Ṛk 5.29.8
Saṃhitā
त्री यच्छ॒ता म॑हि॒षाणा॒मघो॒ मास्त्री सरां॑सि म॒घवा॑ सो॒म्यापाः॑ ।
का॒रं न विश्वे॑ अह्वंत दे॒वा भर॒मिंद्रा॑य॒ यदहिं॑ ज॒घान॑ ॥
त्री यच् छता महिषाणाम् अघो मास् त्री सरांसि मघवा सोम्यापाः |
कारं न विश्वे अह्वन्त देवा भरम् इन्द्राय यद् अहिं जघान ||
trī́ yácchatā́ mahiṣā́ṇāmágho mā́strī́ sárāṃsi maghávā somyā́pāḥ ǀ
kārám ná víśve ahvanta devā́ bháramíndrāya yádáhim jaghā́na ǁ
trī yac chatā mahiṣāṇām agho mās trī sarāṃsi maghavā somyāpāḥ |
kāraṃ na viśve ahvanta devā bharam indrāya yad ahiṃ jaghāna ||
Padapāṭha
त्री । यत् । श॒ता । म॒हि॒षाणा॑म् । अघः॑ । माः । त्री । सरां॑सि । म॒घऽवा॑ । सो॒म्या । अपाः॑ ।
का॒रम् । न । विश्वे॑ । अ॒ह्व॒न्त॒ । दे॒वाः । भर॑म् । इन्द्रा॑य । यत् । अहि॑म् । ज॒घान॑ ॥
त्री । यत् । शता । महिषाणाम् । अघः । माः । त्री । सरांसि । मघऽवा । सोम्या । अपाः ।
कारम् । न । विश्वे । अह्वन्त । देवाः । भरम् । इन्द्राय । यत् । अहिम् । जघान ॥
trī́ ǀ yát ǀ śatā́ ǀ mahiṣā́ṇām ǀ ághaḥ ǀ mā́ḥ ǀ trī́ ǀ sárāṃsi ǀ maghá-vā ǀ somyā́ ǀ ápāḥ ǀ
kārám ǀ ná ǀ víśve ǀ ahvanta ǀ devā́ḥ ǀ bháram ǀ índrāya ǀ yát ǀ áhim ǀ jaghā́na ǁ
trī ǀ yat ǀ śatā ǀ mahiṣāṇām ǀ aghaḥ ǀ māḥ ǀ trī ǀ sarāṃsi ǀ magha-vā ǀ somyā ǀ apāḥ ǀ
kāram ǀ na ǀ viśve ǀ ahvanta ǀ devāḥ ǀ bharam ǀ indrāya ǀ yat ǀ ahim ǀ jaghāna ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 05.029.08
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 4.1.24.03
- Maṇḍala · Anuvāka · Ṛk
- 05.02.083
- Devatā देवता
- Indra
- Ṛṣi ऋषि
- Gaurivīti Śāktya
- Chandas छन्दस्
- Triṣṭubh
- Svara स्वरः
- धैवतः
Text and interpretations from the Ṛgveda database of theveda.org.in.