Ṛk 5.29.13
Saṃhitā
क॒थो नु ते॒ परि॑ चराणि वि॒द्वान्वी॒र्या॑ मघव॒न्या च॒कर्थ॑ ।
या चो॒ नु नव्या॑ कृ॒णवः॑ शविष्ठ॒ प्रेदु॒ ता ते॑ वि॒दथे॑षु ब्रवाम ॥
कथो नु ते परि चराणि विद्वान् वीर्या मघवन् या चकर्थ |
या चो नु नव्या कृणवः शविष्ठ प्रेद् उ ता ते विदथेषु ब्रवाम ||
kathó nú te pári carāṇi vidvā́nvīryā́ maghavanyā́ cakártha ǀ
yā́ co nú návyā kṛṇávaḥ śaviṣṭha prédu tā́ te vidátheṣu bravāma ǁ
katho nu te pari carāṇi vidvān vīryā maghavan yā cakartha |
yā co nu navyā kṛṇavaḥ śaviṣṭha pred u tā te vidatheṣu bravāma ||
Padapāṭha
क॒थो इति॑ । नु । ते॒ । परि॑ । च॒रा॒णि॒ । वि॒द्वान् । वी॒र्या॑ । म॒घ॒ऽव॒न् । या । च॒कर्थ॑ ।
या । चो॒ इति॑ । नु । नव्या॑ । कृ॒णवः॑ । श॒वि॒ष्ठ॒ । प्र । इत् । ऊं॒ इति॑ । ता । ते॒ । वि॒दथे॑षु । ब्र॒वा॒म॒ ॥
कथो इति । नु । ते । परि । चराणि । विद्वान् । वीर्या । मघऽवन् । या । चकर्थ ।
या । चो इति । नु । नव्या । कृणवः । शविष्ठ । प्र । इत् । ऊं इति । ता । ते । विदथेषु । ब्रवाम ॥
kathó íti ǀ nú ǀ te ǀ pári ǀ carāṇi ǀ vidvā́n ǀ vīryā́ ǀ magha-van ǀ yā́ ǀ cakártha ǀ
yā́ ǀ co íti ǀ nú ǀ návyā ǀ kṛṇávaḥ ǀ śaviṣṭha ǀ prá ǀ ít ǀ ūṃ íti ǀ tā́ ǀ te ǀ vidátheṣu ǀ bravāma ǁ
katho iti ǀ nu ǀ te ǀ pari ǀ carāṇi ǀ vidvān ǀ vīryā ǀ magha-van ǀ yā ǀ cakartha ǀ
yā ǀ co iti ǀ nu ǀ navyā ǀ kṛṇavaḥ ǀ śaviṣṭha ǀ pra ǀ it ǀ ūṃ iti ǀ tā ǀ te ǀ vidatheṣu ǀ bravāma ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 05.029.13
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 4.1.25.03
- Maṇḍala · Anuvāka · Ṛk
- 05.02.088
- Devatā देवता
- Indra
- Ṛṣi ऋषि
- Gaurivīti Śāktya
- Chandas छन्दस्
- Triṣṭubh
- Svara स्वरः
- धैवतः
Text and interpretations from the Ṛgveda database of theveda.org.in.