Ṛk 5.29.2
Saṃhitā
अनु॒ यदीं॑ म॒रुतो॑ मंदसा॒नमार्च॒न्निंद्रं॑ पपि॒वांसं॑ सु॒तस्य॑ ।
आद॑त्त॒ वज्र॑म॒भि यदहिं॒ हन्न॒पो य॒ह्वीर॑सृज॒त्सर्त॒वा उ॑ ॥
अनु यद् ईम् मरुतो मन्दसानम् आर्चन्न् इन्द्रम् पपिवांसं सुतस्य |
आदत्त वज्रम् अभि यद् अहिं हन्न् अपो यह्वीर् असृजत् सर्तवा उ ||
ánu yádīm marúto mandasānámā́rcanníndram papivā́ṃsam sutásya ǀ
ā́datta vájramabhí yádáhim hánnapó yahvī́rasṛjatsártavā́ u ǁ
anu yad īm maruto mandasānam ārcann indram papivāṃsaṃ sutasya |
ādatta vajram abhi yad ahiṃ hann apo yahvīr asṛjat sartavā u ||
Padapāṭha
अनु॑ । यत् । ई॒म् । म॒रुतः॑ । म॒न्द॒सा॒नम् । आर्च॑न् । इन्द्र॑म् । प॒पि॒ऽवांस॑म् । सु॒तस्य॑ ।
आ । अ॒द॒त्त॒ । वज्र॑म् । अ॒भि । यत् । अहि॑म् । हन् । अ॒पः । य॒ह्वीः । अ॒सृ॒ज॒त् । सर्त॒वै । ऊं॒ इति॑ ॥
अनु । यत् । ईम् । मरुतः । मन्दसानम् । आर्चन् । इन्द्रम् । पपिऽवांसम् । सुतस्य ।
आ । अदत्त । वज्रम् । अभि । यत् । अहिम् । हन् । अपः । यह्वीः । असृजत् । सर्तवै । ऊं इति ॥
ánu ǀ yát ǀ īm ǀ marútaḥ ǀ mandasānám ǀ ā́rcan ǀ índram ǀ papi-vā́ṃsam ǀ sutásya ǀ
ā́ ǀ adatta ǀ vájram ǀ abhí ǀ yát ǀ áhim ǀ hán ǀ apáḥ ǀ yahvī́ḥ ǀ asṛjat ǀ sártavái ǀ ūṃ íti ǁ
anu ǀ yat ǀ īm ǀ marutaḥ ǀ mandasānam ǀ ārcan ǀ indram ǀ papi-vāṃsam ǀ sutasya ǀ
ā ǀ adatta ǀ vajram ǀ abhi ǀ yat ǀ ahim ǀ han ǀ apaḥ ǀ yahvīḥ ǀ asṛjat ǀ sartavai ǀ ūṃ iti ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 05.029.02
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 4.1.23.02
- Maṇḍala · Anuvāka · Ṛk
- 05.02.077
- Devatā देवता
- Indra
- Ṛṣi ऋषि
- Gaurivīti Śāktya
- Chandas छन्दस्
- Triṣṭubh
- Svara स्वरः
- धैवतः
Text and interpretations from the Ṛgveda database of theveda.org.in.