Sūkta 59
- Devatā देवता
- Maruts
- Ṛṣi ऋषि
- Śyāvāśva Ātreya
- Chandas छन्दस्
- Jagatī, Triṣṭubh
Metres by ṛk
1st set of styles nicṛjjagatī (2, 3, 6); virāḍjagatī (1, 4); jagatī (5); svarāṭtriṣṭup (7); nicṛttriṣṭup (8)
2nd set of styles jagatī (1-7); triṣṭubh (8)
-
Ṛk 1
प्र वः॒ स्पळ॑क्रन्त्सुवि॒ताय॑ दा॒वनेऽर्चा॑ दि॒वे प्र पृ॑थि॒व्या ऋ॒तं भ॑रे ।
उ॒क्षंते॒ अश्वां॒तरु॑षंत॒ आ रजोऽनु॒ स्वं भा॒नुं श्र॑थयंते अर्ण॒वैः ॥प्र व स्पऌ अक्रन् सुविताय दावने ऽर्चा दिवे प्र पृथिव्या ऋतम् भरे |
उक्षन्ते अश्वान् तरुषन्त आ रजो ऽनु स्वम् भानुं श्रथयन्ते अर्णवैः ||prá vaḥ spáḷakrantsuvitā́ya dāváné’rcā divé prá pṛthivyā́ ṛtám bhare ǀ
ukṣánte áśvāntáruṣanta ā́ rájó’nu svám bhānúm śrathayante arṇaváiḥ ǁpra va spaḷ akran suvitāya dāvane 'rcā dive pra pṛthivyā ṛtam bhare |
ukṣante aśvān taruṣanta ā rajo 'nu svam bhānuṃ śrathayante arṇavaiḥ ||प्र । वः॒ । स्पट् । अ॒क्र॒न् । सु॒वि॒ताय॑ । दा॒वने॑ । अर्च॑ । दि॒वे । प्र । पृ॒थि॒व्यै । ऋ॒तम् । भ॒रे॒ ।
उ॒क्षन्ते॑ । अश्वा॑न् । तरु॑षन्ते । आ । रजः॑ । अनु॑ । स्वम् । भा॒नुम् । श्र॒थ॒य॒न्ते॒ । अ॒र्ण॒वैः ॥प्र । वः । स्पट् । अक्रन् । सुविताय । दावने । अर्च । दिवे । प्र । पृथिव्यै । ऋतम् । भरे ।
उक्षन्ते । अश्वान् । तरुषन्ते । आ । रजः । अनु । स्वम् । भानुम् । श्रथयन्ते । अर्णवैः ॥prá ǀ vaḥ ǀ spáṭ ǀ akran ǀ suvitā́ya ǀ dāváne ǀ árca ǀ divé ǀ prá ǀ pṛthivyái ǀ ṛtám ǀ bhare ǀ
ukṣánte ǀ áśvān ǀ táruṣante ǀ ā́ ǀ rájaḥ ǀ ánu ǀ svám ǀ bhānúm ǀ śrathayante ǀ arṇaváiḥ ǁpra ǀ vaḥ ǀ spaṭ ǀ akran ǀ suvitāya ǀ dāvane ǀ arca ǀ dive ǀ pra ǀ pṛthivyai ǀ ṛtam ǀ bhare ǀ
ukṣante ǀ aśvān ǀ taruṣante ǀ ā ǀ rajaḥ ǀ anu ǀ svam ǀ bhānum ǀ śrathayante ǀ arṇavaiḥ ǁ5.59.1 Aṣṭaka 4.3.24.1Anuvāka 5.5.17
-
Ṛk 2
अमा॑देषां भि॒यसा॒ भूमि॑रेजति॒ नौर्न पू॒र्णा क्ष॑रति॒ व्यथि॑र्य॒ती ।
दू॒रे॒दृशो॒ ये चि॒तयं॑त॒ एम॑भिरं॒तर्म॒हे वि॒दथे॑ येतिरे॒ नरः॑ ॥अमाद् एषाम् भियसा भूमिर् एजति नौर् न पूर्णा क्षरति व्यथिर् यती |
दूरेदृशो ये चितयन्त एमभिर् अन्तर् महे विदथे येतिरे नरः ||ámādeṣām bhiyásā bhū́mirejati náurná pūrṇā́ kṣarati vyáthiryatī́ ǀ
dūredṛ́śo yé citáyanta émabhirantármahé vidáthe yetire náraḥ ǁamād eṣām bhiyasā bhūmir ejati naur na pūrṇā kṣarati vyathir yatī |
dūredṛśo ye citayanta emabhir antar mahe vidathe yetire naraḥ ||अमा॑त् । ए॒षा॒म् । भि॒यसा॑ । भूमिः॑ । ए॒ज॒ति॒ । नौः । न । पू॒र्णा । क्ष॒र॒ति॒ । व्यथिः॑ । य॒ती ।
दू॒रे॒ऽदृशः॑ । ये । चि॒तय॑न्ते । एम॑ऽभिः । अ॒न्तः । म॒हे । वि॒दथे॑ । ये॒ति॒रे॒ । नरः॑ ॥अमात् । एषाम् । भियसा । भूमिः । एजति । नौः । न । पूर्णा । क्षरति । व्यथिः । यती ।
दूरेऽदृशः । ये । चितयन्ते । एमऽभिः । अन्तः । महे । विदथे । येतिरे । नरः ॥ámāt ǀ eṣām ǀ bhiyásā ǀ bhū́miḥ ǀ ejati ǀ náuḥ ǀ ná ǀ pūrṇā́ ǀ kṣarati ǀ vyáthiḥ ǀ yatī́ ǀ
dūre-dṛ́śaḥ ǀ yé ǀ citáyante ǀ éma-bhiḥ ǀ antáḥ ǀ mahé ǀ vidáthe ǀ yetire ǀ náraḥ ǁamāt ǀ eṣām ǀ bhiyasā ǀ bhūmiḥ ǀ ejati ǀ nauḥ ǀ na ǀ pūrṇā ǀ kṣarati ǀ vyathiḥ ǀ yatī ǀ
dūre-dṛśaḥ ǀ ye ǀ citayante ǀ ema-bhiḥ ǀ antaḥ ǀ mahe ǀ vidathe ǀ yetire ǀ naraḥ ǁ5.59.2 Aṣṭaka 4.3.24.2Anuvāka 5.5.18
-
Ṛk 3
गवा॑मिव श्रि॒यसे॒ शृंग॑मुत्त॒मं सूर्यो॒ न चक्षू॒ रज॑सो वि॒सर्ज॑ने ।
अत्या॑ इव सु॒भ्व१॒॑श्चार॑वः स्थन॒ मर्या॑ इव श्रि॒यसे॑ चेतथा नरः ॥गवाम् इव श्रियसे शृङ्गम् उत्तमं सूर्यो न चक्षू रजसो विसर्जने |
अत्या इव सुभ्वश् चारव स्थन मर्या इव श्रियसे चेतथा नरः ||gávāmiva śriyáse śṛ́ṅgamuttamám sū́ryo ná cákṣū rájaso visárjane ǀ
átyā iva subhváścā́ravaḥ sthana máryā iva śriyáse cetathā naraḥ ǁgavām iva śriyase śṛṅgam uttamaṃ sūryo na cakṣū rajaso visarjane |
atyā iva subhvaś cārava sthana maryā iva śriyase cetathā naraḥ ||गवा॑म्ऽइव । श्रि॒यसे॑ । शृङ्ग॑म् । उ॒त्ऽत॒मम् । सूर्यः॑ । न । चक्षुः॑ । रज॑सः । वि॒ऽसर्ज॑ने ।
अत्याः॑ऽइव । सु॒ऽभ्वः॑ । चार॑वः । स्थ॒न॒ । मर्याः॑ऽइव । श्रि॒यसे॑ । चे॒त॒थ॒ । न॒रः॒ ॥गवाम्ऽइव । श्रियसे । शृङ्गम् । उत्ऽतमम् । सूर्यः । न । चक्षुः । रजसः । विऽसर्जने ।
अत्याःऽइव । सुऽभ्वः । चारवः । स्थन । मर्याःऽइव । श्रियसे । चेतथ । नरः ॥gávām-iva ǀ śriyáse ǀ śṛ́ṅgam ǀ ut-tamám ǀ sū́ryaḥ ǀ ná ǀ cákṣuḥ ǀ rájasaḥ ǀ vi-sárjane ǀ
átyāḥ-iva ǀ su-bhváḥ ǀ cā́ravaḥ ǀ sthana ǀ máryāḥ-iva ǀ śriyáse ǀ cetatha ǀ naraḥ ǁgavām-iva ǀ śriyase ǀ śṛṅgam ǀ ut-tamam ǀ sūryaḥ ǀ na ǀ cakṣuḥ ǀ rajasaḥ ǀ vi-sarjane ǀ
atyāḥ-iva ǀ su-bhvaḥ ǀ cāravaḥ ǀ sthana ǀ maryāḥ-iva ǀ śriyase ǀ cetatha ǀ naraḥ ǁ5.59.3 Aṣṭaka 4.3.24.3Anuvāka 5.5.19
-
Ṛk 4
को वो॑ म॒हांति॑ मह॒तामुद॑श्नव॒त्कस्काव्या॑ मरुतः॒ को ह॒ पौंस्या॑ ।
यू॒यं ह॒ भूमिं॑ कि॒रणं॒ न रे॑जथ॒ प्र यद्भर॑ध्वे सुवि॒ताय॑ दा॒वने॑ ॥को वो महान्ति महताम् उद् अश्नवत् कस् काव्या मरुतः को ह पौंस्या |
यूयं ह भूमिं किरणं न रेजथ प्र यद् भरध्वे सुविताय दावने ||kó vo mahā́nti mahatā́múdaśnavatkáskā́vyā marutaḥ kó ha páuṃsyā ǀ
yūyám ha bhū́mim kiráṇam ná rejatha prá yádbháradhve suvitā́ya dāváne ǁko vo mahānti mahatām ud aśnavat kas kāvyā marutaḥ ko ha pauṃsyā |
yūyaṃ ha bhūmiṃ kiraṇaṃ na rejatha pra yad bharadhve suvitāya dāvane ||कः । वः॒ । म॒हान्ति॑ । म॒ह॒ताम् । उत् । अ॒श्न॒व॒त् । कः । काव्या॑ । म॒रु॒तः॒ । कः । ह॒ । पौंस्या॑ ।
यू॒यम् । ह॒ । भूमि॑म् । कि॒रण॑म् । न । रे॒ज॒थ॒ । प्र । यत् । भर॑ध्वे । सु॒वि॒ताय॑ । दा॒वने॑ ॥कः । वः । महान्ति । महताम् । उत् । अश्नवत् । कः । काव्या । मरुतः । कः । ह । पौंस्या ।
यूयम् । ह । भूमिम् । किरणम् । न । रेजथ । प्र । यत् । भरध्वे । सुविताय । दावने ॥káḥ ǀ vaḥ ǀ mahā́nti ǀ mahatā́m ǀ út ǀ aśnavat ǀ káḥ ǀ kā́vyā ǀ marutaḥ ǀ káḥ ǀ ha ǀ páuṃsyā ǀ
yūyám ǀ ha ǀ bhū́mim ǀ kiráṇam ǀ ná ǀ rejatha ǀ prá ǀ yát ǀ bháradhve ǀ suvitā́ya ǀ dāváne ǁkaḥ ǀ vaḥ ǀ mahānti ǀ mahatām ǀ ut ǀ aśnavat ǀ kaḥ ǀ kāvyā ǀ marutaḥ ǀ kaḥ ǀ ha ǀ pauṃsyā ǀ
yūyam ǀ ha ǀ bhūmim ǀ kiraṇam ǀ na ǀ rejatha ǀ pra ǀ yat ǀ bharadhve ǀ suvitāya ǀ dāvane ǁ5.59.4 Aṣṭaka 4.3.24.4Anuvāka 5.5.20
-
Ṛk 5
अश्वा॑ इ॒वेद॑रु॒षासः॒ सबं॑धवः॒ शूरा॑ इव प्र॒युधः॒ प्रोत यु॑युधुः ।
मर्या॑ इव सु॒वृधो॑ वावृधु॒र्नरः॒ सूर्य॑स्य॒ चक्षुः॒ प्र मि॑नंति वृ॒ष्टिभिः॑ ॥अश्वा इवेद् अरुषासः सबन्धवः शूरा इव प्रयुधः प्रोत युयुधुः |
मर्या इव सुवृधो वावृधुर् नरः सूर्यस्य चक्षुः प्र मिनन्ति वृष्टिभिः ||áśvā ivédaruṣā́saḥ sábandhavaḥ śū́rā iva prayúdhaḥ prótá yuyudhuḥ ǀ
máryā iva suvṛ́dho vāvṛdhurnáraḥ sū́ryasya cákṣuḥ prá minanti vṛṣṭíbhiḥ ǁaśvā ived aruṣāsaḥ sabandhavaḥ śūrā iva prayudhaḥ prota yuyudhuḥ |
maryā iva suvṛdho vāvṛdhur naraḥ sūryasya cakṣuḥ pra minanti vṛṣṭibhiḥ ||अश्वाः॑ऽइव । इत् । अ॒रु॒षासः॑ । सऽब॑न्धवः । शूराः॑ऽइव । प्र॒ऽयुधः॑ । प्र । उ॒त । यु॒यु॒धुः॒ ।
मर्याः॑ऽइव । सु॒ऽवृधः॑ । व॒वृ॒धुः॒ । नरः॑ । सूर्य॑स्य । चक्षुः॑ । प्र । मि॒न॒न्ति॒ । वृ॒ष्टिऽभिः॑ ॥अश्वाःऽइव । इत् । अरुषासः । सऽबन्धवः । शूराःऽइव । प्रऽयुधः । प्र । उत । युयुधुः ।
मर्याःऽइव । सुऽवृधः । ववृधुः । नरः । सूर्यस्य । चक्षुः । प्र । मिनन्ति । वृष्टिऽभिः ॥áśvāḥ-iva ǀ ít ǀ aruṣā́saḥ ǀ sá-bandhavaḥ ǀ śū́rāḥ-iva ǀ pra-yúdhaḥ ǀ prá ǀ utá ǀ yuyudhuḥ ǀ
máryāḥ-iva ǀ su-vṛ́dhaḥ ǀ vavṛdhuḥ ǀ náraḥ ǀ sū́ryasya ǀ cákṣuḥ ǀ prá ǀ minanti ǀ vṛṣṭí-bhiḥ ǁaśvāḥ-iva ǀ it ǀ aruṣāsaḥ ǀ sa-bandhavaḥ ǀ śūrāḥ-iva ǀ pra-yudhaḥ ǀ pra ǀ uta ǀ yuyudhuḥ ǀ
maryāḥ-iva ǀ su-vṛdhaḥ ǀ vavṛdhuḥ ǀ naraḥ ǀ sūryasya ǀ cakṣuḥ ǀ pra ǀ minanti ǀ vṛṣṭi-bhiḥ ǁ5.59.5 Aṣṭaka 4.3.24.5Anuvāka 5.5.21
-
Ṛk 6
ते अ॑ज्ये॒ष्ठा अक॑निष्ठास उ॒द्भिदोऽम॑ध्यमासो॒ मह॑सा॒ वि वा॑वृधुः ।
सु॒जा॒तासो॑ ज॒नुषा॒ पृश्नि॑मातरो दि॒वो मर्या॒ आ नो॒ अच्छा॑ जिगातन ॥ते अज्येष्ठा अकनिष्ठास उद्भिदो ऽमध्यमासो महसा वि वावृधुः |
सुजातासो जनुषा पृश्निमातरो दिवो मर्या आ नो अच्छा जिगातन ||té ajyeṣṭhā́ ákaniṣṭhāsa udbhídó’madhyamāso máhasā ví vāvṛdhuḥ ǀ
sujātā́so janúṣā pṛ́śnimātaro divó máryā ā́ no ácchā jigātana ǁte ajyeṣṭhā akaniṣṭhāsa udbhido 'madhyamāso mahasā vi vāvṛdhuḥ |
sujātāso januṣā pṛśnimātaro divo maryā ā no acchā jigātana ||ते । अ॒ज्ये॒ष्ठाः । अक॑निष्ठासः । उ॒त्ऽभिदः॑ । अम॑ध्यमासः । मह॑सा । वि । व॒वृ॒धुः॒ ।
सु॒ऽजा॒तासः॑ । ज॒नुषा॑ । पृश्नि॑ऽमातरः । दि॒वः । मर्याः॑ । आ । नः॒ । अच्छ॑ । जि॒गा॒त॒न॒ ॥ते । अज्येष्ठाः । अकनिष्ठासः । उत्ऽभिदः । अमध्यमासः । महसा । वि । ववृधुः ।
सुऽजातासः । जनुषा । पृश्निऽमातरः । दिवः । मर्याः । आ । नः । अच्छ । जिगातन ॥té ǀ ajyeṣṭhā́ḥ ǀ ákaniṣṭhāsaḥ ǀ ut-bhídaḥ ǀ ámadhyamāsaḥ ǀ máhasā ǀ ví ǀ vavṛdhuḥ ǀ
su-jātā́saḥ ǀ janúṣā ǀ pṛ́śni-mātaraḥ ǀ diváḥ ǀ máryāḥ ǀ ā́ ǀ naḥ ǀ áccha ǀ jigātana ǁte ǀ ajyeṣṭhāḥ ǀ akaniṣṭhāsaḥ ǀ ut-bhidaḥ ǀ amadhyamāsaḥ ǀ mahasā ǀ vi ǀ vavṛdhuḥ ǀ
su-jātāsaḥ ǀ januṣā ǀ pṛśni-mātaraḥ ǀ divaḥ ǀ maryāḥ ǀ ā ǀ naḥ ǀ accha ǀ jigātana ǁ5.59.6 Aṣṭaka 4.3.24.6Anuvāka 5.5.22
-
Ṛk 7
वयो॒ न ये श्रेणीः॑ प॒प्तुरोज॒सांतां॑दि॒वो बृ॑ह॒तः सानु॑न॒स्परि॑ ।
अश्वा॑स एषामु॒भये॒ यथा॑ वि॒दुः प्र पर्व॑तस्य नभ॒नूँर॑चुच्यवुः ॥वयो न ये श्रेणीः पप्तुर् ओजसान्तान् दिवो बृहतः सानुनस् परि |
अश्वास एषाम् उभये यथा विदुः प्र पर्वतस्य नभनूंर् अचुच्यवुः ||váyo ná yé śréṇīḥ paptúrójasā́ntāndivó bṛhatáḥ sā́nunaspári ǀ
áśvāsa eṣāmubháye yáthā vidúḥ prá párvatasya nabhanū́m̐racucyavuḥ ǁvayo na ye śreṇīḥ paptur ojasāntān divo bṛhataḥ sānunas pari |
aśvāsa eṣām ubhaye yathā viduḥ pra parvatasya nabhanūṃr acucyavuḥ ||वयः॑ । न । ये । श्रेणीः॑ । प॒प्तुः । ओज॑सा । अन्ता॑न् । दि॒वः । बृ॒ह॒तः । सानु॑नः । परि॑ ।
अश्वा॑सः । ए॒षा॒म् । उ॒भये॑ । यथा॑ । वि॒दुः । प्र । पर्व॑तस्य । न॒भ॒नून् । अ॒चु॒च्य॒वुः॒ ॥वयः । न । ये । श्रेणीः । पप्तुः । ओजसा । अन्तान् । दिवः । बृहतः । सानुनः । परि ।
अश्वासः । एषाम् । उभये । यथा । विदुः । प्र । पर्वतस्य । नभनून् । अचुच्यवुः ॥váyaḥ ǀ ná ǀ yé ǀ śréṇīḥ ǀ paptúḥ ǀ ójasā ǀ ántān ǀ diváḥ ǀ bṛhatáḥ ǀ sā́nunaḥ ǀ pári ǀ
áśvāsaḥ ǀ eṣām ǀ ubháye ǀ yáthā ǀ vidúḥ ǀ prá ǀ párvatasya ǀ nabhanū́n ǀ acucyavuḥ ǁvayaḥ ǀ na ǀ ye ǀ śreṇīḥ ǀ paptuḥ ǀ ojasā ǀ antān ǀ divaḥ ǀ bṛhataḥ ǀ sānunaḥ ǀ pari ǀ
aśvāsaḥ ǀ eṣām ǀ ubhaye ǀ yathā ǀ viduḥ ǀ pra ǀ parvatasya ǀ nabhanūn ǀ acucyavuḥ ǁ5.59.7 Aṣṭaka 4.3.24.7Anuvāka 5.5.23
-
Ṛk 8
मिमा॑तु॒ द्यौरदि॑तिर्वी॒तये॑ नः॒ सं दानु॑चित्रा उ॒षसो॑ यतंतां ।
आचु॑च्यवुर्दि॒व्यं कोश॑मे॒त ऋषे॑ रु॒द्रस्य॑ म॒रुतो॑ गृणा॒नाः ॥मिमातु द्यौर् अदितिर् वीतये नः सं दानुचित्रा उषसो यतन्ताम् |
आचुच्यवुर् दिव्यं कोशम् एत ऋषे रुद्रस्य मरुतो गृणानाः ||mímātu dyáuráditirvītáye naḥ sám dā́nucitrā uṣáso yatantām ǀ
ā́cucyavurdivyám kóśametá ṛ́ṣe rudrásya marúto gṛṇānā́ḥ ǁmimātu dyaur aditir vītaye naḥ saṃ dānucitrā uṣaso yatantām |
ācucyavur divyaṃ kośam eta ṛṣe rudrasya maruto gṛṇānāḥ ||मिमा॑तु । द्यौः । अदि॑तिः । वी॒तये॑ । नः॒ । सम् । दानु॑ऽचित्राः । उ॒षसः॑ । य॒त॒न्ता॒म् ।
आ । अ॒चु॒च्य॒वुः॒ । दि॒व्यम् । कोश॑म् । ए॒ते । ऋषे॑ । रु॒द्रस्य॑ । म॒रुतः॑ । गृ॒णा॒नाः ॥मिमातु । द्यौः । अदितिः । वीतये । नः । सम् । दानुऽचित्राः । उषसः । यतन्ताम् ।
आ । अचुच्यवुः । दिव्यम् । कोशम् । एते । ऋषे । रुद्रस्य । मरुतः । गृणानाः ॥mímātu ǀ dyáuḥ ǀ áditiḥ ǀ vītáye ǀ naḥ ǀ sám ǀ dā́nu-citrāḥ ǀ uṣásaḥ ǀ yatantām ǀ
ā́ ǀ acucyavuḥ ǀ divyám ǀ kóśam ǀ eté ǀ ṛ́ṣe ǀ rudrásya ǀ marútaḥ ǀ gṛṇānā́ḥ ǁmimātu ǀ dyauḥ ǀ aditiḥ ǀ vītaye ǀ naḥ ǀ sam ǀ dānu-citrāḥ ǀ uṣasaḥ ǀ yatantām ǀ
ā ǀ acucyavuḥ ǀ divyam ǀ kośam ǀ ete ǀ ṛṣe ǀ rudrasya ǀ marutaḥ ǀ gṛṇānāḥ ǁ5.59.8 Aṣṭaka 4.3.24.8Anuvāka 5.5.24
Text, recitation and interpretations from the Ṛgveda database of theveda.org.in.