Sūkta 56
- Devatā देवता
- Maruts
- Ṛṣi ऋषि
- Śyāvāśva Ātreya
- Chandas छन्दस्
- Bṛhatī, Satobṛhatī
Metres by ṛk
1st set of styles nicṛdbṛhatī (1, 2, 5); nicṛtpaṅkti (6, 7); bṛhatī (8, 9); virāṭpaṅkti (3); virāḍabṛhatī (4)
2nd set of styles bṛhatī (1, 2, 4-6, 8, 9); satobṛhatī (3, 7)
-
Ṛk 1
अग्ने॒ शर्धं॑त॒मा ग॒णं पि॒ष्टं रु॒क्मेभि॑रं॒जिभिः॑ ।
विशो॑ अ॒द्य म॒रुता॒मव॑ ह्वये दि॒वश्चि॑द्रोच॒नादधि॑ ॥अग्ने शर्धन्तम् आ गणम् पिष्टं रुक्मेभिर् अञ्जिभिः |
विशो अद्य मरुताम् अव ह्वये दिवश् चिद् रोचनाद् अधि ||ágne śárdhantamā́ gaṇám piṣṭám rukmébhirañjíbhiḥ ǀ
víśo adyá marútāmáva hvaye diváścidrocanā́dadhi ǁagne śardhantam ā gaṇam piṣṭaṃ rukmebhir añjibhiḥ |
viśo adya marutām ava hvaye divaś cid rocanād adhi ||अग्ने॑ । शर्ध॑न्तम् । आ । ग॒णम् । पि॒ष्टम् । रु॒क्मेभिः॑ । अ॒ञ्जिऽभिः॑ ।
विशः॑ । अ॒द्य । म॒रुता॑म् । अव॑ । ह्व॒ये॒ । दि॒वः । चि॒त् । रो॒च॒नात् । अधि॑ ॥अग्ने । शर्धन्तम् । आ । गणम् । पिष्टम् । रुक्मेभिः । अञ्जिऽभिः ।
विशः । अद्य । मरुताम् । अव । ह्वये । दिवः । चित् । रोचनात् । अधि ॥ágne ǀ śárdhantam ǀ ā́ ǀ gaṇám ǀ piṣṭám ǀ rukmébhiḥ ǀ añjí-bhiḥ ǀ
víśaḥ ǀ adyá ǀ marútām ǀ áva ǀ hvaye ǀ diváḥ ǀ cit ǀ rocanā́t ǀ ádhi ǁagne ǀ śardhantam ǀ ā ǀ gaṇam ǀ piṣṭam ǀ rukmebhiḥ ǀ añji-bhiḥ ǀ
viśaḥ ǀ adya ǀ marutām ǀ ava ǀ hvaye ǀ divaḥ ǀ cit ǀ rocanāt ǀ adhi ǁ5.56.1 Aṣṭaka 4.3.19.1Anuvāka 5.4.115
-
Ṛk 2
यथा॑ चि॒न्मन्य॑से हृ॒दा तदिन्मे॑ जग्मुरा॒शसः॑ ।
ये ते॒ नेदि॑ष्ठं॒ हव॑नान्या॒गमं॒तान्व॑र्ध भी॒मसं॑दृशः ॥यथा चिन् मन्यसे हृदा तद् इन् मे जग्मुर् आशसः |
ये ते नेदिष्ठं हवनान्य् आगमन् तान् वर्ध भीमसंदृशः ||yáthā cinmányase hṛdā́ tádínme jagmurāśásaḥ ǀ
yé te nédiṣṭham hávanānyāgámantā́nvardha bhīmásaṃdṛśaḥ ǁyathā cin manyase hṛdā tad in me jagmur āśasaḥ |
ye te nediṣṭhaṃ havanāny āgaman tān vardha bhīmasaṃdṛśaḥ ||यथा॑ । चि॒त् । मन्य॑से । हृ॒दा । तत् । इत् । मे॒ । ज॒ग्मुः॒ । आ॒ऽशसः॑ ।
ये । ते॒ । नेदि॑ष्ठम् । हव॑नानि । आ॒ऽगम॑न् । तान् । व॒र्ध॒ । भी॒मऽस॑न्दृशः ॥यथा । चित् । मन्यसे । हृदा । तत् । इत् । मे । जग्मुः । आऽशसः ।
ये । ते । नेदिष्ठम् । हवनानि । आऽगमन् । तान् । वर्ध । भीमऽसन्दृशः ॥yáthā ǀ cit ǀ mányase ǀ hṛdā́ ǀ tát ǀ ít ǀ me ǀ jagmuḥ ǀ ā-śásaḥ ǀ
yé ǀ te ǀ nédiṣṭham ǀ hávanāni ǀ ā-gáman ǀ tā́n ǀ vardha ǀ bhīmá-sandṛśaḥ ǁyathā ǀ cit ǀ manyase ǀ hṛdā ǀ tat ǀ it ǀ me ǀ jagmuḥ ǀ ā-śasaḥ ǀ
ye ǀ te ǀ nediṣṭham ǀ havanāni ǀ ā-gaman ǀ tān ǀ vardha ǀ bhīma-sandṛśaḥ ǁ5.56.2 Aṣṭaka 4.3.19.2Anuvāka 5.4.116
-
Ṛk 3
मी॒ळ्हुष्म॑तीव पृथि॒वी परा॑हता॒ मदं॑त्येत्य॒स्मदा ।
ऋक्षो॒ न वो॑ मरुतः॒ शिमी॑वाँ॒ अमो॑ दु॒ध्रो गौरि॑व भीम॒युः ॥मीऌहुष्मतीव पृथिवी पराहता मदन्त्य् एत्य् अस्मद् आ |
ऋक्षो न वो मरुतः शिमीवां अमो दुध्रो गौर् इव भीमयुः ||mīḷhúṣmatīva pṛthivī́ párāhatā mádantyetyasmádā́ ǀ
ṛ́kṣo ná vo marutaḥ śímīvām̐ ámo dudhró gáuriva bhīmayúḥ ǁmīḷhuṣmatīva pṛthivī parāhatā madanty ety asmad ā |
ṛkṣo na vo marutaḥ śimīvāṃ amo dudhro gaur iva bhīmayuḥ ||मी॒ळ्हुष्म॑तीऽइव । पृ॒थि॒वी । परा॑ऽहता । मद॑न्ती । ए॒ति॒ । अ॒स्मत् । आ ।
ऋक्षः॑ । न । वः॒ । म॒रु॒तः॒ । शिमी॑ऽवान् । अमः॑ । दु॒ध्रः । गौःऽइ॑व । भी॒म॒ऽयुः ॥मीळ्हुष्मतीऽइव । पृथिवी । पराऽहता । मदन्ती । एति । अस्मत् । आ ।
ऋक्षः । न । वः । मरुतः । शिमीऽवान् । अमः । दुध्रः । गौःऽइव । भीमऽयुः ॥mīḷhúṣmatī-iva ǀ pṛthivī́ ǀ párā-hatā ǀ mádantī ǀ eti ǀ asmát ǀ ā́ ǀ
ṛ́kṣaḥ ǀ ná ǀ vaḥ ǀ marutaḥ ǀ śímī-vān ǀ ámaḥ ǀ dudhráḥ ǀ gáuḥ-iva ǀ bhīma-yúḥ ǁmīḷhuṣmatī-iva ǀ pṛthivī ǀ parā-hatā ǀ madantī ǀ eti ǀ asmat ǀ ā ǀ
ṛkṣaḥ ǀ na ǀ vaḥ ǀ marutaḥ ǀ śimī-vān ǀ amaḥ ǀ dudhraḥ ǀ gauḥ-iva ǀ bhīma-yuḥ ǁ5.56.3 Aṣṭaka 4.3.19.3Anuvāka 5.4.117
-
Ṛk 4
नि ये रि॒णंत्योज॑सा॒ वृथा॒ गावो॒ न दु॒र्धुरः॑ ।
अश्मा॑नं चित्स्व॒र्यं१॒॑ पर्व॑तं गि॒रिं प्र च्या॑वयंति॒ याम॑भिः ॥नि ये रिणन्त्य् ओजसा वृथा गावो न दुर्धुरः |
अश्मानं चित् स्वर्यम् पर्वतं गिरिम् प्र च्यावयन्ति यामभिः ||ní yé riṇántyójasā vṛ́thā gā́vo ná durdhúraḥ ǀ
áśmānam citsvaryám párvatam girím prá cyāvayanti yā́mabhiḥ ǁni ye riṇanty ojasā vṛthā gāvo na durdhuraḥ |
aśmānaṃ cit svaryam parvataṃ girim pra cyāvayanti yāmabhiḥ ||नि । ये । रि॒णन्ति॑ । ओज॑सा । वृथा॑ । गावः॑ । न । दुः॒ऽधुरः॑ ।
अश्मा॑नम् । चि॒त् । स्व॒र्य॑म् । पर्व॑तम् । गि॒रिम् । प्र । च्य॒व॒य॒न्ति॒ । याम॑ऽभिः ॥नि । ये । रिणन्ति । ओजसा । वृथा । गावः । न । दुःऽधुरः ।
अश्मानम् । चित् । स्वर्यम् । पर्वतम् । गिरिम् । प्र । च्यवयन्ति । यामऽभिः ॥ní ǀ yé ǀ riṇánti ǀ ójasā ǀ vṛ́thā ǀ gā́vaḥ ǀ ná ǀ duḥ-dhúraḥ ǀ
áśmānam ǀ cit ǀ svaryám ǀ párvatam ǀ girím ǀ prá ǀ cyavayanti ǀ yā́ma-bhiḥ ǁni ǀ ye ǀ riṇanti ǀ ojasā ǀ vṛthā ǀ gāvaḥ ǀ na ǀ duḥ-dhuraḥ ǀ
aśmānam ǀ cit ǀ svaryam ǀ parvatam ǀ girim ǀ pra ǀ cyavayanti ǀ yāma-bhiḥ ǁ5.56.4 Aṣṭaka 4.3.19.4Anuvāka 5.4.118
-
Ṛk 5
उत्ति॑ष्ठ नू॒नमे॑षां॒ स्तोमैः॒ समु॑क्षितानां ।
म॒रुतां॑ पुरु॒तम॒मपू॑र्व्यं॒ गवां॒ सर्ग॑मिव ह्वये ॥उत् तिष्ठ नूनम् एषां स्तोमैः समुक्षितानाम् |
मरुताम् पुरुतमम् अपूर्व्यं गवां सर्गम् इव ह्वये ||úttiṣṭha nūnámeṣām stómaiḥ sámukṣitānām ǀ
marútām purutámamápūrvyam gávām sárgamiva hvaye ǁut tiṣṭha nūnam eṣāṃ stomaiḥ samukṣitānām |
marutām purutamam apūrvyaṃ gavāṃ sargam iva hvaye ||उत् । ति॒ष्ठ॒ । नू॒नम् । ए॒षा॒म् । स्तोमैः॑ । सम्ऽउ॑क्षितानाम् ।
म॒रुता॑म् । पु॒रु॒ऽतम॑म् । अपू॑र्व्यम् । गवा॑म् । सर्ग॑म्ऽइव । ह्व॒ये॒ ॥उत् । तिष्ठ । नूनम् । एषाम् । स्तोमैः । सम्ऽउक्षितानाम् ।
मरुताम् । पुरुऽतमम् । अपूर्व्यम् । गवाम् । सर्गम्ऽइव । ह्वये ॥út ǀ tiṣṭha ǀ nūnám ǀ eṣām ǀ stómaiḥ ǀ sám-ukṣitānām ǀ
marútām ǀ puru-támam ǀ ápūrvyam ǀ gávām ǀ sárgam-iva ǀ hvaye ǁut ǀ tiṣṭha ǀ nūnam ǀ eṣām ǀ stomaiḥ ǀ sam-ukṣitānām ǀ
marutām ǀ puru-tamam ǀ apūrvyam ǀ gavām ǀ sargam-iva ǀ hvaye ǁ5.56.5 Aṣṭaka 4.3.19.5Anuvāka 5.4.119
-
Ṛk 6
युं॒ग्ध्वं ह्यरु॑षी॒ रथे॑ युं॒ग्ध्वं रथे॑षु रो॒हितः॑ ।
युं॒ग्ध्वं हरी॑ अजि॒रा धु॒रि वोळ्ह॑वे॒ वहि॑ष्ठा धु॒रि वोळ्ह॑वे ॥युङ्ग्ध्वं ह्य् अरुषी रथे युङ्ग्ध्वं रथेषु रोहितः |
युङ्ग्ध्वं हरी अजिरा धुरि वोऌहवे वहिष्ठा धुरि वोऌहवे ||yuṅgdhvám hyáruṣī ráthe yuṅgdhvám rátheṣu rohítaḥ ǀ
yuṅgdhvám hárī ajirā́ dhurí vóḷhave váhiṣṭhā dhurí vóḷhave ǁyuṅgdhvaṃ hy aruṣī rathe yuṅgdhvaṃ ratheṣu rohitaḥ |
yuṅgdhvaṃ harī ajirā dhuri voḷhave vahiṣṭhā dhuri voḷhave ||यु॒ङ्ग्ध्वम् । हि । अरु॑षीः । रथे॑ । यु॒ङ्ग्ध्वम् । रथे॑षु । रो॒हितः॑ ।
यु॒ङ्ग्ध्वम् । हरी॒ इति॑ । अ॒जि॒रा । धु॒रि । वोळ्ह॑वे । वहि॑ष्ठा । धु॒रि । वोळ्ह॑वे ॥युङ्ग्ध्वम् । हि । अरुषीः । रथे । युङ्ग्ध्वम् । रथेषु । रोहितः ।
युङ्ग्ध्वम् । हरी इति । अजिरा । धुरि । वोळ्हवे । वहिष्ठा । धुरि । वोळ्हवे ॥yuṅgdhvám ǀ hí ǀ áruṣīḥ ǀ ráthe ǀ yuṅgdhvám ǀ rátheṣu ǀ rohítaḥ ǀ
yuṅgdhvám ǀ hárī íti ǀ ajirā́ ǀ dhurí ǀ vóḷhave ǀ váhiṣṭhā ǀ dhurí ǀ vóḷhave ǁyuṅgdhvam ǀ hi ǀ aruṣīḥ ǀ rathe ǀ yuṅgdhvam ǀ ratheṣu ǀ rohitaḥ ǀ
yuṅgdhvam ǀ harī iti ǀ ajirā ǀ dhuri ǀ voḷhave ǀ vahiṣṭhā ǀ dhuri ǀ voḷhave ǁ5.56.6 Aṣṭaka 4.3.20.1Anuvāka 5.4.120
-
Ṛk 7
उ॒त स्य वा॒ज्य॑रु॒षस्तु॑वि॒ष्वणि॑रि॒ह स्म॑ धायि दर्श॒तः ।
मा वो॒ यामे॑षु मरुतश्चि॒रं क॑र॒त्प्र तं रथे॑षु चोदत ॥उत स्य वाज्य् अरुषस् तुविष्वणिर् इह स्म धायि दर्शतः |
मा वो यामेषु मरुतश् चिरं करत् प्र तं रथेषु चोदत ||utá syá vājyáruṣástuviṣváṇirihá sma dhāyi darśatáḥ ǀ
mā́ vo yā́meṣu marutaścirám karatprá tám rátheṣu codata ǁuta sya vājy aruṣas tuviṣvaṇir iha sma dhāyi darśataḥ |
mā vo yāmeṣu marutaś ciraṃ karat pra taṃ ratheṣu codata ||उ॒त । स्यः । वा॒जी । अ॒रु॒षः । तु॒वि॒ऽस्वनिः॑ । इ॒ह । स्म॒ । धा॒यि॒ । द॒र्श॒तः ।
मा । वः॒ । यामे॑षु । म॒रु॒तः॒ । चि॒रम् । क॒र॒त् । प्र । तम् । रथे॑षु । चो॒द॒त॒ ॥उत । स्यः । वाजी । अरुषः । तुविऽस्वनिः । इह । स्म । धायि । दर्शतः ।
मा । वः । यामेषु । मरुतः । चिरम् । करत् । प्र । तम् । रथेषु । चोदत ॥utá ǀ syáḥ ǀ vājī́ ǀ aruṣáḥ ǀ tuvi-svániḥ ǀ ihá ǀ sma ǀ dhāyi ǀ darśatáḥ ǀ
mā́ ǀ vaḥ ǀ yā́meṣu ǀ marutaḥ ǀ cirám ǀ karat ǀ prá ǀ tám ǀ rátheṣu ǀ codata ǁuta ǀ syaḥ ǀ vājī ǀ aruṣaḥ ǀ tuvi-svaniḥ ǀ iha ǀ sma ǀ dhāyi ǀ darśataḥ ǀ
mā ǀ vaḥ ǀ yāmeṣu ǀ marutaḥ ǀ ciram ǀ karat ǀ pra ǀ tam ǀ ratheṣu ǀ codata ǁ5.56.7 Aṣṭaka 4.3.20.2Anuvāka 5.4.121
-
Ṛk 8
रथं॒ नु मारु॑तं व॒यं श्र॑व॒स्युमा हु॑वामहे ।
आ यस्मिं॑त॒स्थौ सु॒रणा॑नि॒ बिभ्र॑ती॒ सचा॑ म॒रुत्सु॑ रोद॒सी ॥रथं नु मारुतं वयं श्रवस्युम् आ हुवामहे |
आ यस्मिन् तस्थौ सुरणानि बिभ्रती सचा मरुत्सु रोदसी ||rátham nú mā́rutam vayám śravasyúmā́ huvāmahe ǀ
ā́ yásmintastháu suráṇāni bíbhratī sácā marútsu rodasī́ ǁrathaṃ nu mārutaṃ vayaṃ śravasyum ā huvāmahe |
ā yasmin tasthau suraṇāni bibhratī sacā marutsu rodasī ||रथ॑म् । नु । मारु॑तम् । व॒यम् । श्र॒व॒स्युम् । आ । हु॒वा॒म॒हे॒ ।
आ । यस्मि॑न् । त॒स्थौ । सु॒रणा॑नि । बिभ्र॑ती । सचा॑ । म॒रुत्ऽसु॑ । रो॒द॒सी ॥रथम् । नु । मारुतम् । वयम् । श्रवस्युम् । आ । हुवामहे ।
आ । यस्मिन् । तस्थौ । सुरणानि । बिभ्रती । सचा । मरुत्ऽसु । रोदसी ॥rátham ǀ nú ǀ mā́rutam ǀ vayám ǀ śravasyúm ǀ ā́ ǀ huvāmahe ǀ
ā́ ǀ yásmin ǀ tastháu ǀ suráṇāni ǀ bíbhratī ǀ sácā ǀ marút-su ǀ rodasī́ ǁratham ǀ nu ǀ mārutam ǀ vayam ǀ śravasyum ǀ ā ǀ huvāmahe ǀ
ā ǀ yasmin ǀ tasthau ǀ suraṇāni ǀ bibhratī ǀ sacā ǀ marut-su ǀ rodasī ǁ5.56.8 Aṣṭaka 4.3.20.3Anuvāka 5.4.122
-
Ṛk 9
तं वः॒ शर्धं॑ रथे॒शुभं॑ त्वे॒षं प॑न॒स्युमा हु॑वे ।
यस्मि॒न्त्सुजा॑ता सु॒भगा॑ मही॒यते॒ सचा॑ म॒रुत्सु॑ मीळ्हु॒षी ॥तं वः शर्धं रथेशुभं त्वेषम् पनस्युम् आ हुवे |
यस्मिन् सुजाता सुभगा महीयते सचा मरुत्सु मीऌहुषी ||tám vaḥ śárdham ratheśúbham tveṣám panasyúmā́ huve ǀ
yásmintsújātā subhágā mahīyáte sácā marútsu mīḷhuṣī́ ǁtaṃ vaḥ śardhaṃ ratheśubhaṃ tveṣam panasyum ā huve |
yasmin sujātā subhagā mahīyate sacā marutsu mīḷhuṣī ||तम् । वः॒ । शर्ध॑म् । र॒थे॒ऽशुभ॑म् । त्वे॒षम् । प॒न॒स्युम् । आ । हु॒वे॒ ।
यस्मि॑न् । सुऽजा॑ता । सु॒ऽभगा॑ । म॒ही॒यते॑ । सचा॑ । म॒रुत्ऽसु॑ । मी॒ळ्हु॒षी ॥तम् । वः । शर्धम् । रथेऽशुभम् । त्वेषम् । पनस्युम् । आ । हुवे ।
यस्मिन् । सुऽजाता । सुऽभगा । महीयते । सचा । मरुत्ऽसु । मीळ्हुषी ॥tám ǀ vaḥ ǀ śárdham ǀ rathe-śúbham ǀ tveṣám ǀ panasyúm ǀ ā́ ǀ huve ǀ
yásmin ǀ sú-jātā ǀ su-bhágā ǀ mahīyáte ǀ sácā ǀ marút-su ǀ mīḷhuṣī́ ǁtam ǀ vaḥ ǀ śardham ǀ rathe-śubham ǀ tveṣam ǀ panasyum ǀ ā ǀ huve ǀ
yasmin ǀ su-jātā ǀ su-bhagā ǀ mahīyate ǀ sacā ǀ marut-su ǀ mīḷhuṣī ǁ5.56.9 Aṣṭaka 4.3.20.4Anuvāka 5.4.123
Text, recitation and interpretations from the Ṛgveda database of theveda.org.in.