Ṛk 5.29.5
Saṃhitā
अध॒ क्रत्वा॑ मघवं॒तुभ्यं॑ दे॒वा अनु॒ विश्वे॑ अददुः सोम॒पेयं॑ ।
यत्सूर्य॑स्य ह॒रितः॒ पतं॑तीः पु॒रः स॒तीरुप॑रा॒ एत॑शे॒ कः ॥
अध क्रत्वा मघवन् तुभ्यं देवा अनु विश्वे अददुः सोमपेयम् |
यत् सूर्यस्य हरितः पतन्तीः पुरः सतीर् उपरा एतशे कः ||
ádha krátvā maghavantúbhyam devā́ ánu víśve adaduḥ somapéyam ǀ
yátsū́ryasya harítaḥ pátantīḥ puráḥ satī́rúparā étaśe káḥ ǁ
adha kratvā maghavan tubhyaṃ devā anu viśve adaduḥ somapeyam |
yat sūryasya haritaḥ patantīḥ puraḥ satīr uparā etaśe kaḥ ||
Padapāṭha
अध॑ । क्रत्वा॑ । म॒घ॒ऽव॒न् । तुभ्य॑म् । दे॒वाः । अनु॑ । विश्वे॑ । अ॒द॒दुः॒ । सो॒म॒ऽपेय॑म् ।
यत् । सूर्य॑स्य । ह॒रितः॑ । पत॑न्तीः । पु॒रः । स॒तीः । उप॑राः । एत॑शे । करिति॒ कः ॥
अध । क्रत्वा । मघऽवन् । तुभ्यम् । देवाः । अनु । विश्वे । अददुः । सोमऽपेयम् ।
यत् । सूर्यस्य । हरितः । पतन्तीः । पुरः । सतीः । उपराः । एतशे । करिति कः ॥
ádha ǀ krátvā ǀ magha-van ǀ túbhyam ǀ devā́ḥ ǀ ánu ǀ víśve ǀ adaduḥ ǀ soma-péyam ǀ
yát ǀ sū́ryasya ǀ harítaḥ ǀ pátantīḥ ǀ puráḥ ǀ satī́ḥ ǀ úparāḥ ǀ étaśe ǀ káríti káḥ ǁ
adha ǀ kratvā ǀ magha-van ǀ tubhyam ǀ devāḥ ǀ anu ǀ viśve ǀ adaduḥ ǀ soma-peyam ǀ
yat ǀ sūryasya ǀ haritaḥ ǀ patantīḥ ǀ puraḥ ǀ satīḥ ǀ uparāḥ ǀ etaśe ǀ kariti kaḥ ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 05.029.05
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 4.1.23.05
- Maṇḍala · Anuvāka · Ṛk
- 05.02.080
- Devatā देवता
- Indra
- Ṛṣi ऋषि
- Gaurivīti Śāktya
- Chandas छन्दस्
- Triṣṭubh
- Svara स्वरः
- धैवतः
Text and interpretations from the Ṛgveda database of theveda.org.in.