Sūkta 15
- Devatā देवता
- Agni
- Ṛṣi ऋषि
- Dharuṇa Āṅgirasa
- Chandas छन्दस्
- Triṣṭubh
Metres by ṛk
1st set of styles svarāṭpaṅkti (1, 5); triṣṭup (2, 4); virāṭtrisṭup (3)
2nd set of styles triṣṭubh
-
Ṛk 1
प्र वे॒धसे॑ क॒वये॒ वेद्या॑य॒ गिरं॑ भरे य॒शसे॑ पू॒र्व्याय॑ ।
घृ॒तप्र॑सत्तो॒ असु॑रः सु॒शेवो॑ रा॒यो ध॒र्ता ध॒रुणो॒ वस्वो॑ अ॒ग्निः ॥प्र वेधसे कवये वेद्याय गिरम् भरे यशसे पूर्व्याय |
घृतप्रसत्तो असुरः सुशेवो रायो धर्ता धरुणो वस्वो अग्निः ||prá vedháse kaváye védyāya gíram bhare yaśáse pūrvyā́ya ǀ
ghṛtáprasatto ásuraḥ suśévo rāyó dhartā́ dharúṇo vásvo agníḥ ǁpra vedhase kavaye vedyāya giram bhare yaśase pūrvyāya |
ghṛtaprasatto asuraḥ suśevo rāyo dhartā dharuṇo vasvo agniḥ ||प्र । वे॒धसे॑ । क॒वये॑ । वेद्या॑य । गिर॑म् । भ॒रे॒ । य॒शसे॑ । पू॒र्व्याय॑ ।
घृ॒तऽप्र॑सत्तः । असु॑रः । सु॒ऽशेवः॑ । रा॒यः । ध॒र्ता । ध॒रुणः॑ । वस्वः॑ । अ॒ग्निः ॥प्र । वेधसे । कवये । वेद्याय । गिरम् । भरे । यशसे । पूर्व्याय ।
घृतऽप्रसत्तः । असुरः । सुऽशेवः । रायः । धर्ता । धरुणः । वस्वः । अग्निः ॥prá ǀ vedháse ǀ kaváye ǀ védyāya ǀ gíram ǀ bhare ǀ yaśáse ǀ pūrvyā́ya ǀ
ghṛtá-prasattaḥ ǀ ásuraḥ ǀ su-śévaḥ ǀ rāyáḥ ǀ dhartā́ ǀ dharúṇaḥ ǀ vásvaḥ ǀ agníḥ ǁpra ǀ vedhase ǀ kavaye ǀ vedyāya ǀ giram ǀ bhare ǀ yaśase ǀ pūrvyāya ǀ
ghṛta-prasattaḥ ǀ asuraḥ ǀ su-śevaḥ ǀ rāyaḥ ǀ dhartā ǀ dharuṇaḥ ǀ vasvaḥ ǀ agniḥ ǁ5.15.1 Aṣṭaka 4.1.7.1Anuvāka 5.2.1
-
Ṛk 2
ऋ॒तेन॑ ऋ॒तं ध॒रुणं॑ धारयंत य॒ज्ञस्य॑ शा॒के प॑र॒मे व्यो॑मन् ।
दि॒वो धर्मं॑ध॒रुणे॑ से॒दुषो॒ नॄंजा॒तैरजा॑ताँ अ॒भि ये न॑न॒क्षुः ॥ऋतेन ऋतं धरुणं धारयन्त यज्ञस्य शाके परमे व्योमन् |
दिवो धर्मन् धरुणे सेदुषो नॄञ् जातैर् अजातां अभि ये ननक्षुः ||ṛténa ṛtám dharúṇam dhārayanta yajñásya śāké paramé vyóman ǀ
divó dhármandharúṇe sedúṣo nṝ́ñjātáirájātām̐ abhí yé nanakṣúḥ ǁṛtena ṛtaṃ dharuṇaṃ dhārayanta yajñasya śāke parame vyoman |
divo dharman dharuṇe seduṣo nṝñ jātair ajātāṃ abhi ye nanakṣuḥ ||ऋ॒तेन॑ । ऋ॒तम् । ध॒रुण॑म् । धा॒र॒य॒न्त॒ । य॒ज्ञस्य॑ । शा॒के । प॒र॒मे । विऽओ॑मन् ।
दि॒वः । धर्म॑न् । ध॒रुणे॑ । से॒दुषः॑ । नॄन् । जा॒तैः । अजा॑तान् । अ॒भि । ये । न॒न॒क्षुः ॥ऋतेन । ऋतम् । धरुणम् । धारयन्त । यज्ञस्य । शाके । परमे । विऽओमन् ।
दिवः । धर्मन् । धरुणे । सेदुषः । नॄन् । जातैः । अजातान् । अभि । ये । ननक्षुः ॥ṛténa ǀ ṛtám ǀ dharúṇam ǀ dhārayanta ǀ yajñásya ǀ śāké ǀ paramé ǀ ví-oman ǀ
diváḥ ǀ dhárman ǀ dharúṇe ǀ sedúṣaḥ ǀ nṝ́n ǀ jātáiḥ ǀ ájātān ǀ abhí ǀ yé ǀ nanakṣúḥ ǁṛtena ǀ ṛtam ǀ dharuṇam ǀ dhārayanta ǀ yajñasya ǀ śāke ǀ parame ǀ vi-oman ǀ
divaḥ ǀ dharman ǀ dharuṇe ǀ seduṣaḥ ǀ nṝn ǀ jātaiḥ ǀ ajātān ǀ abhi ǀ ye ǀ nanakṣuḥ ǁ5.15.2 Aṣṭaka 4.1.7.2Anuvāka 5.2.2
-
Ṛk 3
अ॒ंहो॒युव॑स्त॒न्व॑स्तन्वते॒ वि वयो॑ म॒हद्दु॒ष्टरं॑ पू॒र्व्याय॑ ।
स सं॒वतो॒ नव॑जातस्तुतुर्यात्सिं॒हं न क्रु॒द्धम॒भितः॒ परि॑ ष्ठुः ॥अङ्होयुवस् तन्वस् तन्वते वि वयो महद् दुष्टरम् पूर्व्याय |
स संवतो नवजातस् तुतुर्यात् सिङ्हं न क्रुद्धम् अभितः परि ष्ठुः ||aṃhoyúvastanvástanvate ví váyo mahádduṣṭáram pūrvyā́ya ǀ
sá saṃváto návajātastuturyātsiṃhám ná kruddhámabhítaḥ pári ṣṭhuḥ ǁaṅhoyuvas tanvas tanvate vi vayo mahad duṣṭaram pūrvyāya |
sa saṃvato navajātas tuturyāt siṅhaṃ na kruddham abhitaḥ pari ṣṭhuḥ ||अं॒हः॒ऽयुवः॑ । त॒न्वः॑ । त॒न्व॒ते॒ । वि । वयः॑ । म॒हत् । दु॒स्तर॑म् । पू॒र्व्याय॑ ।
सः । स॒म्ऽवतः॑ । नव॑ऽजातः । तु॒तु॒र्या॒त् । सिं॒हम् । न । क्रु॒द्धम् । अ॒भितः॑ । परि॑ । स्थुः॒ ॥अंहःऽयुवः । तन्वः । तन्वते । वि । वयः । महत् । दुस्तरम् । पूर्व्याय ।
सः । सम्ऽवतः । नवऽजातः । तुतुर्यात् । सिंहम् । न । क्रुद्धम् । अभितः । परि । स्थुः ॥aṃhaḥ-yúvaḥ ǀ tanváḥ ǀ tanvate ǀ ví ǀ váyaḥ ǀ mahát ǀ dustáram ǀ pūrvyā́ya ǀ
sáḥ ǀ sam-vátaḥ ǀ náva-jātaḥ ǀ tuturyāt ǀ siṃhám ǀ ná ǀ kruddhám ǀ abhítaḥ ǀ pári ǀ sthuḥ ǁaṃhaḥ-yuvaḥ ǀ tanvaḥ ǀ tanvate ǀ vi ǀ vayaḥ ǀ mahat ǀ dustaram ǀ pūrvyāya ǀ
saḥ ǀ sam-vataḥ ǀ nava-jātaḥ ǀ tuturyāt ǀ siṃham ǀ na ǀ kruddham ǀ abhitaḥ ǀ pari ǀ sthuḥ ǁ5.15.3 Aṣṭaka 4.1.7.3Anuvāka 5.2.3
-
Ṛk 4
मा॒तेव॒ यद्भर॑से पप्रथा॒नो जनं॑जनं॒ धाय॑से॒ चक्ष॑से च ।
वयो॑वयो जरसे॒ यद्दधा॑नः॒ परि॒ त्मना॒ विषु॑रूपो जिगासि ॥मातेव यद् भरसे पप्रथानो जनं-जनं धायसे चक्षसे च |
वयो-वयो जरसे यद् दधानः परि त्मना विषुरूपो जिगासि ||mātéva yádbhárase paprathānó jánaṃjanam dhā́yase cákṣase ca ǀ
váyovayo jarase yáddádhānaḥ pári tmánā víṣurūpo jigāsi ǁmāteva yad bharase paprathāno janaṃ-janaṃ dhāyase cakṣase ca |
vayo-vayo jarase yad dadhānaḥ pari tmanā viṣurūpo jigāsi ||मा॒ताऽइ॑व । यत् । भर॑से । प॒प्र॒था॒नः । जन॑म्ऽजनम् । धाय॑से । चक्ष॑से । च॒ ।
वयः॑ऽवयः । ज॒र॒से॒ । यत् । दधा॑नः । परि॑ । त्मना॑ । विषु॑ऽरूपः । जि॒गा॒सि॒ ॥माताऽइव । यत् । भरसे । पप्रथानः । जनम्ऽजनम् । धायसे । चक्षसे । च ।
वयःऽवयः । जरसे । यत् । दधानः । परि । त्मना । विषुऽरूपः । जिगासि ॥mātā́-iva ǀ yát ǀ bhárase ǀ paprathānáḥ ǀ jánam-janam ǀ dhā́yase ǀ cákṣase ǀ ca ǀ
váyaḥ-vayaḥ ǀ jarase ǀ yát ǀ dádhānaḥ ǀ pári ǀ tmánā ǀ víṣu-rūpaḥ ǀ jigāsi ǁmātā-iva ǀ yat ǀ bharase ǀ paprathānaḥ ǀ janam-janam ǀ dhāyase ǀ cakṣase ǀ ca ǀ
vayaḥ-vayaḥ ǀ jarase ǀ yat ǀ dadhānaḥ ǀ pari ǀ tmanā ǀ viṣu-rūpaḥ ǀ jigāsi ǁ5.15.4 Aṣṭaka 4.1.7.4Anuvāka 5.2.4
-
Ṛk 5
वाजो॒ नु ते॒ शव॑सस्पा॒त्वंत॑मु॒रुं दोघं॑ ध॒रुणं॑ देव रा॒यः ।
प॒दं न ता॒युर्गुहा॒ दधा॑नो म॒हो रा॒ये चि॒तय॒न्नत्रि॑मस्पः ॥वाजो नु ते शवसस् पात्व् अन्तम् उरुं दोघं धरुणं देव रायः |
पदं न तायुर् गुहा दधानो महो राये चितयन्न् अत्रिम् अस्पः ||vā́jo nú te śávasaspātvántamurúm dógham dharúṇam deva rāyáḥ ǀ
padám ná tāyúrgúhā dádhāno mahó rāyé citáyannátrimaspaḥ ǁvājo nu te śavasas pātv antam uruṃ doghaṃ dharuṇaṃ deva rāyaḥ |
padaṃ na tāyur guhā dadhāno maho rāye citayann atrim aspaḥ ||वाजः॑ । नु । ते॒ । शव॑सः । पा॒तु॒ । अन्त॑म् । उ॒रुम् । दोघ॑म् । ध॒रुण॑म् । दे॒व॒ । रा॒यः ।
प॒दम् । न । ता॒युः । गुहा॑ । दधा॑नः । म॒हः । रा॒ये । चि॒तय॑न् । अत्रि॑म् । अ॒स्प॒रित्य॑स्पः ॥वाजः । नु । ते । शवसः । पातु । अन्तम् । उरुम् । दोघम् । धरुणम् । देव । रायः ।
पदम् । न । तायुः । गुहा । दधानः । महः । राये । चितयन् । अत्रिम् । अस्परित्यस्पः ॥vā́jaḥ ǀ nú ǀ te ǀ śávasaḥ ǀ pātu ǀ ántam ǀ urúm ǀ dógham ǀ dharúṇam ǀ deva ǀ rāyáḥ ǀ
padám ǀ ná ǀ tāyúḥ ǀ gúhā ǀ dádhānaḥ ǀ maháḥ ǀ rāyé ǀ citáyan ǀ átrim ǀ asparítyaspaḥ ǁvājaḥ ǀ nu ǀ te ǀ śavasaḥ ǀ pātu ǀ antam ǀ urum ǀ dogham ǀ dharuṇam ǀ deva ǀ rāyaḥ ǀ
padam ǀ na ǀ tāyuḥ ǀ guhā ǀ dadhānaḥ ǀ mahaḥ ǀ rāye ǀ citayan ǀ atrim ǀ asparityaspaḥ ǁ5.15.5 Aṣṭaka 4.1.7.5Anuvāka 5.2.5
Text, recitation and interpretations from the Ṛgveda database of theveda.org.in.