Sūkta 60
- Devatā देवता
- 1, 6-8: Maruts, Agni; 2-5: Maruts
- Ṛṣi ऋषि
- Śyāvāśva Ātreya
- Chandas छन्दस्
- Triṣṭubh, Jagatī
Metres by ṛk
1st set of styles nicṛttriṣṭup (1, 3-5); jagatī (7, 8); bhuriktriṣṭup (2); virāṭtrisṭup (6)
2nd set of styles triṣṭubh (1-6); jagatī (7, 8)
-
Ṛk 1
ईळे॑ अ॒ग्निं स्वव॑सं॒ नमो॑भिरि॒ह प्र॑स॒त्तो वि च॑यत्कृ॒तं नः॑ ।
रथै॑रिव॒ प्र भ॑रे वाज॒यद्भिः॑ प्रदक्षि॒णिन्म॒रुतां॒ स्तोम॑मृध्यां ॥ईळे अग्निं स्ववसं नमोभिर् इह प्रसत्तो वि चयत् कृतं नः |
रथैर् इव प्र भरे वाजयद्भिः प्रदक्षिणिन् मरुतां स्तोमम् ऋध्याम् ||ī́ḷe agním svávasam námobhirihá prasattó ví cayatkṛtám naḥ ǀ
ráthairiva prá bhare vājayádbhiḥ pradakṣiṇínmarútām stómamṛdhyām ǁīḷe agniṃ svavasaṃ namobhir iha prasatto vi cayat kṛtaṃ naḥ |
rathair iva pra bhare vājayadbhiḥ pradakṣiṇin marutāṃ stomam ṛdhyām ||ईळे॑ । अ॒ग्निम् । सु॒ऽअव॑सम् । नमः॑ऽभिः । इ॒ह । प्र॒ऽस॒त्तः । वि । च॒य॒त् । कृ॒तम् । नः॒ ।
रथैः॑ऽइव । प्र । भ॒रे॒ । वा॒ज॒यत्ऽभिः॑ । प्र॒ऽद॒क्षि॒णित् । म॒रुता॑म् । स्तोम॑म् । ऋ॒ध्या॒म् ॥ईळे । अग्निम् । सुऽअवसम् । नमःऽभिः । इह । प्रऽसत्तः । वि । चयत् । कृतम् । नः ।
रथैःऽइव । प्र । भरे । वाजयत्ऽभिः । प्रऽदक्षिणित् । मरुताम् । स्तोमम् । ऋध्याम् ॥ī́ḷe ǀ agním ǀ su-ávasam ǀ námaḥ-bhiḥ ǀ ihá ǀ pra-sattáḥ ǀ ví ǀ cayat ǀ kṛtám ǀ naḥ ǀ
ráthaiḥ-iva ǀ prá ǀ bhare ǀ vājayát-bhiḥ ǀ pra-dakṣiṇít ǀ marútām ǀ stómam ǀ ṛdhyām ǁīḷe ǀ agnim ǀ su-avasam ǀ namaḥ-bhiḥ ǀ iha ǀ pra-sattaḥ ǀ vi ǀ cayat ǀ kṛtam ǀ naḥ ǀ
rathaiḥ-iva ǀ pra ǀ bhare ǀ vājayat-bhiḥ ǀ pra-dakṣiṇit ǀ marutām ǀ stomam ǀ ṛdhyām ǁ5.60.1 Aṣṭaka 4.3.25.1Anuvāka 5.5.25
-
Ṛk 2
आ ये त॒स्थुः पृष॑तीषु श्रु॒तासु॑ सु॒खेषु॑ रु॒द्रा म॒रुतो॒ रथे॑षु ।
वना॑ चिदुग्रा जिहते॒ नि वो॑ भि॒या पृ॑थि॒वी चि॑द्रेजते॒ पर्व॑तश्चित् ॥आ ये तस्थुः पृषतीषु श्रुतासु सुखेषु रुद्रा मरुतो रथेषु |
वना चिद् उग्रा जिहते नि वो भिया पृथिवी चिद् रेजते पर्वतश् चित् ||ā́ yé tasthúḥ pṛ́ṣatīṣu śrutā́su sukhéṣu rudrā́ marúto rátheṣu ǀ
vánā cidugrā jihate ní vo bhiyā́ pṛthivī́ cidrejate párvataścit ǁā ye tasthuḥ pṛṣatīṣu śrutāsu sukheṣu rudrā maruto ratheṣu |
vanā cid ugrā jihate ni vo bhiyā pṛthivī cid rejate parvataś cit ||आ । ये । त॒स्थुः । पृष॑तीषु । श्रु॒तासु॑ । सु॒ऽखेषु॑ । रु॒द्राः । म॒रुतः॑ । रथे॑षु ।
वना॑ । चि॒त् । उ॒ग्राः॒ । जि॒ह॒ते॒ । नि । वः॒ । भि॒या । पृ॒थि॒वी । चि॒त् । रे॒ज॒ते॒ । पर्व॑तः । चि॒त् ॥आ । ये । तस्थुः । पृषतीषु । श्रुतासु । सुऽखेषु । रुद्राः । मरुतः । रथेषु ।
वना । चित् । उग्राः । जिहते । नि । वः । भिया । पृथिवी । चित् । रेजते । पर्वतः । चित् ॥ā́ ǀ yé ǀ tasthúḥ ǀ pṛ́ṣatīṣu ǀ śrutā́su ǀ su-khéṣu ǀ rudrā́ḥ ǀ marútaḥ ǀ rátheṣu ǀ
vánā ǀ cit ǀ ugrāḥ ǀ jihate ǀ ní ǀ vaḥ ǀ bhiyā́ ǀ pṛthivī́ ǀ cit ǀ rejate ǀ párvataḥ ǀ cit ǁā ǀ ye ǀ tasthuḥ ǀ pṛṣatīṣu ǀ śrutāsu ǀ su-kheṣu ǀ rudrāḥ ǀ marutaḥ ǀ ratheṣu ǀ
vanā ǀ cit ǀ ugrāḥ ǀ jihate ǀ ni ǀ vaḥ ǀ bhiyā ǀ pṛthivī ǀ cit ǀ rejate ǀ parvataḥ ǀ cit ǁ5.60.2 Aṣṭaka 4.3.25.2Anuvāka 5.5.26
-
Ṛk 3
पर्व॑तश्चि॒न्महि॑ वृ॒द्धो बि॑भाय दि॒वश्चि॒त्सानु॑ रेजत स्व॒ने वः॑ ।
यत्क्रीळ॑थ मरुत ऋष्टि॒मंत॒ आप॑ इव स॒ध्र्यं॑चो धवध्वे ॥पर्वतश् चिन् महि वृद्धो बिभाय दिवश् चित् सानु रेजत स्वने वः |
यत् क्रीऌअथ मरुत ऋष्टिमन्त आप इव सध्र्यञ्चो धवध्वे ||párvataścinmáhi vṛddhó bibhāya diváścitsā́nu rejata svané vaḥ ǀ
yátkrī́ḷatha maruta ṛṣṭimánta ā́pa iva sadhryáñco dhavadhve ǁparvataś cin mahi vṛddho bibhāya divaś cit sānu rejata svane vaḥ |
yat krīḷatha maruta ṛṣṭimanta āpa iva sadhryañco dhavadhve ||पर्व॑तः । चि॒त् । महि॑ । वृ॒द्धः । बि॒भा॒य॒ । दि॒वः । चि॒त् । सानु॑ । रे॒ज॒त॒ । स्व॒ने । वः॒ ।
यत् । क्रीळ॑थ । म॒रु॒तः॒ । ऋ॒ष्टि॒ऽमन्तः॑ । आपः॑ऽइव । स॒ध्र्य॑ञ्चः । ध॒व॒ध्वे॒ ॥पर्वतः । चित् । महि । वृद्धः । बिभाय । दिवः । चित् । सानु । रेजत । स्वने । वः ।
यत् । क्रीळथ । मरुतः । ऋष्टिऽमन्तः । आपःऽइव । सध्र्यञ्चः । धवध्वे ॥párvataḥ ǀ cit ǀ máhi ǀ vṛddháḥ ǀ bibhāya ǀ diváḥ ǀ cit ǀ sā́nu ǀ rejata ǀ svané ǀ vaḥ ǀ
yát ǀ krī́ḷatha ǀ marutaḥ ǀ ṛṣṭi-mántaḥ ǀ ā́paḥ-iva ǀ sadhryáñcaḥ ǀ dhavadhve ǁparvataḥ ǀ cit ǀ mahi ǀ vṛddhaḥ ǀ bibhāya ǀ divaḥ ǀ cit ǀ sānu ǀ rejata ǀ svane ǀ vaḥ ǀ
yat ǀ krīḷatha ǀ marutaḥ ǀ ṛṣṭi-mantaḥ ǀ āpaḥ-iva ǀ sadhryañcaḥ ǀ dhavadhve ǁ5.60.3 Aṣṭaka 4.3.25.3Anuvāka 5.5.27
-
Ṛk 4
व॒रा इ॒वेद्रै॑व॒तासो॒ हिर॑ण्यैर॒भि स्व॒धाभि॑स्त॒न्वः॑ पिपिश्रे ।
श्रि॒ये श्रेयां॑सस्त॒वसो॒ रथे॑षु स॒त्रा महां॑सि चक्रिरे त॒नूषु॑ ॥वरा इवेद् रैवतासो हिरण्यैर् अभि स्वधाभिस् तन्वः पिपिश्रे |
श्रिये श्रेयांसस् तवसो रथेषु सत्रा महांसि चक्रिरे तनूषु ||varā́ ivédraivatā́so híraṇyairabhí svadhā́bhistanváḥ pipiśre ǀ
śriyé śréyāṃsastaváso rátheṣu satrā́ máhāṃsi cakrire tanū́ṣu ǁvarā ived raivatāso hiraṇyair abhi svadhābhis tanvaḥ pipiśre |
śriye śreyāṃsas tavaso ratheṣu satrā mahāṃsi cakrire tanūṣu ||व॒राःऽइ॑व । इत् । रै॒व॒तासः॑ । हिर॑ण्यैः । अ॒भि । स्व॒धाभिः॑ । त॒न्वः॑ । पि॒पि॒श्रे॒ ।
श्रि॒ये । श्रेयां॑सः । त॒वसः॑ । रथे॑षु । स॒त्रा । महां॑सि । च॒क्रि॒रे॒ । त॒नूषु॑ ॥वराःऽइव । इत् । रैवतासः । हिरण्यैः । अभि । स्वधाभिः । तन्वः । पिपिश्रे ।
श्रिये । श्रेयांसः । तवसः । रथेषु । सत्रा । महांसि । चक्रिरे । तनूषु ॥varā́ḥ-iva ǀ ít ǀ raivatā́saḥ ǀ híraṇyaiḥ ǀ abhí ǀ svadhā́bhiḥ ǀ tanváḥ ǀ pipiśre ǀ
śriyé ǀ śréyāṃsaḥ ǀ tavásaḥ ǀ rátheṣu ǀ satrā́ ǀ máhāṃsi ǀ cakrire ǀ tanū́ṣu ǁvarāḥ-iva ǀ it ǀ raivatāsaḥ ǀ hiraṇyaiḥ ǀ abhi ǀ svadhābhiḥ ǀ tanvaḥ ǀ pipiśre ǀ
śriye ǀ śreyāṃsaḥ ǀ tavasaḥ ǀ ratheṣu ǀ satrā ǀ mahāṃsi ǀ cakrire ǀ tanūṣu ǁ5.60.4 Aṣṭaka 4.3.25.4Anuvāka 5.5.28
-
Ṛk 5
अ॒ज्ये॒ष्ठासो॒ अक॑निष्ठास ए॒ते सं भ्रात॑रो वावृधुः॒ सौभ॑गाय ।
युवा॑ पि॒ता स्वपा॑ रु॒द्र ए॑षां सु॒दुघा॒ पृश्निः॑ सु॒दिना॑ म॒रुद्भ्यः॑ ॥अज्येष्ठासो अकनिष्ठास एते सम् भ्रातरो वावृधुः सौभगाय |
युवा पिता स्वपा रुद्र एषां सुदुघा पृश्निः सुदिना मरुद्भ्यः ||ajyeṣṭhā́so ákaniṣṭhāsa eté sám bhrā́taro vāvṛdhuḥ sáubhagāya ǀ
yúvā pitā́ svápā rudrá eṣām sudúghā pṛ́śniḥ sudínā marúdbhyaḥ ǁajyeṣṭhāso akaniṣṭhāsa ete sam bhrātaro vāvṛdhuḥ saubhagāya |
yuvā pitā svapā rudra eṣāṃ sudughā pṛśniḥ sudinā marudbhyaḥ ||अ॒ज्ये॒ष्ठासः॑ । अक॑निष्ठासः । ए॒ते । सम् । भ्रात॑रः । व॒वृ॒धुः॒ । सौभ॑गाय ।
युवा॑ । पि॒ता । सु॒ऽअपाः॑ । रु॒द्रः । ए॒षा॒म् । सु॒ऽदुघा॑ । पृश्निः॑ । सु॒ऽदिना॑ । म॒रुत्ऽभ्यः॑ ॥अज्येष्ठासः । अकनिष्ठासः । एते । सम् । भ्रातरः । ववृधुः । सौभगाय ।
युवा । पिता । सुऽअपाः । रुद्रः । एषाम् । सुऽदुघा । पृश्निः । सुऽदिना । मरुत्ऽभ्यः ॥ajyeṣṭhā́saḥ ǀ ákaniṣṭhāsaḥ ǀ eté ǀ sám ǀ bhrā́taraḥ ǀ vavṛdhuḥ ǀ sáubhagāya ǀ
yúvā ǀ pitā́ ǀ su-ápāḥ ǀ rudráḥ ǀ eṣām ǀ su-dúghā ǀ pṛ́śniḥ ǀ su-dínā ǀ marút-bhyaḥ ǁajyeṣṭhāsaḥ ǀ akaniṣṭhāsaḥ ǀ ete ǀ sam ǀ bhrātaraḥ ǀ vavṛdhuḥ ǀ saubhagāya ǀ
yuvā ǀ pitā ǀ su-apāḥ ǀ rudraḥ ǀ eṣām ǀ su-dughā ǀ pṛśniḥ ǀ su-dinā ǀ marut-bhyaḥ ǁ5.60.5 Aṣṭaka 4.3.25.5Anuvāka 5.5.29
-
Ṛk 6
यदु॑त्त॒मे म॑रुतो मध्य॒मे वा॒ यद्वा॑व॒मे सु॑भगासो दि॒वि ष्ठ ।
अतो॑ नो रुद्रा उ॒त वा॒ न्व१॒॑स्याग्ने॑ वि॒त्ताद्ध॒विषो॒ यद्यजा॑म ॥यद् उत्तमे मरुतो मध्यमे वा यद् वावमे सुभगासो दिवि ष्ठ |
अतो नो रुद्रा उत वा न्व् अस्याग्ने वित्ताद् धविषो यद् यजाम ||yáduttamé maruto madhyamé vā yádvāvamé subhagāso diví ṣṭhá ǀ
áto no rudrā utá vā nvásyā́gne vittā́ddhavíṣo yádyájāma ǁyad uttame maruto madhyame vā yad vāvame subhagāso divi ṣṭha |
ato no rudrā uta vā nv asyāgne vittād dhaviṣo yad yajāma ||यत् । उ॒त्ऽत॒मे । म॒रु॒तः॒ । म॒ध्य॒मे । वा॒ । यत् । वा॒ । अ॒व॒मे । सु॒ऽभ॒गा॒सः॒ । दि॒वि । स्थ ।
अतः॑ । नः॒ । रु॒द्राः॒ । उ॒त । वा॒ । नु । अ॒स्य॒ । अग्ने॑ । वि॒त्तात् । ह॒विषः॑ । यत् । यजा॑म ॥यत् । उत्ऽतमे । मरुतः । मध्यमे । वा । यत् । वा । अवमे । सुऽभगासः । दिवि । स्थ ।
अतः । नः । रुद्राः । उत । वा । नु । अस्य । अग्ने । वित्तात् । हविषः । यत् । यजाम ॥yát ǀ ut-tamé ǀ marutaḥ ǀ madhyamé ǀ vā ǀ yát ǀ vā ǀ avamé ǀ su-bhagāsaḥ ǀ diví ǀ sthá ǀ
átaḥ ǀ naḥ ǀ rudrāḥ ǀ utá ǀ vā ǀ nú ǀ asya ǀ ágne ǀ vittā́t ǀ havíṣaḥ ǀ yát ǀ yájāma ǁyat ǀ ut-tame ǀ marutaḥ ǀ madhyame ǀ vā ǀ yat ǀ vā ǀ avame ǀ su-bhagāsaḥ ǀ divi ǀ stha ǀ
ataḥ ǀ naḥ ǀ rudrāḥ ǀ uta ǀ vā ǀ nu ǀ asya ǀ agne ǀ vittāt ǀ haviṣaḥ ǀ yat ǀ yajāma ǁ5.60.6 Aṣṭaka 4.3.25.6Anuvāka 5.5.30
-
Ṛk 7
अ॒ग्निश्च॒ यन्म॑रुतो विश्ववेदसो दि॒वो वह॑ध्व॒ उत्त॑रा॒दधि॒ ष्णुभिः॑ ।
ते मं॑दसा॒ना धुन॑यो रिशादसो वा॒मं ध॑त्त॒ यज॑मानाय सुन्व॒ते ॥अग्निश् च यन् मरुतो विश्ववेदसो दिवो वहध्व उत्तराद् अधि ष्णुभिः |
ते मन्दसाना धुनयो रिशादसो वामं धत्त यजमानाय सुन्वते ||agníśca yánmaruto viśvavedaso divó váhadhva úttarādádhi ṣṇúbhiḥ ǀ
té mandasānā́ dhúnayo riśādaso vāmám dhatta yájamānāya sunvaté ǁagniś ca yan maruto viśvavedaso divo vahadhva uttarād adhi ṣṇubhiḥ |
te mandasānā dhunayo riśādaso vāmaṃ dhatta yajamānāya sunvate ||अ॒ग्निः । च॒ । यत् । म॒रु॒तः॒ । वि॒श्व॒ऽवे॒द॒सः॒ । दि॒वः । वह॑ध्वे । उत्ऽत॑रात् । अधि॑ । स्नुऽभिः॑ ।
ते । म॒न्द॒सा॒नाः । धुन॑यः । रि॒शा॒द॒सः॒ । वा॒मम् । ध॒त्त॒ । यज॑मानाय । सु॒न्व॒ते ॥अग्निः । च । यत् । मरुतः । विश्वऽवेदसः । दिवः । वहध्वे । उत्ऽतरात् । अधि । स्नुऽभिः ।
ते । मन्दसानाः । धुनयः । रिशादसः । वामम् । धत्त । यजमानाय । सुन्वते ॥agníḥ ǀ ca ǀ yát ǀ marutaḥ ǀ viśva-vedasaḥ ǀ diváḥ ǀ váhadhve ǀ út-tarāt ǀ ádhi ǀ snú-bhiḥ ǀ
té ǀ mandasānā́ḥ ǀ dhúnayaḥ ǀ riśādasaḥ ǀ vāmám ǀ dhatta ǀ yájamānāya ǀ sunvaté ǁagniḥ ǀ ca ǀ yat ǀ marutaḥ ǀ viśva-vedasaḥ ǀ divaḥ ǀ vahadhve ǀ ut-tarāt ǀ adhi ǀ snu-bhiḥ ǀ
te ǀ mandasānāḥ ǀ dhunayaḥ ǀ riśādasaḥ ǀ vāmam ǀ dhatta ǀ yajamānāya ǀ sunvate ǁ5.60.7 Aṣṭaka 4.3.25.7Anuvāka 5.5.31
-
Ṛk 8
अग्ने॑ म॒रुद्भिः॑ शु॒भय॑द्भि॒र्ऋक्व॑भिः॒ सोमं॑ पिब मंदसा॒नो ग॑ण॒श्रिभिः॑ ।
पा॒व॒केभि॑र्विश्वमि॒न्वेभि॑रा॒युभि॒र्वैश्वा॑नर प्र॒दिवा॑ के॒तुना॑ स॒जूः ॥अग्ने मरुद्भिः शुभयद्भिर् ऋक्वभिः सोमम् पिब मन्दसानो गणश्रिभिः |
पावकेभिर् विश्वमिन्वेभिर् आयुभिर् वैश्वानर प्रदिवा केतुना सजूः ||ágne marúdbhiḥ śubháyadbhirṛ́kvabhiḥ sómam piba mandasānó gaṇaśríbhiḥ ǀ
pāvakébhirviśvaminvébhirāyúbhirváiśvānara pradívā ketúnā sajū́ḥ ǁagne marudbhiḥ śubhayadbhir ṛkvabhiḥ somam piba mandasāno gaṇaśribhiḥ |
pāvakebhir viśvaminvebhir āyubhir vaiśvānara pradivā ketunā sajūḥ ||अग्ने॑ । म॒रुत्ऽभिः॑ । शु॒भय॑त्ऽभिः । ऋक्व॑ऽभिः । सोम॑म् । पि॒ब॒ । म॒न्द॒सा॒नः । ग॒ण॒श्रिऽभिः॑ ।
पा॒व॒केभिः॑ । वि॒श्व॒म्ऽइ॒न्वेभिः॑ । आ॒युऽभिः॑ । वैश्वा॑नर । प्र॒ऽदिवा॑ । के॒तुना॑ । स॒ऽजूः ॥अग्ने । मरुत्ऽभिः । शुभयत्ऽभिः । ऋक्वऽभिः । सोमम् । पिब । मन्दसानः । गणश्रिऽभिः ।
पावकेभिः । विश्वम्ऽइन्वेभिः । आयुऽभिः । वैश्वानर । प्रऽदिवा । केतुना । सऽजूः ॥ágne ǀ marút-bhiḥ ǀ śubháyat-bhiḥ ǀ ṛ́kva-bhiḥ ǀ sómam ǀ piba ǀ mandasānáḥ ǀ gaṇaśrí-bhiḥ ǀ
pāvakébhiḥ ǀ viśvam-invébhiḥ ǀ āyú-bhiḥ ǀ váiśvānara ǀ pra-dívā ǀ ketúnā ǀ sa-jū́ḥ ǁagne ǀ marut-bhiḥ ǀ śubhayat-bhiḥ ǀ ṛkva-bhiḥ ǀ somam ǀ piba ǀ mandasānaḥ ǀ gaṇaśri-bhiḥ ǀ
pāvakebhiḥ ǀ viśvam-invebhiḥ ǀ āyu-bhiḥ ǀ vaiśvānara ǀ pra-divā ǀ ketunā ǀ sa-jūḥ ǁ5.60.8 Aṣṭaka 4.3.25.8Anuvāka 5.5.32
Text, recitation and interpretations from the Ṛgveda database of theveda.org.in.