒रुतः॑ । पर्व॑तान् । अ॒पः ।
हु॒वे । विष्णु॑म् । पू॒षण॑म् । ब्रह्म॑णः । पति॑म् । भग॑म् । नु । शंस॑म् । स॒वि॒तार॑म् । ऊ॒तये॑ ॥इन्द्राग्नी इति । मित्रावरुणा । अदितिम् । स्वरिति स्वः । पृथिवीम् । द्याम् । मरुतः । पर्वतान् । अपः ।
हुवे । विष्णुम् । पूषणम् । ब्रह्मणः । पतिम् । भगम् । नु । शंसम् । सवितारम् । ऊतये ॥indrāgnī́ íti ǀ mitrā́váruṇā ǀ áditim ǀ sváríti sváḥ ǀ pṛthivī́m ǀ dyā́m ǀ marútaḥ ǀ párvatān ǀ apáḥ ǀ
huvé ǀ víṣṇum ǀ pūṣáṇam ǀ bráhmaṇaḥ ǀ pátim ǀ bhágam ǀ nú ǀ śáṃsam ǀ savitā́ram ǀ ūtáye ǁindrāgnī iti ǀ mitrāvaruṇā ǀ aditim ǀ svariti svaḥ ǀ pṛthivīm ǀ dyām ǀ marutaḥ ǀ parvatān ǀ apaḥ ǀ
huve ǀ viṣṇum ǀ pūṣaṇam ǀ brahmaṇaḥ ǀ patim ǀ bhagam ǀ nu ǀ śaṃsam ǀ savitāram ǀ ūtaye ǁ5.46.3 Aṣṭaka 4.2.28.3Anuvāka 5.4.14
-
Ṛk 4
उ॒त नो॒ विष्णु॑रु॒त वातो॑ अ॒स्रिधो॑ द्रविणो॒दा उ॒त सोमो॒ मय॑स्करत् ।
उ॒त ऋ॒भव॑ उ॒त रा॒ये नो॑ अ॒श्विनो॒त त्वष्टो॒त विभ्वानु॑ मंसते ॥उत नो विष्णुर् उत वातो अस्रिधो द्रविणोदा उत सोमो मयस् करत् |
उत ऋभव उत राये नो अश्विनोत त्वष्टोत विभ्वानु मंसते ||utá no víṣṇurutá vā́to asrídho draviṇodā́ utá sómo máyaskarat ǀ
utá ṛbháva utá rāyé no aśvínotá tváṣṭotá víbhvā́nu maṃsate ǁuta no viṣṇur uta vāto asridho draviṇodā uta somo mayas karat |
uta ṛbhava uta rāye no aśvinota tvaṣṭota vibhvānu maṃsate ||उ॒त । नः॒ । विष्णुः॑ । उ॒त । वातः॑ । अ॒स्रिधः॑ । द्र॒वि॒णः॒ऽदाः । उ॒त । सोमः॑ । मयः॑ । क॒र॒त् ।
उ॒त । ऋ॒भवः॑ । उ॒त । रा॒ये । नः॒ । अ॒श्विना॑ । उ॒त । त्वष्टा॑ । उ॒त । विऽभ्वा॑ । अनु॑ । मं॒स॒ते॒ ॥उत । नः । विष्णुः । उत । वातः । अस्रिधः । द्रविणःऽदाः । उत । सोमः । मयः । करत् ।
उत । ऋभवः । उत । राये । नः । अश्विना । उत । त्वष्टा । उत । विऽभ्वा । अनु । मंसते ॥utá ǀ naḥ ǀ víṣṇuḥ ǀ utá ǀ vā́taḥ ǀ asrídhaḥ ǀ draviṇaḥ-dā́ḥ ǀ utá ǀ sómaḥ ǀ máyaḥ ǀ karat ǀ
utá ǀ ṛbhávaḥ ǀ utá ǀ rāyé ǀ naḥ ǀ aśvínā ǀ utá ǀ tváṣṭā ǀ utá ǀ ví-bhvā ǀ ánu ǀ maṃsate ǁuta ǀ naḥ ǀ viṣṇuḥ ǀ uta ǀ vātaḥ ǀ asridhaḥ ǀ draviṇaḥ-dāḥ ǀ uta ǀ somaḥ ǀ mayaḥ ǀ karat ǀ
uta ǀ ṛbhavaḥ ǀ uta ǀ rāye ǀ naḥ ǀ aśvinā ǀ uta ǀ tvaṣṭā ǀ uta ǀ vi-bhvā ǀ anu ǀ maṃsate ǁ5.46.4 Aṣṭaka 4.2.28.4Anuvāka 5.4.15
-
Ṛk 5
उ॒त त्यन्नो॒ मारु॑तं॒ शर्ध॒ आ ग॑मद्दिविक्ष॒यं य॑ज॒तं ब॒र्हिरा॒सदे॑ ।
बृह॒स्पतिः॒ शर्म॑ पू॒षोत नो॑ यमद्वरू॒थ्यं१॒॑ वरु॑णो मि॒त्रो अ॑र्य॒मा ॥उत त्यन् नो मारुतं शर्ध आ गमद् दिविक्षयं यजतम् बर्हिर् आसदे |
बृहस्पतिः शर्म पूषोत नो यमद् वरूथ्यं वरुणो मित्रो अर्यमा ||utá tyánno mā́rutam śárdha ā́ gamaddivikṣayám yajatám barhírāsáde ǀ
bṛ́haspátiḥ śárma pūṣótá no yamadvarūthyám váruṇo mitró aryamā́ ǁuta tyan no mārutaṃ śardha ā gamad divikṣayaṃ yajatam barhir āsade |
bṛhaspatiḥ śarma pūṣota no yamad varūthyaṃ varuṇo mitro aryamā ||उ॒त । त्यम् । नः॒ । मारु॑तम् । शर्धः॑ । आ । ग॒म॒त् । दि॒वि॒ऽक्ष॒यम् । य॒ज॒तम् । ब॒र्हिः । आ॒ऽसदे॑ ।
बृह॒स्पतिः॑ । शर्म॑ । पू॒षा । उ॒त । नः॒ । य॒म॒त् । व॒रू॒थ्य॑म् । वरु॑णः । मि॒त्रः । अ॒र्य॒मा ॥उत । त्यम् । नः । मारुतम् । शर्धः । आ । गमत् । दिविऽक्षयम् । यजतम् । बर्हिः । आऽसदे ।
बृहस्पतिः । शर्म । पूषा । उत । नः । यमत् । वरूथ्यम् । वरुणः । मित्रः । अर्यमा ॥utá ǀ tyám ǀ naḥ ǀ mā́rutam ǀ śárdhaḥ ǀ ā́ ǀ gamat ǀ divi-kṣayám ǀ yajatám ǀ barhíḥ ǀ ā-sáde ǀ
bṛ́haspátiḥ ǀ śárma ǀ pūṣā́ ǀ utá ǀ naḥ ǀ yamat ǀ varūthyám ǀ váruṇaḥ ǀ mitráḥ ǀ aryamā́ ǁuta ǀ tyam ǀ naḥ ǀ mārutam ǀ śardhaḥ ǀ ā ǀ gamat ǀ divi-kṣayam ǀ yajatam ǀ barhiḥ ǀ ā-sade ǀ
bṛhaspatiḥ ǀ śarma ǀ pūṣā ǀ uta ǀ naḥ ǀ yamat ǀ varūthyam ǀ varuṇaḥ ǀ mitraḥ ǀ aryamā ǁ5.46.5 Aṣṭaka 4.2.28.5Anuvāka 5.4.16
-
Ṛk 6
उ॒त त्ये नः॒ पर्व॑तासः सुश॒स्तयः॑ सुदी॒तयो॑ न॒द्य१॒॑स्त्राम॑णे भुवन् ।
भगो॑ विभ॒क्ता शव॒साव॒सा ग॑मदुरु॒व्यचा॒ अदि॑तिः श्रोतु मे॒ हवं॑ ॥उत त्ये नः पर्वतासः सुशस्तयः सुदीतयो नद्यस् त्रामणे भुवन् |
भगो विभक्ता शवसावसा गमद् उरुव्यचा अदितिः श्रोतु मे हवम् ||utá tyé naḥ párvatāsaḥ suśastáyaḥ sudītáyo nadyástrā́maṇe bhuvan ǀ
bhágo vibhaktā́ śávasā́vasā́ gamaduruvyácā áditiḥ śrotu me hávam ǁuta tye naḥ parvatāsaḥ suśastayaḥ sudītayo nadyas trāmaṇe bhuvan |
bhago vibhaktā śavasāvasā gamad uruvyacā aditiḥ śrotu me havam ||उ॒त । त्ये । नः॒ । पर्व॑तासः । सु॒ऽश॒स्तयः॑ । सु॒ऽदी॒तयः॑ । न॒द्यः॑ । त्राम॑णे । भु॒व॒न् ।
भगः॑ । वि॒ऽभ॒क्ता । शव॑सा । अव॑सा । आ । ग॒म॒त् । उ॒रु॒ऽव्यचाः॑ । अदि॑तिः । श्रो॒तु॒ । मे॒ । हव॑म् ॥उत । त्ये । नः । पर्वतासः । सुऽशस्तयः । सुऽदीतयः । नद्यः । त्रामणे । भुवन् ।
भगः । विऽभक्ता । शवसा । अवसा । आ । गमत् । उरुऽव्यचाः । अदितिः । श्रोतु । मे । हवम् ॥utá ǀ tyé ǀ naḥ ǀ párvatāsaḥ ǀ su-śastáyaḥ ǀ su-dītáyaḥ ǀ nadyáḥ ǀ trā́maṇe ǀ bhuvan ǀ
bhágaḥ ǀ vi-bhaktā́ ǀ śávasā ǀ ávasā ǀ ā́ ǀ gamat ǀ uru-vyácāḥ ǀ áditiḥ ǀ śrotu ǀ me ǀ hávam ǁuta ǀ tye ǀ naḥ ǀ parvatāsaḥ ǀ su-śastayaḥ ǀ su-dītayaḥ ǀ nadyaḥ ǀ trāmaṇe ǀ bhuvan ǀ
bhagaḥ ǀ vi-bhaktā ǀ śavasā ǀ avasā ǀ ā ǀ gamat ǀ uru-vyacāḥ ǀ aditiḥ ǀ śrotu ǀ me ǀ havam ǁ5.46.6 Aṣṭaka 4.2.28.6Anuvāka 5.4.17
-
Ṛk 7
दे॒वानां॒ पत्नी॑रुश॒तीर॑वंतु नः॒ प्रावं॑तु नस्तु॒जये॒ वाज॑सातये ।
याः पार्थि॑वासो॒ या अ॒पामपि॑ व्र॒ते ता नो॑ देवीः सुहवाः॒ शर्म॑ यच्छत ॥देवानाम् पत्नीर् उशतीर् अवन्तु नः प्रावन्तु नस् तुजये वाजसातये |
याः पार्थिवासो या अपाम् अपि व्रते ता नो देवीः सुहवाः शर्म यच्छत ||devā́nām pátnīruśatī́ravantu naḥ prā́vantu nastujáye vā́jasātaye ǀ
yā́ḥ pā́rthivāso yā́ apā́mápi vraté tā́ no devīḥ suhavāḥ śárma yacchata ǁdevānām patnīr uśatīr avantu naḥ prāvantu nas tujaye vājasātaye |
yāḥ pārthivāso yā apām api vrate tā no devīḥ suhavāḥ śarma yacchata ||दे॒वाना॑म् । पत्नीः॑ । उ॒श॒तीः । अ॒व॒न्तु॒ । नः॒ । प्र । अ॒व॒न्तु॒ । नः॒ । तु॒जये॑ । वाज॑ऽसातये ।
याः । पार्थि॑वासः । याः । अ॒पाम् । अपि॑ । व्र॒ते । ताः । नः॒ । दे॒वीः॒ । सु॒ऽह॒वाः॒ । शर्म॑ । य॒च्छ॒त॒ ॥देवानाम् । पत्नीः । उशतीः । अवन्तु । नः । प्र । अवन्तु । नः । तुजये । वाजऽसातये ।
याः । पार्थिवासः । याः । अपाम् । अपि । व्रते । ताः । नः । देवीः । सुऽहवाः । शर्म । यच्छत ॥devā́nām ǀ pátnīḥ ǀ uśatī́ḥ ǀ avantu ǀ naḥ ǀ prá ǀ avantu ǀ naḥ ǀ tujáye ǀ vā́ja-sātaye ǀ
yā́ḥ ǀ pā́rthivāsaḥ ǀ yā́ḥ ǀ apā́m ǀ ápi ǀ vraté ǀ tā́ḥ ǀ naḥ ǀ devīḥ ǀ su-havāḥ ǀ śárma ǀ yacchata ǁdevānām ǀ patnīḥ ǀ uśatīḥ ǀ avantu ǀ naḥ ǀ pra ǀ avantu ǀ naḥ ǀ tujaye ǀ vāja-sātaye ǀ
yāḥ ǀ pārthivāsaḥ ǀ yāḥ ǀ apām ǀ api ǀ vrate ǀ tāḥ ǀ naḥ ǀ devīḥ ǀ su-havāḥ ǀ śarma ǀ yacchata ǁ5.46.7 Aṣṭaka 4.2.28.7Anuvāka 5.4.18
-
Ṛk 8
उ॒त ग्ना व्यं॑तु दे॒वप॑त्नीरिंद्रा॒ण्य१॒॑ग्नाय्य॒श्विनी॒ राट् ।
आ रोद॑सी वरुणा॒नी शृ॑णोतु॒ व्यंतु॑ दे॒वीर्य ऋ॒तुर्जनी॑नां ॥उत ग्ना व्यन्तु देवपत्नीर् इन्द्राण्य् अग्नाय्य् अश्विनी राट् |
आ रोदसी वरुणानी शृणोतु व्यन्तु देवीर् य ऋतुर् जनीनाम् ||utá gnā́ vyantu devápatnīrindrāṇyágnā́yyaśvínī rā́ṭ ǀ
ā́ ródasī varuṇānī́ śṛṇotu vyántu devī́ryá ṛtúrjánīnām ǁuta gnā vyantu devapatnīr indrāṇy agnāyy aśvinī rāṭ |
ā rodasī varuṇānī śṛṇotu vyantu devīr ya ṛtur janīnām ||उ॒त । ग्नाः । व्य॒न्तु॒ । दे॒वऽप॑त्नीः । इ॒न्द्रा॒णी । अ॒ग्नायी॑ । अ॒श्विनी॑ । राट् ।
आ । रोद॑सी॒ इति॑ । व॒रु॒णा॒नी । शृ॒णो॒तु॒ । व्यन्तु॑ । दे॒वीः । यः । ऋ॒तुः । जनी॑नाम् ॥उत । ग्नाः । व्यन्तु । देवऽपत्नीः । इन्द्राणी । अग्नायी । अश्विनी । राट् ।
आ । रोदसी इति । वरुणानी । शृणोतु । व्यन्तु । देवीः । यः । ऋतुः । जनीनाम् ॥utá ǀ gnā́ḥ ǀ vyantu ǀ devá-patnīḥ ǀ indrāṇī́ ǀ agnā́yī ǀ aśvínī ǀ rā́ṭ ǀ
ā́ ǀ ródasī íti ǀ varuṇānī́ ǀ śṛṇotu ǀ vyántu ǀ devī́ḥ ǀ yáḥ ǀ ṛtúḥ ǀ jánīnām ǁuta ǀ gnāḥ ǀ vyantu ǀ deva-patnīḥ ǀ indrāṇī ǀ agnāyī ǀ aśvinī ǀ rāṭ ǀ
ā ǀ rodasī iti ǀ varuṇānī ǀ śṛṇotu ǀ vyantu ǀ devīḥ ǀ yaḥ ǀ ṛtuḥ ǀ janīnām ǁ5.46.8 Aṣṭaka 4.2.28.8Anuvāka 5.4.19
Text, recitation and interpretations from the Ṛgveda database of theveda.org.in.