Sūkta 27
- Devatā देवता
- 1-5: Agni; 6: Indra, Agni
- Ṛṣi ऋषि
- Tryaruṇa Traivṛṣṇa And Trasadasyu Paurukutsya Sauhotra And Aśvamedha Bhārata (All Together) Or Atri Bhauma
- Chandas छन्दस्
- Triṣṭubh, Anuṣṭubh
Metres by ṛk
1st set of styles nicṛttriṣṭup (1, 3); bhuriguṣṇik (5, 6); virāṭtrisṭup (2); nicṛdanuṣṭup (4)
2nd set of styles triṣṭubh (1-3); anuṣṭubh (4-6)
-
Ṛk 1
अन॑स्वंता॒ सत्प॑तिर्मामहे मे॒ गावा॒ चेति॑ष्ठो॒ असु॑रो म॒घोनः॑ ।
त्रै॒वृ॒ष्णो अ॑ग्ने द॒शभिः॑ स॒हस्रै॒र्वैश्वा॑नर॒ त्र्य॑रुणश्चिकेत ॥अनस्वन्ता सत्पतिर् मामहे मे गावा चेतिष्ठो असुरो मघोनः |
त्रैवृष्णो अग्ने दशभिः सहस्रैर् वैश्वानर त्र्यरुणश् चिकेत ||ánasvantā sátpatirmāmahe me gā́vā cétiṣṭho ásuro maghónaḥ ǀ
traivṛṣṇó agne daśábhiḥ sahásrairváiśvānara tryáruṇaściketa ǁanasvantā satpatir māmahe me gāvā cetiṣṭho asuro maghonaḥ |
traivṛṣṇo agne daśabhiḥ sahasrair vaiśvānara tryaruṇaś ciketa ||अन॑स्वन्ता । सत्ऽप॑तिः । म॒म॒हे॒ । मे॒ । गावा॑ । चेति॑ष्ठः । असु॑रः । म॒घोनः॑ ।
त्रै॒वृ॒ष्णः । अ॒ग्ने॒ । द॒शऽभिः॑ । स॒हस्रैः॑ । वैश्वा॑नर । त्रिऽअ॑रुणः । चि॒के॒त॒ ॥अनस्वन्ता । सत्ऽपतिः । ममहे । मे । गावा । चेतिष्ठः । असुरः । मघोनः ।
त्रैवृष्णः । अग्ने । दशऽभिः । सहस्रैः । वैश्वानर । त्रिऽअरुणः । चिकेत ॥ánasvantā ǀ sát-patiḥ ǀ mamahe ǀ me ǀ gā́vā ǀ cétiṣṭhaḥ ǀ ásuraḥ ǀ maghónaḥ ǀ
traivṛṣṇáḥ ǀ agne ǀ daśá-bhiḥ ǀ sahásraiḥ ǀ váiśvānara ǀ trí-aruṇaḥ ǀ ciketa ǁanasvantā ǀ sat-patiḥ ǀ mamahe ǀ me ǀ gāvā ǀ cetiṣṭhaḥ ǀ asuraḥ ǀ maghonaḥ ǀ
traivṛṣṇaḥ ǀ agne ǀ daśa-bhiḥ ǀ sahasraiḥ ǀ vaiśvānara ǀ tri-aruṇaḥ ǀ ciketa ǁ5.27.1 Aṣṭaka 4.1.21.1Anuvāka 5.2.64
-
Ṛk 2
यो मे॑ श॒ता च॑ विंश॒तिं च॒ गोनां॒ हरी॑ च यु॒क्ता सु॒धुरा॒ ददा॑ति ।
वैश्वा॑नर॒ सुष्टु॑तो वावृधा॒नोऽग्ने॒ यच्छ॒ त्र्य॑रुणाय॒ शर्म॑ ॥यो मे शता च विंशतिं च गोनां हरी च युक्ता सुधुरा ददाति |
वैश्वानर सुष्टुतो वावृधानो ऽग्ने यच्छ त्र्यरुणाय शर्म ||yó me śatā́ ca viṃśatím ca gónām hárī ca yuktā́ sudhúrā dádāti ǀ
váiśvānara súṣṭuto vāvṛdhānó’gne yáccha tryáruṇāya śárma ǁyo me śatā ca viṃśatiṃ ca gonāṃ harī ca yuktā sudhurā dadāti |
vaiśvānara suṣṭuto vāvṛdhāno 'gne yaccha tryaruṇāya śarma ||यः । मे॒ । श॒ता । च॒ । विं॒श॒तिम् । च॒ । गोना॑म् । हरी॒ इति॑ । च॒ । यु॒क्ता । सु॒ऽधुरा॑ । ददा॑ति ।
वैश्वा॑नर । सुऽस्तु॑तः । व॒वृ॒धा॒नः । अग्ने॑ । यच्छ॑ । त्रिऽअ॑रुणाय । शर्म॑ ॥यः । मे । शता । च । विंशतिम् । च । गोनाम् । हरी इति । च । युक्ता । सुऽधुरा । ददाति ।
वैश्वानर । सुऽस्तुतः । ववृधानः । अग्ने । यच्छ । त्रिऽअरुणाय । शर्म ॥yáḥ ǀ me ǀ śatā́ ǀ ca ǀ viṃśatím ǀ ca ǀ gónām ǀ hárī íti ǀ ca ǀ yuktā́ ǀ su-dhúrā ǀ dádāti ǀ
váiśvānara ǀ sú-stutaḥ ǀ vavṛdhānáḥ ǀ ágne ǀ yáccha ǀ trí-aruṇāya ǀ śárma ǁyaḥ ǀ me ǀ śatā ǀ ca ǀ viṃśatim ǀ ca ǀ gonām ǀ harī iti ǀ ca ǀ yuktā ǀ su-dhurā ǀ dadāti ǀ
vaiśvānara ǀ su-stutaḥ ǀ vavṛdhānaḥ ǀ agne ǀ yaccha ǀ tri-aruṇāya ǀ śarma ǁ5.27.2 Aṣṭaka 4.1.21.2Anuvāka 5.2.65
-
Ṛk 3
ए॒वा ते॑ अग्ने सुम॒तिं च॑का॒नो नवि॑ष्ठाय नव॒मं त्र॒सद॑स्युः ।
यो मे॒ गिर॑स्तुविजा॒तस्य॑ पू॒र्वीर्यु॒क्तेना॒भि त्र्य॑रुणो गृ॒णाति॑ ॥एवा ते अग्ने सुमतिं चकानो नविष्ठाय नवमं त्रसदस्युः |
यो मे गिरस् तुविजातस्य पूर्वीर् युक्तेनाभि त्र्यरुणो गृणाति ||evā́ te agne sumatím cakānó náviṣṭhāya navamám trasádasyuḥ ǀ
yó me gírastuvijātásya pūrvī́ryukténābhí tryáruṇo gṛṇā́ti ǁevā te agne sumatiṃ cakāno naviṣṭhāya navamaṃ trasadasyuḥ |
yo me giras tuvijātasya pūrvīr yuktenābhi tryaruṇo gṛṇāti ||ए॒व । ते॒ । अ॒ग्ने॒ । सु॒ऽम॒तिम् । च॒का॒नः । नवि॑ष्ठाय । न॒व॒मम् । त्र॒सद॑स्युः ।
यः । मे॒ । गिरः॑ । तु॒वि॒ऽजा॒तस्य॑ । पू॒र्वीः । यु॒क्तेन॑ । अ॒भि । त्रिऽअ॑रुणः । गृ॒णाति॑ ॥एव । ते । अग्ने । सुऽमतिम् । चकानः । नविष्ठाय । नवमम् । त्रसदस्युः ।
यः । मे । गिरः । तुविऽजातस्य । पूर्वीः । युक्तेन । अभि । त्रिऽअरुणः । गृणाति ॥evá ǀ te ǀ agne ǀ su-matím ǀ cakānáḥ ǀ náviṣṭhāya ǀ navamám ǀ trasádasyuḥ ǀ
yáḥ ǀ me ǀ gíraḥ ǀ tuvi-jātásya ǀ pūrvī́ḥ ǀ yukténa ǀ abhí ǀ trí-aruṇaḥ ǀ gṛṇā́ti ǁeva ǀ te ǀ agne ǀ su-matim ǀ cakānaḥ ǀ naviṣṭhāya ǀ navamam ǀ trasadasyuḥ ǀ
yaḥ ǀ me ǀ giraḥ ǀ tuvi-jātasya ǀ pūrvīḥ ǀ yuktena ǀ abhi ǀ tri-aruṇaḥ ǀ gṛṇāti ǁ5.27.3 Aṣṭaka 4.1.21.3Anuvāka 5.2.66
-
Ṛk 4
यो म॒ इति॑ प्र॒वोच॒त्यश्व॑मेधाय सू॒रये॑ ।
दद॑दृ॒चा स॒निं य॒ते दद॑न्मे॒धामृ॑ताय॒ते ॥यो म इति प्रवोचत्य् अश्वमेधाय सूरये |
ददद् ऋचा सनिं यते ददन् मेधाम् ऋतायते ||yó ma íti pravócatyáśvamedhāya sūráye ǀ
dádadṛcā́ saním yaté dádanmedhā́mṛtāyaté ǁyo ma iti pravocaty aśvamedhāya sūraye |
dadad ṛcā saniṃ yate dadan medhām ṛtāyate ||यः । मे॒ । इति॑ । प्र॒ऽवोच॑ति । अश्व॑ऽमेधाय । सू॒रये॑ ।
दद॑त् । ऋ॒चा । स॒निम् । य॒ते । दद॑त् । मे॒धाम् । ऋ॒त॒ऽय॒ते ॥यः । मे । इति । प्रऽवोचति । अश्वऽमेधाय । सूरये ।
ददत् । ऋचा । सनिम् । यते । ददत् । मेधाम् । ऋतऽयते ॥yáḥ ǀ me ǀ íti ǀ pra-vócati ǀ áśva-medhāya ǀ sūráye ǀ
dádat ǀ ṛcā́ ǀ saním ǀ yaté ǀ dádat ǀ medhā́m ǀ ṛta-yaté ǁyaḥ ǀ me ǀ iti ǀ pra-vocati ǀ aśva-medhāya ǀ sūraye ǀ
dadat ǀ ṛcā ǀ sanim ǀ yate ǀ dadat ǀ medhām ǀ ṛta-yate ǁ5.27.4 Aṣṭaka 4.1.21.4Anuvāka 5.2.67
-
Ṛk 5
यस्य॑ मा परु॒षाः श॒तमु॑द्ध॒र्षयं॑त्यु॒क्षणः॑ ।
अश्व॑मेधस्य॒ दानाः॒ सोमा॑ इव॒ त्र्या॑शिरः ॥यस्य मा परुषाः शतम् उद्धर्षयन्त्य् उक्षणः |
अश्वमेधस्य दानाः सोमा इव त्र्याशिरः ||yásya mā paruṣā́ḥ śatámuddharṣáyantyukṣáṇaḥ ǀ
áśvamedhasya dā́nāḥ sómā iva tryā́śiraḥ ǁyasya mā paruṣāḥ śatam uddharṣayanty ukṣaṇaḥ |
aśvamedhasya dānāḥ somā iva tryāśiraḥ ||यस्य॑ । मा॒ । प॒रु॒षाः । श॒तम् । उ॒त्ऽह॒र्षय॑न्ति । उ॒क्षणः॑ ।
अश्व॑ऽमेधस्य । दानाः॑ । सोमाः॑ऽइव । त्रिऽआ॑शिरः ॥यस्य । मा । परुषाः । शतम् । उत्ऽहर्षयन्ति । उक्षणः ।
अश्वऽमेधस्य । दानाः । सोमाःऽइव । त्रिऽआशिरः ॥yásya ǀ mā ǀ paruṣā́ḥ ǀ śatám ǀ ut-harṣáyanti ǀ ukṣáṇaḥ ǀ
áśva-medhasya ǀ dā́nāḥ ǀ sómāḥ-iva ǀ trí-āśiraḥ ǁyasya ǀ mā ǀ paruṣāḥ ǀ śatam ǀ ut-harṣayanti ǀ ukṣaṇaḥ ǀ
aśva-medhasya ǀ dānāḥ ǀ somāḥ-iva ǀ tri-āśiraḥ ǁ5.27.5 Aṣṭaka 4.1.21.5Anuvāka 5.2.68
-
Ṛk 6
इंद्रा॑ग्नी शत॒दाव्न्यश्व॑मेधे सु॒वीर्यं॑ ।
क्ष॒त्रं धा॑रयतं बृ॒हद्दि॒वि सूर्य॑मिवा॒जरं॑ ॥इन्द्राग्नी शतदाव्न्य् अश्वमेधे सुवीर्यम् |
क्षत्रं धारयतम् बृहद् दिवि सूर्यम् इवाजरम् ||índrāgnī śatadā́vnyáśvamedhe suvī́ryam ǀ
kṣatrám dhārayatam bṛháddiví sū́ryamivājáram ǁindrāgnī śatadāvny aśvamedhe suvīryam |
kṣatraṃ dhārayatam bṛhad divi sūryam ivājaram ||इन्द्रा॑ग्नी॒ इति॑ । श॒त॒ऽदाव्नि॑ । अश्व॑ऽमेधे । सु॒ऽवीर्य॑म् ।
क्ष॒त्रम् । धा॒र॒य॒त॒म् । बृ॒हत् । दि॒वि । सूर्य॑म्ऽइव । अ॒जर॑म् ॥इन्द्राग्नी इति । शतऽदाव्नि । अश्वऽमेधे । सुऽवीर्यम् ।
क्षत्रम् । धारयतम् । बृहत् । दिवि । सूर्यम्ऽइव । अजरम् ॥índrāgnī íti ǀ śata-dā́vni ǀ áśva-medhe ǀ su-vī́ryam ǀ
kṣatrám ǀ dhārayatam ǀ bṛhát ǀ diví ǀ sū́ryam-iva ǀ ajáram ǁindrāgnī iti ǀ śata-dāvni ǀ aśva-medhe ǀ su-vīryam ǀ
kṣatram ǀ dhārayatam ǀ bṛhat ǀ divi ǀ sūryam-iva ǀ ajaram ǁ5.27.6 Aṣṭaka 4.1.21.6Anuvāka 5.2.69
Text, recitation and interpretations from the Ṛgveda database of theveda.org.in.