Ṛk 5.56.1
Saṃhitā
अग्ने॒ शर्धं॑त॒मा ग॒णं पि॒ष्टं रु॒क्मेभि॑रं॒जिभिः॑ ।
विशो॑ अ॒द्य म॒रुता॒मव॑ ह्वये दि॒वश्चि॑द्रोच॒नादधि॑ ॥
अग्ने शर्धन्तम् आ गणम् पिष्टं रुक्मेभिर् अञ्जिभिः |
विशो अद्य मरुताम् अव ह्वये दिवश् चिद् रोचनाद् अधि ||
ágne śárdhantamā́ gaṇám piṣṭám rukmébhirañjíbhiḥ ǀ
víśo adyá marútāmáva hvaye diváścidrocanā́dadhi ǁ
agne śardhantam ā gaṇam piṣṭaṃ rukmebhir añjibhiḥ |
viśo adya marutām ava hvaye divaś cid rocanād adhi ||
Padapāṭha
अग्ने॑ । शर्ध॑न्तम् । आ । ग॒णम् । पि॒ष्टम् । रु॒क्मेभिः॑ । अ॒ञ्जिऽभिः॑ ।
विशः॑ । अ॒द्य । म॒रुता॑म् । अव॑ । ह्व॒ये॒ । दि॒वः । चि॒त् । रो॒च॒नात् । अधि॑ ॥
अग्ने । शर्धन्तम् । आ । गणम् । पिष्टम् । रुक्मेभिः । अञ्जिऽभिः ।
विशः । अद्य । मरुताम् । अव । ह्वये । दिवः । चित् । रोचनात् । अधि ॥
ágne ǀ śárdhantam ǀ ā́ ǀ gaṇám ǀ piṣṭám ǀ rukmébhiḥ ǀ añjí-bhiḥ ǀ
víśaḥ ǀ adyá ǀ marútām ǀ áva ǀ hvaye ǀ diváḥ ǀ cit ǀ rocanā́t ǀ ádhi ǁ
agne ǀ śardhantam ǀ ā ǀ gaṇam ǀ piṣṭam ǀ rukmebhiḥ ǀ añji-bhiḥ ǀ
viśaḥ ǀ adya ǀ marutām ǀ ava ǀ hvaye ǀ divaḥ ǀ cit ǀ rocanāt ǀ adhi ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 05.056.01
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 4.3.19.01
- Maṇḍala · Anuvāka · Ṛk
- 05.04.115
- Devatā देवता
- Maruts
- Ṛṣi ऋषि
- Śyāvāśva Ātreya
- Chandas छन्दस्
- Bṛhatī, Satobṛhatī
- Svara स्वरः
- निषादः
Text and interpretations from the Ṛgveda database of theveda.org.in.