Sūkta 29
- Devatā देवता
- Indra
- Ṛṣi ऋषि
- Gaurivīti Śāktya
- Chandas छन्दस्
- Triṣṭubh
Metres by ṛk
1st set of styles nicṛttriṣṭup (3, 5, 6, 9-11); virāṭtrisṭup (12-15); triṣṭup (2, 4, 7); bhurikpaṅkti (1); svarāṭpaṅkti (8)
2nd set of styles triṣṭubh
-
Ṛk 1
त्र्य॑र्य॒मा मनु॑षो दे॒वता॑ता॒ त्री रो॑च॒ना दि॒व्या धा॑रयंत ।
अर्चं॑ति त्वा म॒रुतः॑ पू॒तद॑क्षा॒स्त्वमे॑षा॒मृषि॑रिंद्रासि॒ धीरः॑ ॥त्र्य् अर्यमा मनुषो देवताता त्री रोचना दिव्या धारयन्त |
अर्चन्ति त्वा मरुतः पूतदक्षास् त्वम् एषाम् ऋषिर् इन्द्रासि धीरः ||tryáryamā́ mánuṣo devátātā trī́ rocanā́ divyā́ dhārayanta ǀ
árcanti tvā marútaḥ pūtádakṣāstvámeṣāmṛ́ṣirindrāsi dhī́raḥ ǁtry aryamā manuṣo devatātā trī rocanā divyā dhārayanta |
arcanti tvā marutaḥ pūtadakṣās tvam eṣām ṛṣir indrāsi dhīraḥ ||त्री । अ॒र्य॒मा । मनु॑षः । दे॒वऽता॑ता । त्री । रो॒च॒ना । दि॒व्या । धा॒र॒य॒न्त॒ ।
अर्च॑न्ति । त्वा॒ । म॒रुतः॑ । पू॒तऽद॑क्षाः । त्वम् । ए॒षा॒म् । ऋषिः॑ । इ॒न्द्र॒ । अ॒सि॒ । धीरः॑ ॥त्री । अर्यमा । मनुषः । देवऽताता । त्री । रोचना । दिव्या । धारयन्त ।
अर्चन्ति । त्वा । मरुतः । पूतऽदक्षाः । त्वम् । एषाम् । ऋषिः । इन्द्र । असि । धीरः ॥trī́ ǀ aryamā́ ǀ mánuṣaḥ ǀ devá-tātā ǀ trī́ ǀ rocanā́ ǀ divyā́ ǀ dhārayanta ǀ
árcanti ǀ tvā ǀ marútaḥ ǀ pūtá-dakṣāḥ ǀ tvám ǀ eṣām ǀ ṛ́ṣiḥ ǀ indra ǀ asi ǀ dhī́raḥ ǁtrī ǀ aryamā ǀ manuṣaḥ ǀ deva-tātā ǀ trī ǀ rocanā ǀ divyā ǀ dhārayanta ǀ
arcanti ǀ tvā ǀ marutaḥ ǀ pūta-dakṣāḥ ǀ tvam ǀ eṣām ǀ ṛṣiḥ ǀ indra ǀ asi ǀ dhīraḥ ǁ5.29.1 Aṣṭaka 4.1.23.1Anuvāka 5.2.76
-
Ṛk 2
अनु॒ यदीं॑ म॒रुतो॑ मंदसा॒नमार्च॒न्निंद्रं॑ पपि॒वांसं॑ सु॒तस्य॑ ।
आद॑त्त॒ वज्र॑म॒भि यदहिं॒ हन्न॒पो य॒ह्वीर॑सृज॒त्सर्त॒वा उ॑ ॥अनु यद् ईम् मरुतो मन्दसानम् आर्चन्न् इन्द्रम् पपिवांसं सुतस्य |
आदत्त वज्रम् अभि यद् अहिं हन्न् अपो यह्वीर् असृजत् सर्तवा उ ||ánu yádīm marúto mandasānámā́rcanníndram papivā́ṃsam sutásya ǀ
ā́datta vájramabhí yádáhim hánnapó yahvī́rasṛjatsártavā́ u ǁanu yad īm maruto mandasānam ārcann indram papivāṃsaṃ sutasya |
ādatta vajram abhi yad ahiṃ hann apo yahvīr asṛjat sartavā u ||अनु॑ । यत् । ई॒म् । म॒रुतः॑ । म॒न्द॒सा॒नम् । आर्च॑न् । इन्द्र॑म् । प॒पि॒ऽवांस॑म् । सु॒तस्य॑ ।
आ । अ॒द॒त्त॒ । वज्र॑म् । अ॒भि । यत् । अहि॑म् । हन् । अ॒पः । य॒ह्वीः । अ॒सृ॒ज॒त् । सर्त॒वै । ऊं॒ इति॑ ॥अनु । यत् । ईम् । मरुतः । मन्दसानम् । आर्चन् । इन्द्रम् । पपिऽवांसम् । सुतस्य ।
आ । अदत्त । वज्रम् । अभि । यत् । अहिम् । हन् । अपः । यह्वीः । असृजत् । सर्तवै । ऊं इति ॥ánu ǀ yát ǀ īm ǀ marútaḥ ǀ mandasānám ǀ ā́rcan ǀ índram ǀ papi-vā́ṃsam ǀ sutásya ǀ
ā́ ǀ adatta ǀ vájram ǀ abhí ǀ yát ǀ áhim ǀ hán ǀ apáḥ ǀ yahvī́ḥ ǀ asṛjat ǀ sártavái ǀ ūṃ íti ǁanu ǀ yat ǀ īm ǀ marutaḥ ǀ mandasānam ǀ ārcan ǀ indram ǀ papi-vāṃsam ǀ sutasya ǀ
ā ǀ adatta ǀ vajram ǀ abhi ǀ yat ǀ ahim ǀ han ǀ apaḥ ǀ yahvīḥ ǀ asṛjat ǀ sartavai ǀ ūṃ iti ǁ5.29.2 Aṣṭaka 4.1.23.2Anuvāka 5.2.77
-
Ṛk 3
उ॒त ब्र॑ह्माणो मरुतो मे अ॒स्येंद्रः॒ सोम॑स्य॒ सुषु॑तस्य पेयाः ।
तद्धि ह॒व्यं मनु॑षे॒ गा अविं॑द॒दह॒न्नहिं॑ पपि॒वाँ इंद्रो॑ अस्य ॥उत ब्रह्माणो मरुतो मे अस्येन्द्रः सोमस्य सुषुतस्य पेयाः |
तद् धि हव्यम् मनुषे गा अविन्दद् अहन्न् अहिम् पपिवां इन्द्रो अस्य ||utá brahmāṇo maruto me asyéndraḥ sómasya súṣutasya peyāḥ ǀ
táddhí havyám mánuṣe gā́ ávindadáhannáhim papivā́m̐ índro asya ǁuta brahmāṇo maruto me asyendraḥ somasya suṣutasya peyāḥ |
tad dhi havyam manuṣe gā avindad ahann ahim papivāṃ indro asya ||उ॒त । ब्र॒ह्मा॒णः॒ । म॒रु॒तः॒ । मे॒ । अ॒स्य॒ । इन्द्रः॑ । सोम॑स्य । सुऽसु॑तस्य । पे॒याः॒ ।
तत् । हि । ह॒व्यम् । मनु॑षे । गाः । अवि॑न्दत् । अह॑न् । अहि॑म् । प॒पि॒ऽवान् । इन्द्रः॑ । अ॒स्य॒ ॥उत । ब्रह्माणः । मरुतः । मे । अस्य । इन्द्रः । सोमस्य । सुऽसुतस्य । पेयाः ।
तत् । हि । हव्यम् । मनुषे । गाः । अविन्दत् । अहन् । अहिम् । पपिऽवान् । इन्द्रः । अस्य ॥utá ǀ brahmāṇaḥ ǀ marutaḥ ǀ me ǀ asya ǀ índraḥ ǀ sómasya ǀ sú-sutasya ǀ peyāḥ ǀ
tát ǀ hí ǀ havyám ǀ mánuṣe ǀ gā́ḥ ǀ ávindat ǀ áhan ǀ áhim ǀ papi-vā́n ǀ índraḥ ǀ asya ǁuta ǀ brahmāṇaḥ ǀ marutaḥ ǀ me ǀ asya ǀ indraḥ ǀ somasya ǀ su-sutasya ǀ peyāḥ ǀ
tat ǀ hi ǀ havyam ǀ manuṣe ǀ gāḥ ǀ avindat ǀ ahan ǀ ahim ǀ papi-vān ǀ indraḥ ǀ asya ǁ5.29.3 Aṣṭaka 4.1.23.3Anuvāka 5.2.78
-
Ṛk 4
आद्रोद॑सी वित॒रं वि ष्क॑भायत्संविव्या॒नश्चि॑द्भि॒यसे॑ मृ॒गं कः॑ ।
जिग॑र्ति॒मिंद्रो॑ अप॒जर्गु॑राणः॒ प्रति॑ श्व॒संत॒मव॑ दान॒वं ह॑न् ॥आद् रोदसी वितरं वि ष्कभायत् संविव्यानश् चिद् भियसे मृगं कः |
जिगर्तिम् इन्द्रो अपजर्गुराणः प्रति श्वसन्तम् अव दानवं हन् ||ā́dródasī vitarám ví ṣkabhāyatsaṃvivyānáścidbhiyáse mṛgám kaḥ ǀ
jígartimíndro apajárgurāṇaḥ práti śvasántamáva dānavám han ǁād rodasī vitaraṃ vi ṣkabhāyat saṃvivyānaś cid bhiyase mṛgaṃ kaḥ |
jigartim indro apajargurāṇaḥ prati śvasantam ava dānavaṃ han ||आत् । रोद॑सी॒ इति॑ । वि॒ऽत॒रम् । वि । स्क॒भा॒य॒त् । स॒म्ऽवि॒व्या॒नः । चि॒त् । भि॒यसे॑ । मृ॒गम् । क॒रिति॑ कः ।
जिग॑र्तिम् । इन्द्रः॑ । अ॒प॒ऽजर्गु॑राणः । प्रति॑ । श्व॒सन्त॑म् । अव॑ । दा॒न॒वम् । ह॒न्निति॑ हन् ॥आत् । रोदसी इति । विऽतरम् । वि । स्कभायत् । सम्ऽविव्यानः । चित् । भियसे । मृगम् । करिति कः ।
जिगर्तिम् । इन्द्रः । अपऽजर्गुराणः । प्रति । श्वसन्तम् । अव । दानवम् । हन्निति हन् ॥ā́t ǀ ródasī íti ǀ vi-tarám ǀ ví ǀ skabhāyat ǀ sam-vivyānáḥ ǀ cit ǀ bhiyáse ǀ mṛgám ǀ karíti kaḥ ǀ
jígartim ǀ índraḥ ǀ apa-járgurāṇaḥ ǀ práti ǀ śvasántam ǀ áva ǀ dānavám ǀ hanníti han ǁāt ǀ rodasī iti ǀ vi-taram ǀ vi ǀ skabhāyat ǀ sam-vivyānaḥ ǀ cit ǀ bhiyase ǀ mṛgam ǀ kariti kaḥ ǀ
jigartim ǀ indraḥ ǀ apa-jargurāṇaḥ ǀ prati ǀ śvasantam ǀ ava ǀ dānavam ǀ hanniti han ǁ5.29.4 Aṣṭaka 4.1.23.4Anuvāka 5.2.79
-
Ṛk 5
अध॒ क्रत्वा॑ मघवं॒तुभ्यं॑ दे॒वा अनु॒ विश्वे॑ अददुः सोम॒पेयं॑ ।
यत्सूर्य॑स्य ह॒रितः॒ पतं॑तीः पु॒रः स॒तीरुप॑रा॒ एत॑शे॒ कः ॥अध क्रत्वा मघवन् तुभ्यं देवा अनु विश्वे अददुः सोमपेयम् |
यत् सूर्यस्य हरितः पतन्तीः पुरः सतीर् उपरा एतशे कः ||ádha krátvā maghavantúbhyam devā́ ánu víśve adaduḥ somapéyam ǀ
yátsū́ryasya harítaḥ pátantīḥ puráḥ satī́rúparā étaśe káḥ ǁadha kratvā maghavan tubhyaṃ devā anu viśve adaduḥ somapeyam |
yat sūryasya haritaḥ patantīḥ puraḥ satīr uparā etaśe kaḥ ||अध॑ । क्रत्वा॑ । म॒घ॒ऽव॒न् । तुभ्य॑म् । दे॒वाः । अनु॑ । विश्वे॑ । अ॒द॒दुः॒ । सो॒म॒ऽपेय॑म् ।
यत् । सूर्य॑स्य । ह॒रितः॑ । पत॑न्तीः । पु॒रः । स॒तीः । उप॑राः । एत॑शे । करिति॒ कः ॥अध । क्रत्वा । मघऽवन् । तुभ्यम् । देवाः । अनु । विश्वे । अददुः । सोमऽपेयम् ।
यत् । सूर्यस्य । हरितः । पतन्तीः । पुरः । सतीः । उपराः । एतशे । करिति कः ॥ádha ǀ krátvā ǀ magha-van ǀ túbhyam ǀ devā́ḥ ǀ ánu ǀ víśve ǀ adaduḥ ǀ soma-péyam ǀ
yát ǀ sū́ryasya ǀ harítaḥ ǀ pátantīḥ ǀ puráḥ ǀ satī́ḥ ǀ úparāḥ ǀ étaśe ǀ káríti káḥ ǁadha ǀ kratvā ǀ magha-van ǀ tubhyam ǀ devāḥ ǀ anu ǀ viśve ǀ adaduḥ ǀ soma-peyam ǀ
yat ǀ sūryasya ǀ haritaḥ ǀ patantīḥ ǀ puraḥ ǀ satīḥ ǀ uparāḥ ǀ etaśe ǀ kariti kaḥ ǁ5.29.5 Aṣṭaka 4.1.23.5Anuvāka 5.2.80
-
Ṛk 6
नव॒ यद॑स्य नव॒तिं च॑ भो॒गान्त्सा॒कं वज्रे॑ण म॒घवा॑ विवृ॒श्चत् ।
अर्चं॒तींद्रं॑ म॒रुतः॑ स॒धस्थे॒ त्रैष्टु॑भेन॒ वच॑सा बाधत॒ द्यां ॥नव यद् अस्य नवतिं च भोगान् साकं वज्रेण मघवा विवृश्चत् |
अर्चन्तीन्द्रम् मरुतः सधस्थे त्रैष्टुभेन वचसा बाधत द्याम् ||náva yádasya navatím ca bhogā́ntsākám vájreṇa maghávā vivṛścát ǀ
árcantī́ndram marútaḥ sadhásthe tráiṣṭubhena vácasā bādhata dyā́m ǁnava yad asya navatiṃ ca bhogān sākaṃ vajreṇa maghavā vivṛścat |
arcantīndram marutaḥ sadhasthe traiṣṭubhena vacasā bādhata dyām ||नव॑ । यत् । अ॒स्य॒ । न॒व॒तिम् । च॒ । भो॒गान् । सा॒कम् । वज्रे॑ण । म॒घऽवा॑ । वि॒ऽवृ॒श्चत् ।
अर्च॑न्ति । इन्द्र॑म् । म॒रुतः॑ । स॒धऽस्थे॑ । त्रैस्तु॑भेन । वच॑सा । बा॒ध॒त॒ । द्याम् ॥नव । यत् । अस्य । नवतिम् । च । भोगान् । साकम् । वज्रेण । मघऽवा । विऽवृश्चत् ।
अर्चन्ति । इन्द्रम् । मरुतः । सधऽस्थे । त्रैस्तुभेन । वचसा । बाधत । द्याम् ॥náva ǀ yát ǀ asya ǀ navatím ǀ ca ǀ bhogā́n ǀ sākám ǀ vájreṇa ǀ maghá-vā ǀ vi-vṛścát ǀ
árcanti ǀ índram ǀ marútaḥ ǀ sadhá-sthe ǀ tráistubhena ǀ vácasā ǀ bādhata ǀ dyā́m ǁnava ǀ yat ǀ asya ǀ navatim ǀ ca ǀ bhogān ǀ sākam ǀ vajreṇa ǀ magha-vā ǀ vi-vṛścat ǀ
arcanti ǀ indram ǀ marutaḥ ǀ sadha-sthe ǀ traistubhena ǀ vacasā ǀ bādhata ǀ dyām ǁ5.29.6 Aṣṭaka 4.1.24.1Anuvāka 5.2.81
-
Ṛk 7
सखा॒ सख्ये॑ अपच॒त्तूय॑म॒ग्निर॒स्य क्रत्वा॑ महि॒षा त्री श॒तानि॑ ।
त्री सा॒कमिंद्रो॒ मनु॑षः॒ सरां॑सि सु॒तं पि॑बद्वृत्र॒हत्या॑य॒ सोमं॑ ॥सखा सख्ये अपचत् तूयम् अग्निर् अस्य क्रत्वा महिषा त्री शतानि |
त्री साकम् इन्द्रो मनुषः सरांसि सुतम् पिबद् वृत्रहत्याय सोमम् ||sákhā sákhye apacattū́yamagnírasyá krátvā mahiṣā́ trī́ śatā́ni ǀ
trī́ sākámíndro mánuṣaḥ sárāṃsi sutám pibadvṛtrahátyāya sómam ǁsakhā sakhye apacat tūyam agnir asya kratvā mahiṣā trī śatāni |
trī sākam indro manuṣaḥ sarāṃsi sutam pibad vṛtrahatyāya somam ||सखा॑ । सख्ये॑ । अ॒प॒च॒त् । तूय॑म् । अ॒ग्निः । अ॒स्य । क्रत्वा॑ । म॒हि॒षा । त्री । श॒तानि॑ ।
त्री । सा॒कम् । इन्द्रः॑ । मनु॑षः । सरां॑सि । सु॒तम् । पि॒ब॒त् । वृ॒त्र॒ऽहत्या॑य । सोम॑म् ॥सखा । सख्ये । अपचत् । तूयम् । अग्निः । अस्य । क्रत्वा । महिषा । त्री । शतानि ।
त्री । साकम् । इन्द्रः । मनुषः । सरांसि । सुतम् । पिबत् । वृत्रऽहत्याय । सोमम् ॥sákhā ǀ sákhye ǀ apacat ǀ tū́yam ǀ agníḥ ǀ asyá ǀ krátvā ǀ mahiṣā́ ǀ trī́ ǀ śatā́ni ǀ
trī́ ǀ sākám ǀ índraḥ ǀ mánuṣaḥ ǀ sárāṃsi ǀ sutám ǀ pibat ǀ vṛtra-hátyāya ǀ sómam ǁsakhā ǀ sakhye ǀ apacat ǀ tūyam ǀ agniḥ ǀ asya ǀ kratvā ǀ mahiṣā ǀ trī ǀ śatāni ǀ
trī ǀ sākam ǀ indraḥ ǀ manuṣaḥ ǀ sarāṃsi ǀ sutam ǀ pibat ǀ vṛtra-hatyāya ǀ somam ǁ5.29.7 Aṣṭaka 4.1.24.2Anuvāka 5.2.82
-
Ṛk 8
त्री यच्छ॒ता म॑हि॒षाणा॒मघो॒ मास्त्री सरां॑सि म॒घवा॑ सो॒म्यापाः॑ ।
का॒रं न विश्वे॑ अह्वंत दे॒वा भर॒मिंद्रा॑य॒ यदहिं॑ ज॒घान॑ ॥त्री यच् छता महिषाणाम् अघो मास् त्री सरांसि मघवा सोम्यापाः |
कारं न विश्वे अह्वन्त देवा भरम् इन्द्राय यद् अहिं जघान ||trī́ yácchatā́ mahiṣā́ṇāmágho mā́strī́ sárāṃsi maghávā somyā́pāḥ ǀ
kārám ná víśve ahvanta devā́ bháramíndrāya yádáhim jaghā́na ǁtrī yac chatā mahiṣāṇām agho mās trī sarāṃsi maghavā somyāpāḥ |
kāraṃ na viśve ahvanta devā bharam indrāya yad ahiṃ jaghāna ||त्री । यत् । श॒ता । म॒हि॒षाणा॑म् । अघः॑ । माः । त्री । सरां॑सि । म॒घऽवा॑ । सो॒म्या । अपाः॑ ।
का॒रम् । न । विश्वे॑ । अ॒ह्व॒न्त॒ । दे॒वाः । भर॑म् । इन्द्रा॑य । यत् । अहि॑म् । ज॒घान॑ ॥त्री । यत् । शता । महिषाणाम् । अघः । माः । त्री । सरांसि । मघऽवा । सोम्या । अपाः ।
कारम् । न । विश्वे । अह्वन्त । देवाः । भरम् । इन्द्राय । यत् । अहिम् । जघान ॥trī́ ǀ yát ǀ śatā́ ǀ mahiṣā́ṇām ǀ ághaḥ ǀ mā́ḥ ǀ trī́ ǀ sárāṃsi ǀ maghá-vā ǀ somyā́ ǀ ápāḥ ǀ
kārám ǀ ná ǀ víśve ǀ ahvanta ǀ devā́ḥ ǀ bháram ǀ índrāya ǀ yát ǀ áhim ǀ jaghā́na ǁtrī ǀ yat ǀ śatā ǀ mahiṣāṇām ǀ aghaḥ ǀ māḥ ǀ trī ǀ sarāṃsi ǀ magha-vā ǀ somyā ǀ apāḥ ǀ
kāram ǀ na ǀ viśve ǀ ahvanta ǀ devāḥ ǀ bharam ǀ indrāya ǀ yat ǀ ahim ǀ jaghāna ǁ5.29.8 Aṣṭaka 4.1.24.3Anuvāka 5.2.83
-
Ṛk 9
उ॒शना॒ यत्स॑ह॒स्यै॒३॒॑रया॑तं गृ॒हमिं॑द्र जूजुवा॒नेभि॒रश्वैः॑ ।
व॒न्वा॒नो अत्र॑ स॒रथं॑ ययाथ॒ कुत्से॑न दे॒वैरव॑नोर्ह॒ शुष्णं॑ ॥उशना यत् सहस्यैर् अयातं गृहम् इन्द्र जूजुवानेभिर् अश्वैः |
वन्वानो अत्र सरथं ययाथ कुत्सेन देवैर् अवनोर् ह शुष्णम् ||uśánā yátsahasyáiráyātam gṛhámindra jūjuvānébhiráśvaiḥ ǀ
vanvānó átra sarátham yayātha kútsena deváirávanorha śúṣṇam ǁuśanā yat sahasyair ayātaṃ gṛham indra jūjuvānebhir aśvaiḥ |
vanvāno atra sarathaṃ yayātha kutsena devair avanor ha śuṣṇam ||उ॒शना॑ । यत् । स॒ह॒स्यैः॑ । अया॑तम् । गृ॒हम् । इ॒न्द्र॒ । जू॒जु॒वा॒नेभिः॑ । अश्वैः॑ ।
व॒न्वा॒नः । अत्र॑ । स॒ऽरथ॑म् । य॒या॒थ॒ । कुत्से॑न । दे॒वैः । अव॑नोः । ह॒ । शुष्ण॑म् ॥उशना । यत् । सहस्यैः । अयातम् । गृहम् । इन्द्र । जूजुवानेभिः । अश्वैः ।
वन्वानः । अत्र । सऽरथम् । ययाथ । कुत्सेन । देवैः । अवनोः । ह । शुष्णम् ॥uśánā ǀ yát ǀ sahasyáiḥ ǀ áyātam ǀ gṛhám ǀ indra ǀ jūjuvānébhiḥ ǀ áśvaiḥ ǀ
vanvānáḥ ǀ átra ǀ sa-rátham ǀ yayātha ǀ kútsena ǀ deváiḥ ǀ ávanoḥ ǀ ha ǀ śúṣṇam ǁuśanā ǀ yat ǀ sahasyaiḥ ǀ ayātam ǀ gṛham ǀ indra ǀ jūjuvānebhiḥ ǀ aśvaiḥ ǀ
vanvānaḥ ǀ atra ǀ sa-ratham ǀ yayātha ǀ kutsena ǀ devaiḥ ǀ avanoḥ ǀ ha ǀ śuṣṇam ǁ5.29.9 Aṣṭaka 4.1.24.4Anuvāka 5.2.84
-
Ṛk 10
प्रान्यच्च॒क्रम॑वृहः॒ सूर्य॑स्य॒ कुत्सा॑या॒न्यद्वरि॑वो॒ यात॑वेऽकः ।
अ॒नासो॒ दस्यूँ॑रमृणो व॒धेन॒ नि दु॑र्यो॒ण आ॑वृणङ्मृ॒ध्रवा॑चः ॥प्रान्यच् चक्रम् अवृहः सूर्यस्य कुत्सायान्यद् वरिवो यातवे ऽकः |
अनासो दस्यूंर् अमृणो वधेन नि दुर्योण आवृणङ् मृध्रवाचः ||prā́nyáccakrámavṛhaḥ sū́ryasya kútsāyānyádvárivo yā́tave’kaḥ ǀ
anā́so dásyūm̐ramṛṇo vadhéna ní duryoṇá āvṛṇaṅmṛdhrávācaḥ ǁprānyac cakram avṛhaḥ sūryasya kutsāyānyad varivo yātave 'kaḥ |
anāso dasyūṃr amṛṇo vadhena ni duryoṇa āvṛṇaṅ mṛdhravācaḥ ||प्र । अ॒न्यत् । च॒क्रम् । अ॒वृ॒हः॒ । सूर्य॑स्य । कुत्सा॑य । अ॒न्यत् । वरि॑वः । यात॑वे । अ॒क॒रित्य॑कः ।
अ॒नासः॑ । दस्यू॑न् । अ॒मृ॒णः॒ । व॒धेन॑ । नि । दु॒र्यो॒णे । अ॒वृ॒ण॒क् । मृ॒ध्रऽवा॑चः ॥प्र । अन्यत् । चक्रम् । अवृहः । सूर्यस्य । कुत्साय । अन्यत् । वरिवः । यातवे । अकरित्यकः ।
अनासः । दस्यून् । अमृणः । वधेन । नि । दुर्योणे । अवृणक् । मृध्रऽवाचः ॥prá ǀ anyát ǀ cakrám ǀ avṛhaḥ ǀ sū́ryasya ǀ kútsāya ǀ anyát ǀ várivaḥ ǀ yā́tave ǀ akarítyakaḥ ǀ
anā́saḥ ǀ dásyūn ǀ amṛṇaḥ ǀ vadhéna ǀ ní ǀ duryoṇé ǀ avṛṇak ǀ mṛdhrá-vācaḥ ǁpra ǀ anyat ǀ cakram ǀ avṛhaḥ ǀ sūryasya ǀ kutsāya ǀ anyat ǀ varivaḥ ǀ yātave ǀ akarityakaḥ ǀ
anāsaḥ ǀ dasyūn ǀ amṛṇaḥ ǀ vadhena ǀ ni ǀ duryoṇe ǀ avṛṇak ǀ mṛdhra-vācaḥ ǁ5.29.10 Aṣṭaka 4.1.24.5Anuvāka 5.2.85
-
Ṛk 11
स्तोमा॑सस्त्वा॒ गौरि॑वीतेरवर्ध॒न्नरं॑धयो वैदथि॒नाय॒ पिप्रुं॑ ।
आ त्वामृ॒जिश्वा॑ स॒ख्याय॑ चक्रे॒ पच॑न्प॒क्तीरपि॑बः॒ सोम॑मस्य ॥स्तोमासस् त्वा गौरिवीतेर् अवर्धन्न् अरन्धयो वैदथिनाय पिप्रुम् |
आ त्वाम् ऋजिश्वा सख्याय चक्रे पचन् पक्तीर् अपिबः सोमम् अस्य ||stómāsastvā gáurivīteravardhannárandhayo vaidathinā́ya píprum ǀ
ā́ tvā́mṛjíśvā sakhyā́ya cakre pácanpaktī́rápibaḥ sómamasya ǁstomāsas tvā gaurivīter avardhann arandhayo vaidathināya piprum |
ā tvām ṛjiśvā sakhyāya cakre pacan paktīr apibaḥ somam asya ||स्तोमा॑सः । त्वा॒ । गौरि॑ऽवीतेः । अ॒व॒र्ध॒न् । अर॑न्धयः । वै॒द॒थि॒नाय॑ । पिप्रु॑म् ।
आ । त्वाम् । ऋ॒जिश्वा॑ । स॒ख्याय॑ । च॒क्रे॒ । पच॑न् । प॒क्तीः । अपि॑बः । सोम॑म् । अ॒स्य॒ ॥स्तोमासः । त्वा । गौरिऽवीतेः । अवर्धन् । अरन्धयः । वैदथिनाय । पिप्रुम् ।
आ । त्वाम् । ऋजिश्वा । सख्याय । चक्रे । पचन् । पक्तीः । अपिबः । सोमम् । अस्य ॥stómāsaḥ ǀ tvā ǀ gáuri-vīteḥ ǀ avardhan ǀ árandhayaḥ ǀ vaidathinā́ya ǀ píprum ǀ
ā́ ǀ tvā́m ǀ ṛjíśvā ǀ sakhyā́ya ǀ cakre ǀ pácan ǀ paktī́ḥ ǀ ápibaḥ ǀ sómam ǀ asya ǁstomāsaḥ ǀ tvā ǀ gauri-vīteḥ ǀ avardhan ǀ arandhayaḥ ǀ vaidathināya ǀ piprum ǀ
ā ǀ tvām ǀ ṛjiśvā ǀ sakhyāya ǀ cakre ǀ pacan ǀ paktīḥ ǀ apibaḥ ǀ somam ǀ asya ǁ5.29.11 Aṣṭaka 4.1.25.1Anuvāka 5.2.86
-
Ṛk 12
नव॑ग्वासः सु॒तसो॑मास॒ इंद्रं॒ दश॑ग्वासो अ॒भ्य॑र्चंत्य॒र्कैः ।
गव्यं॑ चिदू॒र्वम॑पि॒धान॑वंतं॒ तं चि॒न्नरः॑ शशमा॒ना अप॑ व्रन् ॥नवग्वासः सुतसोमास इन्द्रं दशग्वासो अभ्य् अर्चन्त्य् अर्कैः |
गव्यं चिद् ऊर्वम् अपिधानवन्तं तं चिन् नरः शशमाना अप व्रन् ||návagvāsaḥ sutásomāsa índram dáśagvāso abhyárcantyarkáiḥ ǀ
gávyam cidūrvámapidhā́navantam tám cinnáraḥ śaśamānā́ ápa vran ǁnavagvāsaḥ sutasomāsa indraṃ daśagvāso abhy arcanty arkaiḥ |
gavyaṃ cid ūrvam apidhānavantaṃ taṃ cin naraḥ śaśamānā apa vran ||नव॑ऽग्वासः । सु॒तऽसो॑मासः । इन्द्र॑म् । दश॑ऽग्वासः । अ॒भि । अ॒र्च॒न्ति॒ । अ॒र्कैः ।
गव्य॑म् । चि॒त् । ऊ॒र्वम् । अ॒पि॒धान॑ऽवन्तम् । तम् । चि॒त् । नरः॑ । श॒श॒मा॒नाः । अप॑ । व्र॒न् ॥नवऽग्वासः । सुतऽसोमासः । इन्द्रम् । दशऽग्वासः । अभि । अर्चन्ति । अर्कैः ।
गव्यम् । चित् । ऊर्वम् । अपिधानऽवन्तम् । तम् । चित् । नरः । शशमानाः । अप । व्रन् ॥náva-gvāsaḥ ǀ sutá-somāsaḥ ǀ índram ǀ dáśa-gvāsaḥ ǀ abhí ǀ arcanti ǀ arkáiḥ ǀ
gávyam ǀ cit ǀ ūrvám ǀ apidhā́na-vantam ǀ tám ǀ cit ǀ náraḥ ǀ śaśamānā́ḥ ǀ ápa ǀ vran ǁnava-gvāsaḥ ǀ suta-somāsaḥ ǀ indram ǀ daśa-gvāsaḥ ǀ abhi ǀ arcanti ǀ arkaiḥ ǀ
gavyam ǀ cit ǀ ūrvam ǀ apidhāna-vantam ǀ tam ǀ cit ǀ naraḥ ǀ śaśamānāḥ ǀ apa ǀ vran ǁ5.29.12 Aṣṭaka 4.1.25.2Anuvāka 5.2.87
-
Ṛk 13
क॒थो नु ते॒ परि॑ चराणि वि॒द्वान्वी॒र्या॑ मघव॒न्या च॒कर्थ॑ ।
या चो॒ नु नव्या॑ कृ॒णवः॑ शविष्ठ॒ प्रेदु॒ ता ते॑ वि॒दथे॑षु ब्रवाम ॥कथो नु ते परि चराणि विद्वान् वीर्या मघवन् या चकर्थ |
या चो नु नव्या कृणवः शविष्ठ प्रेद् उ ता ते विदथेषु ब्रवाम ||kathó nú te pári carāṇi vidvā́nvīryā́ maghavanyā́ cakártha ǀ
yā́ co nú návyā kṛṇávaḥ śaviṣṭha prédu tā́ te vidátheṣu bravāma ǁkatho nu te pari carāṇi vidvān vīryā maghavan yā cakartha |
yā co nu navyā kṛṇavaḥ śaviṣṭha pred u tā te vidatheṣu bravāma ||क॒थो इति॑ । नु । ते॒ । परि॑ । च॒रा॒णि॒ । वि॒द्वान् । वी॒र्या॑ । म॒घ॒ऽव॒न् । या । च॒कर्थ॑ ।
या । चो॒ इति॑ । नु । नव्या॑ । कृ॒णवः॑ । श॒वि॒ष्ठ॒ । प्र । इत् । ऊं॒ इति॑ । ता । ते॒ । वि॒दथे॑षु । ब्र॒वा॒म॒ ॥कथो इति । नु । ते । परि । चराणि । विद्वान् । वीर्या । मघऽवन् । या । चकर्थ ।
या । चो इति । नु । नव्या । कृणवः । शविष्ठ । प्र । इत् । ऊं इति । ता । ते । विदथेषु । ब्रवाम ॥kathó íti ǀ nú ǀ te ǀ pári ǀ carāṇi ǀ vidvā́n ǀ vīryā́ ǀ magha-van ǀ yā́ ǀ cakártha ǀ
yā́ ǀ co íti ǀ nú ǀ návyā ǀ kṛṇávaḥ ǀ śaviṣṭha ǀ prá ǀ ít ǀ ūṃ íti ǀ tā́ ǀ te ǀ vidátheṣu ǀ bravāma ǁkatho iti ǀ nu ǀ te ǀ pari ǀ carāṇi ǀ vidvān ǀ vīryā ǀ magha-van ǀ yā ǀ cakartha ǀ
yā ǀ co iti ǀ nu ǀ navyā ǀ kṛṇavaḥ ǀ śaviṣṭha ǀ pra ǀ it ǀ ūṃ iti ǀ tā ǀ te ǀ vidatheṣu ǀ bravāma ǁ5.29.13 Aṣṭaka 4.1.25.3Anuvāka 5.2.88
-
Ṛk 14
ए॒ता विश्वा॑ चकृ॒वाँ इं॑द्र॒ भूर्यप॑रीतो ज॒नुषा॑ वी॒र्ये॑ण ।
या चि॒न्नु व॑ज्रिन्कृ॒णवो॑ दधृ॒ष्वान्न ते॑ व॒र्ता तवि॑ष्या अस्ति॒ तस्याः॑ ॥एता विश्वा चकृवां इन्द्र भूर्य् अपरीतो जनुषा वीर्येण |
या चिन् नु वज्रिन् कृणवो दधृष्वान् न ते वर्ता तविष्या अस्ति तस्याः ||etā́ víśvā cakṛvā́m̐ indra bhū́ryáparīto janúṣā vīryeṇa ǀ
yā́ cinnú vajrinkṛṇávo dadhṛṣvā́nná te vartā́ táviṣyā asti tásyāḥ ǁetā viśvā cakṛvāṃ indra bhūry aparīto januṣā vīryeṇa |
yā cin nu vajrin kṛṇavo dadhṛṣvān na te vartā taviṣyā asti tasyāḥ ||ए॒ता । विश्वा॑ । च॒कृ॒ऽवान् । इ॒न्द्र॒ । भूरि॑ । अप॑रिऽइतः । ज॒नुषा॑ । वी॒र्ये॑ण ।
या । चि॒त् । नु । व॒ज्रि॒न् । कृ॒णवः॑ । द॒धृ॒ष्वान् । न । ते॒ । व॒र्ता । तवि॑ष्याः । अ॒स्ति॒ । तस्याः॑ ॥एता । विश्वा । चकृऽवान् । इन्द्र । भूरि । अपरिऽइतः । जनुषा । वीर्येण ।
या । चित् । नु । वज्रिन् । कृणवः । दधृष्वान् । न । ते । वर्ता । तविष्याः । अस्ति । तस्याः ॥etā́ ǀ víśvā ǀ cakṛ-vā́n ǀ indra ǀ bhū́ri ǀ ápari-itaḥ ǀ janúṣā ǀ vīryéṇa ǀ
yā́ ǀ cit ǀ nú ǀ vajrin ǀ kṛṇávaḥ ǀ dadhṛṣvā́n ǀ ná ǀ te ǀ vartā́ ǀ táviṣyāḥ ǀ asti ǀ tásyāḥ ǁetā ǀ viśvā ǀ cakṛ-vān ǀ indra ǀ bhūri ǀ apari-itaḥ ǀ januṣā ǀ vīryeṇa ǀ
yā ǀ cit ǀ nu ǀ vajrin ǀ kṛṇavaḥ ǀ dadhṛṣvān ǀ na ǀ te ǀ vartā ǀ taviṣyāḥ ǀ asti ǀ tasyāḥ ǁ5.29.14 Aṣṭaka 4.1.25.4Anuvāka 5.2.89
-
Ṛk 15
इंद्र॒ ब्रह्म॑ क्रि॒यमा॑णा जुषस्व॒ या ते॑ शविष्ठ॒ नव्या॒ अक॑र्म ।
वस्त्रे॑व भ॒द्रा सुकृ॑ता वसू॒यू रथं॒ न धीरः॒ स्वपा॑ अतक्षं ॥इन्द्र ब्रह्म क्रियमाणा जुषस्व या ते शविष्ठ नव्या अकर्म |
वस्त्रेव भद्रा सुकृता वसूयू रथं न धीरः स्वपा अतक्षम् ||índra bráhma kriyámāṇā juṣasva yā́ te śaviṣṭha návyā ákarma ǀ
vástreva bhadrā́ súkṛtā vasūyū́ rátham ná dhī́raḥ svápā atakṣam ǁindra brahma kriyamāṇā juṣasva yā te śaviṣṭha navyā akarma |
vastreva bhadrā sukṛtā vasūyū rathaṃ na dhīraḥ svapā atakṣam ||इन्द्र॑ । ब्रह्म॑ । क्रि॒यमा॑णा । जु॒ष॒स्व॒ । या । ते॒ । श॒वि॒ष्ठ॒ । नव्याः॑ । अक॑र्म ।
वस्त्रा॑ऽइव । भ॒द्रा । सुऽकृ॑ता । व॒सु॒ऽयुः । रथ॑म् । न । धीरः॑ । सु॒ऽअपाः॑ । अ॒त॒क्ष॒म् ॥इन्द्र । ब्रह्म । क्रियमाणा । जुषस्व । या । ते । शविष्ठ । नव्याः । अकर्म ।
वस्त्राऽइव । भद्रा । सुऽकृता । वसुऽयुः । रथम् । न । धीरः । सुऽअपाः । अतक्षम् ॥índra ǀ bráhma ǀ kriyámāṇā ǀ juṣasva ǀ yā́ ǀ te ǀ śaviṣṭha ǀ návyāḥ ǀ ákarma ǀ
vástrā-iva ǀ bhadrā́ ǀ sú-kṛtā ǀ vasu-yúḥ ǀ rátham ǀ ná ǀ dhī́raḥ ǀ su-ápāḥ ǀ atakṣam ǁindra ǀ brahma ǀ kriyamāṇā ǀ juṣasva ǀ yā ǀ te ǀ śaviṣṭha ǀ navyāḥ ǀ akarma ǀ
vastrā-iva ǀ bhadrā ǀ su-kṛtā ǀ vasu-yuḥ ǀ ratham ǀ na ǀ dhīraḥ ǀ su-apāḥ ǀ atakṣam ǁ5.29.15 Aṣṭaka 4.1.25.5Anuvāka 5.2.90
Text, recitation and interpretations from the Ṛgveda database of theveda.org.in.