Ṛgveda · Maṇḍala 5

Sūkta 45

Viśvedevās · Sadāpṛṇa Ātreya · 11 ṛks

Link
Devatā देवता
Viśvedevās
Ṛṣi ऋषि
Sadāpṛṇa Ātreya
Chandas छन्दस्
Triṣṭubh
Metres by ṛk

1st set of styles nicṛttriṣṭup (4, 6, 7); bhurikpaṅkti (5, 9, 11); paṅktiḥ (1, 2); svarāṭpaṅkti (8, 10); virāṭtrisṭup (3)

2nd set of styles triṣṭubh

  1. Ṛk 1

    वि॒दा दि॒वो वि॒ष्यन्नद्रि॑मु॒क्थैरा॑य॒त्या उ॒षसो॑ अ॒र्चिनो॑ गुः ।
    अपा॑वृत व्र॒जिनी॒रुत्स्व॑र्गा॒द्वि दुरो॒ मानु॑षीर्दे॒व आ॑वः ॥

    विदा दिवो विष्यन्न् अद्रिम् उक्थैर् आयत्या उषसो अर्चिनो गुः |
    अपावृत व्रजिनीर् उत् स्वर् गाद् वि दुरो मानुषीर् देव आवः ||

    vidā́ divó viṣyánnádrimuktháirāyatyā́ uṣáso arcíno guḥ ǀ
    ápāvṛta vrajínīrútsvárgādví dúro mā́nuṣīrdevá āvaḥ ǁ

    vidā divo viṣyann adrim ukthair āyatyā uṣaso arcino guḥ |
    apāvṛta vrajinīr ut svar gād vi duro mānuṣīr deva āvaḥ ||

    वि॒दाः । दि॒वः । वि॒ऽस्यन् । अद्रि॑म् । उ॒क्थैः । आ॒ऽय॒त्याः । उ॒षसः॑ । अ॒र्चिनः॑ । गुः॒ ।
    अप॑ । अ॒वृ॒त॒ । व्र॒जिनीः॑ । उत् । स्वः॑ । गा॒त् । वि । दुरः॑ । मानु॑षीः । दे॒वः । आ॒व॒रित्या॑वः ॥

    विदाः । दिवः । विऽस्यन् । अद्रिम् । उक्थैः । आऽयत्याः । उषसः । अर्चिनः । गुः ।
    अप । अवृत । व्रजिनीः । उत् । स्वः । गात् । वि । दुरः । मानुषीः । देवः । आवरित्यावः ॥

    vidā́ḥ ǀ diváḥ ǀ vi-syán ǀ ádrim ǀ uktháiḥ ǀ ā-yatyā́ḥ ǀ uṣásaḥ ǀ arcínaḥ ǀ guḥ ǀ
    ápa ǀ avṛta ǀ vrajínīḥ ǀ út ǀ sváḥ ǀ gāt ǀ ví ǀ dúraḥ ǀ mā́nuṣīḥ ǀ deváḥ ǀ āvarítyāvaḥ ǁ

    vidāḥ ǀ divaḥ ǀ vi-syan ǀ adrim ǀ ukthaiḥ ǀ ā-yatyāḥ ǀ uṣasaḥ ǀ arcinaḥ ǀ guḥ ǀ
    apa ǀ avṛta ǀ vrajinīḥ ǀ ut ǀ svaḥ ǀ gāt ǀ vi ǀ duraḥ ǀ mānuṣīḥ ǀ devaḥ ǀ āvarityāvaḥ ǁ

    5.45.1 Aṣṭaka 4.2.26.1Anuvāka 5.4.1

  2. Ṛk 2

    वि सूर्यो॑ अ॒मतिं॒ न श्रियं॑ सा॒दोर्वाद्गवां॑ मा॒ता जा॑न॒ती गा॑त् ।
    धन्व॑र्णसो न॒द्यः१॒॑ खादो॑अर्णाः॒ स्थूणे॑व॒ सुमि॑ता दृंहत॒ द्यौः ॥

    वि सूर्यो अमतिं न श्रियं साद् ओर्वाद् गवाम् माता जानती गात् |
    धन्वर्णसो नद्यः खादोअर्णा स्थूणेव सुमिता दृंहत द्यौः ||

    ví sū́ryo amátim ná śríyam sādórvā́dgávām mātā́ jānatī́ gāt ǀ
    dhánvarṇaso nadyáḥ khā́doarṇāḥ sthū́ṇeva súmitā dṛṃhata dyáuḥ ǁ

    vi sūryo amatiṃ na śriyaṃ sād orvād gavām mātā jānatī gāt |
    dhanvarṇaso nadyaḥ khādoarṇā sthūṇeva sumitā dṛṃhata dyauḥ ||

    वि । सूर्यः॑ । अ॒मति॑म् । न । श्रिय॑म् । सा॒त् । आ । ऊ॒र्वात् । गवा॑म् । मा॒ता । जा॒न॒ती । गा॒त् ।
    धन्व॑ऽअर्णसः । न॒द्यः॑ । खादः॑ऽअर्णाः । स्थूणा॑ऽइव । सुऽमि॑ता । दृं॒ह॒त॒ । द्यौः ॥

    वि । सूर्यः । अमतिम् । न । श्रियम् । सात् । आ । ऊर्वात् । गवाम् । माता । जानती । गात् ।
    धन्वऽअर्णसः । नद्यः । खादःऽअर्णाः । स्थूणाऽइव । सुऽमिता । दृंहत । द्यौः ॥

    ví ǀ sū́ryaḥ ǀ amátim ǀ ná ǀ śríyam ǀ sāt ǀ ā́ ǀ ūrvā́t ǀ gávām ǀ mātā́ ǀ jānatī́ ǀ gāt ǀ
    dhánva-arṇasaḥ ǀ nadyáḥ ǀ khā́daḥ-arṇāḥ ǀ sthū́ṇā-iva ǀ sú-mitā ǀ dṛṃhata ǀ dyáuḥ ǁ

    vi ǀ sūryaḥ ǀ amatim ǀ na ǀ śriyam ǀ sāt ǀ ā ǀ ūrvāt ǀ gavām ǀ mātā ǀ jānatī ǀ gāt ǀ
    dhanva-arṇasaḥ ǀ nadyaḥ ǀ khādaḥ-arṇāḥ ǀ sthūṇā-iva ǀ su-mitā ǀ dṛṃhata ǀ dyauḥ ǁ

    5.45.2 Aṣṭaka 4.2.26.2Anuvāka 5.4.2

  3. Ṛk 3

    अ॒स्मा उ॒क्थाय॒ पर्व॑तस्य॒ गर्भो॑ म॒हीनां॑ ज॒नुषे॑ पू॒र्व्याय॑ ।
    वि पर्व॑तो॒ जिही॑त॒ साध॑त॒ द्यौरा॒विवा॑संतो दसयंत॒ भूम॑ ॥

    अस्मा उक्थाय पर्वतस्य गर्भो महीनां जनुषे पूर्व्याय |
    वि पर्वतो जिहीत साधत द्यौर् आविवासन्तो दसयन्त भूम ||

    asmā́ ukthā́ya párvatasya gárbho mahī́nām janúṣe pūrvyā́ya ǀ
    ví párvato jíhīta sā́dhata dyáurāvívāsanto dasayanta bhū́ma ǁ

    asmā ukthāya parvatasya garbho mahīnāṃ januṣe pūrvyāya |
    vi parvato jihīta sādhata dyaur āvivāsanto dasayanta bhūma ||

    अ॒स्मै । उ॒क्थाय॑ । पर्व॑तस्य । गर्भः॑ । म॒हीना॑म् । ज॒नुषे॑ । पू॒र्व्याय॑ ।
    वि । पर्व॑तः । जिही॑त । साध॑त । द्यौः । आ॒ऽविवा॑सन्तः । द॒स॒य॒न्त॒ । भूम॑ ॥

    अस्मै । उक्थाय । पर्वतस्य । गर्भः । महीनाम् । जनुषे । पूर्व्याय ।
    वि । पर्वतः । जिहीत । साधत । द्यौः । आऽविवासन्तः । दसयन्त । भूम ॥

    asmái ǀ ukthā́ya ǀ párvatasya ǀ gárbhaḥ ǀ mahī́nām ǀ janúṣe ǀ pūrvyā́ya ǀ
    ví ǀ párvataḥ ǀ jíhīta ǀ sā́dhata ǀ dyáuḥ ǀ ā-vívāsantaḥ ǀ dasayanta ǀ bhū́ma ǁ

    asmai ǀ ukthāya ǀ parvatasya ǀ garbhaḥ ǀ mahīnām ǀ januṣe ǀ pūrvyāya ǀ
    vi ǀ parvataḥ ǀ jihīta ǀ sādhata ǀ dyauḥ ǀ ā-vivāsantaḥ ǀ dasayanta ǀ bhūma ǁ

    5.45.3 Aṣṭaka 4.2.26.3Anuvāka 5.4.3

  4. Ṛk 4

    सू॒क्तेभि॑र्वो॒ वचो॑भिर्दे॒वजु॑ष्टै॒रिंद्रा॒ न्व१॒॑ग्नी अव॑से हु॒वध्यै॑ ।
    उ॒क्थेभि॒र्हि ष्मा॑ क॒वयः॑ सुय॒ज्ञा आ॒विवा॑संतो म॒रुतो॒ यजं॑ति ॥

    सूक्तेभिर् वो वचोभिर् देवजुष्टैर् इन्द्रा न्व् अग्नी अवसे हुवध्यै |
    उक्थेभिर् हि ष्मा कवयः सुयज्ञा आविवासन्तो मरुतो यजन्ति ||

    sūktébhirvo vácobhirdevájuṣṭairíndrā nvágnī́ ávase huvádhyai ǀ
    ukthébhirhí ṣmā kaváyaḥ suyajñā́ āvívāsanto marúto yájanti ǁ

    sūktebhir vo vacobhir devajuṣṭair indrā nv agnī avase huvadhyai |
    ukthebhir hi ṣmā kavayaḥ suyajñā āvivāsanto maruto yajanti ||

    सु॒ऽउ॒क्तेभिः॑ । वः॒ । वचः॑ऽभिः । दे॒वऽजु॑ष्टैः । इन्द्रा॑ । नु । अ॒ग्नी इति॑ । अव॑से । हु॒वध्यै॑ ।
    उ॒क्थेभिः । हि । स्म॒ । क॒वयः॑ । सु॒ऽय॒ज्ञाः । आ॒ऽविवा॑सन्तः । म॒रुतः॑ । यज॑न्ति ॥

    सुऽउक्तेभिः । वः । वचःऽभिः । देवऽजुष्टैः । इन्द्रा । नु । अग्नी इति । अवसे । हुवध्यै ।
    उक्थेभिः । हि । स्म । कवयः । सुऽयज्ञाः । आऽविवासन्तः । मरुतः । यजन्ति ॥

    su-uktébhiḥ ǀ vaḥ ǀ vácaḥ-bhiḥ ǀ devá-juṣṭaiḥ ǀ índrā ǀ nú ǀ agnī́ íti ǀ ávase ǀ huvádhyai ǀ
    ukthébhíḥ ǀ hí ǀ sma ǀ kaváyaḥ ǀ su-yajñā́ḥ ǀ ā-vívāsantaḥ ǀ marútaḥ ǀ yájanti ǁ

    su-uktebhiḥ ǀ vaḥ ǀ vacaḥ-bhiḥ ǀ deva-juṣṭaiḥ ǀ indrā ǀ nu ǀ agnī iti ǀ avase ǀ huvadhyai ǀ
    ukthebhiḥ ǀ hi ǀ sma ǀ kavayaḥ ǀ su-yajñāḥ ǀ ā-vivāsantaḥ ǀ marutaḥ ǀ yajanti ǁ

    5.45.4 Aṣṭaka 4.2.26.4Anuvāka 5.4.4

  5. Ṛk 5

    एतो॒ न्व१॒॑द्य सु॒ध्यो॒३॒॑ भवा॑म॒ प्र दु॒च्छुना॑ मिनवामा॒ वरी॑यः ।
    आ॒रे द्वेषां॑सि सनु॒तर्द॑धा॒माया॑म॒ प्रांचो॒ यज॑मान॒मच्छ॑ ॥

    एतो न्व् अद्य सुध्यो भवाम प्र दुच्छुना मिनवामा वरीयः |
    आरे द्वेषांसि सनुतर् दधामायाम प्राञ्चो यजमानम् अच्छ ||

    éto nvádyá sudhyó bhávāma prá ducchúnā minavāmā várīyaḥ ǀ
    āré dvéṣāṃsi sanutárdadhāmā́yāma prā́ñco yájamānamáccha ǁ

    eto nv adya sudhyo bhavāma pra ducchunā minavāmā varīyaḥ |
    āre dveṣāṃsi sanutar dadhāmāyāma prāñco yajamānam accha ||

    एतो॒ इति॑ । नु । अ॒द्य । सु॒ऽध्यः॑ । भवा॑म । प्र । दु॒च्छुनाः॑ । मि॒न॒वा॒म॒ । वरी॑यः ।
    आ॒रे । द्वेषां॑सि । स॒नु॒तः । द॒धा॒म॒ । अया॑म । प्राञ्चः॑ । यज॑मानम् । अच्छ॑ ॥

    एतो इति । नु । अद्य । सुऽध्यः । भवाम । प्र । दुच्छुनाः । मिनवाम । वरीयः ।
    आरे । द्वेषांसि । सनुतः । दधाम । अयाम । प्राञ्चः । यजमानम् । अच्छ ॥

    éto íti ǀ nú ǀ adyá ǀ su-dhyáḥ ǀ bhávāma ǀ prá ǀ ducchúnāḥ ǀ minavāma ǀ várīyaḥ ǀ
    āré ǀ dvéṣāṃsi ǀ sanutáḥ ǀ dadhāma ǀ áyāma ǀ prā́ñcaḥ ǀ yájamānam ǀ áccha ǁ

    eto iti ǀ nu ǀ adya ǀ su-dhyaḥ ǀ bhavāma ǀ pra ǀ ducchunāḥ ǀ minavāma ǀ varīyaḥ ǀ
    āre ǀ dveṣāṃsi ǀ sanutaḥ ǀ dadhāma ǀ ayāma ǀ prāñcaḥ ǀ yajamānam ǀ accha ǁ

    5.45.5 Aṣṭaka 4.2.26.5Anuvāka 5.4.5

  6. Ṛk 6

    एता॒ धियं॑ कृ॒णवा॑मा सखा॒योऽप॒ या मा॒ताँ ऋ॑णु॒त व्र॒जं गोः ।
    यया॒ मनु॑र्विशिशि॒प्रं जि॒गाय॒ यया॑ व॒णिग्वं॒कुरापा॒ पुरी॑षं ॥

    एता धियं कृणवामा सखायो ऽप या मातां ऋणुत व्रजं गोः |
    यया मनुर् विशिशिप्रं जिगाय यया वणिग् वङ्कुर् आपा पुरीषम् ||

    étā dhíyam kṛṇávāmā sakhāyó’pa yā́ mātā́m̐ ṛṇutá vrajám góḥ ǀ
    yáyā mánurviśiśiprám jigā́ya yáyā vaṇígvaṅkúrā́pā púrīṣam ǁ

    etā dhiyaṃ kṛṇavāmā sakhāyo 'pa yā mātāṃ ṛṇuta vrajaṃ goḥ |
    yayā manur viśiśipraṃ jigāya yayā vaṇig vaṅkur āpā purīṣam ||

    आ । इ॒त॒ । धिय॑म् । कृ॒णवा॑म । स॒खा॒यः॒ । अप॑ । या । मा॒ता । ऋ॒णु॒त । व्र॒जम् । गोः ।
    यया॑ । मनुः॑ । वि॒शि॒ऽशि॒प्रम् । जि॒गाय॑ । यया॑ । व॒णिक् । व॒ङ्कुः । आप॑ । पुरी॑षम् ॥

    आ । इत । धियम् । कृणवाम । सखायः । अप । या । माता । ऋणुत । व्रजम् । गोः ।
    यया । मनुः । विशिऽशिप्रम् । जिगाय । यया । वणिक् । वङ्कुः । आप । पुरीषम् ॥

    ā́ ǀ ita ǀ dhíyam ǀ kṛṇávāma ǀ sakhāyaḥ ǀ ápa ǀ yā́ ǀ mātā́ ǀ ṛṇutá ǀ vrajám ǀ góḥ ǀ
    yáyā ǀ mánuḥ ǀ viśi-śiprám ǀ jigā́ya ǀ yáyā ǀ vaṇík ǀ vaṅkúḥ ǀ ā́pa ǀ púrīṣam ǁ

    ā ǀ ita ǀ dhiyam ǀ kṛṇavāma ǀ sakhāyaḥ ǀ apa ǀ yā ǀ mātā ǀ ṛṇuta ǀ vrajam ǀ goḥ ǀ
    yayā ǀ manuḥ ǀ viśi-śipram ǀ jigāya ǀ yayā ǀ vaṇik ǀ vaṅkuḥ ǀ āpa ǀ purīṣam ǁ

    5.45.6 Aṣṭaka 4.2.27.1Anuvāka 5.4.6

  7. Ṛk 7

    अनू॑नो॒दत्र॒ हस्त॑यतो॒ अद्रि॒रार्च॒न्येन॒ दश॑ मा॒सो नव॑ग्वाः ।
    ऋ॒तं य॒ती स॒रमा॒ गा अ॑विंद॒द्विश्वा॑नि स॒त्यांगि॑राश्चकार ॥

    अनूनोद् अत्र हस्तयतो अद्रिर् आर्चन् येन दश मासो नवग्वाः |
    ऋतं यती सरमा गा अविन्दद् विश्वानि सत्याङ्गिराश् चकार ||

    ánūnodátra hástayato ádrirā́rcanyéna dáśa māsó návagvāḥ ǀ
    ṛtám yatī́ sarámā gā́ avindadvíśvāni satyā́ṅgirāścakāra ǁ

    anūnod atra hastayato adrir ārcan yena daśa māso navagvāḥ |
    ṛtaṃ yatī saramā gā avindad viśvāni satyāṅgirāś cakāra ||

    अनू॑नोत् । अत्र॑ । हस्त॑ऽयतः । अद्रिः॑ । आर्च॑न् । येन॑ । दश॑ । मा॒सः । नव॑ऽग्वाः ।
    ऋ॒तम् । य॒ती । स॒रमा॑ । गाः । अ॒वि॒न्द॒त् । विश्वा॑नि । स॒त्या । अङ्गि॑राः । च॒का॒र॒ ॥

    अनूनोत् । अत्र । हस्तऽयतः । अद्रिः । आर्चन् । येन । दश । मासः । नवऽग्वाः ।
    ऋतम् । यती । सरमा । गाः । अविन्दत् । विश्वानि । सत्या । अङ्गिराः । चकार ॥

    ánūnot ǀ átra ǀ hásta-yataḥ ǀ ádriḥ ǀ ā́rcan ǀ yéna ǀ dáśa ǀ māsáḥ ǀ náva-gvāḥ ǀ
    ṛtám ǀ yatī́ ǀ sarámā ǀ gā́ḥ ǀ avindat ǀ víśvāni ǀ satyā́ ǀ áṅgirāḥ ǀ cakāra ǁ

    anūnot ǀ atra ǀ hasta-yataḥ ǀ adriḥ ǀ ārcan ǀ yena ǀ daśa ǀ māsaḥ ǀ nava-gvāḥ ǀ
    ṛtam ǀ yatī ǀ saramā ǀ gāḥ ǀ avindat ǀ viśvāni ǀ satyā ǀ aṅgirāḥ ǀ cakāra ǁ

    5.45.7 Aṣṭaka 4.2.27.2Anuvāka 5.4.7

  8. Ṛk 8

    विश्वे॑ अ॒स्या व्युषि॒ माहि॑नायाः॒ सं यद्गोभि॒रंगि॑रसो॒ नवं॑त ।
    उत्स॑ आसां पर॒मे स॒धस्थ॑ ऋ॒तस्य॑ प॒था स॒रमा॑ विद॒द्गाः ॥

    विश्वे अस्या व्युषि माहिनायाः सं यद् गोभिर् अङ्गिरसो नवन्त |
    उत्स आसाम् परमे सधस्थ ऋतस्य पथा सरमा विदद् गाः ||

    víśve asyā́ vyúṣi mā́hināyāḥ sám yádgóbhiráṅgiraso návanta ǀ
    útsa āsām paramé sadhástha ṛtásya pathā́ sarámā vidadgā́ḥ ǁ

    viśve asyā vyuṣi māhināyāḥ saṃ yad gobhir aṅgiraso navanta |
    utsa āsām parame sadhastha ṛtasya pathā saramā vidad gāḥ ||

    विश्वे॑ । अ॒स्याः । वि॒ऽउषि॑ । माहि॑नायाः । सम् । यत् । गोभिः॑ । अङ्गि॑रसः । नव॑न्त ।
    उत्सः॑ । आ॒सा॒म् । प॒र॒मे । स॒धऽस्थे॑ । ऋ॒तस्य॑ । प॒था । स॒रमा॑ । वि॒द॒त् । गाः ॥

    विश्वे । अस्याः । विऽउषि । माहिनायाः । सम् । यत् । गोभिः । अङ्गिरसः । नवन्त ।
    उत्सः । आसाम् । परमे । सधऽस्थे । ऋतस्य । पथा । सरमा । विदत् । गाः ॥

    víśve ǀ asyā́ḥ ǀ vi-úṣi ǀ mā́hināyāḥ ǀ sám ǀ yát ǀ góbhiḥ ǀ áṅgirasaḥ ǀ návanta ǀ
    útsaḥ ǀ āsām ǀ paramé ǀ sadhá-sthe ǀ ṛtásya ǀ pathā́ ǀ sarámā ǀ vidat ǀ gā́ḥ ǁ

    viśve ǀ asyāḥ ǀ vi-uṣi ǀ māhināyāḥ ǀ sam ǀ yat ǀ gobhiḥ ǀ aṅgirasaḥ ǀ navanta ǀ
    utsaḥ ǀ āsām ǀ parame ǀ sadha-sthe ǀ ṛtasya ǀ pathā ǀ saramā ǀ vidat ǀ gāḥ ǁ

    5.45.8 Aṣṭaka 4.2.27.3Anuvāka 5.4.8

  9. Ṛk 9

    आ सूर्यो॑ यातु स॒प्ताश्वः॒ क्षेत्रं॒ यद॑स्योर्वि॒या दी॑र्घया॒थे ।
    र॒घुः श्ये॒नः प॑तय॒दंधो॒ अच्छा॒ युवा॑ क॒विर्दी॑दय॒द्गोषु॒ गच्छ॑न् ॥

    आ सूर्यो यातु सप्ताश्वः क्षेत्रं यद् अस्योर्विया दीर्घयाथे |
    रघुः श्येनः पतयद् अन्धो अच्छा युवा कविर् दीदयद् गोषु गच्छन् ||

    ā́ sū́ryo yātu saptā́śvaḥ kṣétram yádasyorviyā́ dīrghayāthé ǀ
    raghúḥ śyenáḥ patayadándho ácchā yúvā kavírdīdayadgóṣu gácchan ǁ

    ā sūryo yātu saptāśvaḥ kṣetraṃ yad asyorviyā dīrghayāthe |
    raghuḥ śyenaḥ patayad andho acchā yuvā kavir dīdayad goṣu gacchan ||

    आ । सूर्यः॑ । या॒तु॒ । स॒प्तऽअ॑श्वः । क्षेत्र॑म् । यत् । अ॒स्य॒ । उ॒र्वि॒या । दी॒र्घ॒ऽया॒थे ।
    र॒घुः । श्ये॒नः । प॒त॒य॒त् । अन्धः॑ । अच्छ॑ । युवा॑ । क॒विः । दी॒द॒य॒त् । गोषु॑ । गच्छ॑न् ॥

    आ । सूर्यः । यातु । सप्तऽअश्वः । क्षेत्रम् । यत् । अस्य । उर्विया । दीर्घऽयाथे ।
    रघुः । श्येनः । पतयत् । अन्धः । अच्छ । युवा । कविः । दीदयत् । गोषु । गच्छन् ॥

    ā́ ǀ sū́ryaḥ ǀ yātu ǀ saptá-aśvaḥ ǀ kṣétram ǀ yát ǀ asya ǀ urviyā́ ǀ dīrgha-yāthé ǀ
    raghúḥ ǀ śyenáḥ ǀ patayat ǀ ándhaḥ ǀ áccha ǀ yúvā ǀ kavíḥ ǀ dīdayat ǀ góṣu ǀ gácchan ǁ

    ā ǀ sūryaḥ ǀ yātu ǀ sapta-aśvaḥ ǀ kṣetram ǀ yat ǀ asya ǀ urviyā ǀ dīrgha-yāthe ǀ
    raghuḥ ǀ śyenaḥ ǀ patayat ǀ andhaḥ ǀ accha ǀ yuvā ǀ kaviḥ ǀ dīdayat ǀ goṣu ǀ gacchan ǁ

    5.45.9 Aṣṭaka 4.2.27.4Anuvāka 5.4.9

  10. Ṛk 10

    आ सूर्यो॑ अरुहच्छु॒क्रमर्णोऽयु॑क्त॒ यद्ध॒रितो॑ वी॒तपृ॑ष्ठाः ।
    उ॒द्ना न नाव॑मनयंत॒ धीरा॑ आशृण्व॒तीरापो॑ अ॒र्वाग॑तिष्ठन् ॥

    आ सूर्यो अरुहच् छुक्रम् अर्णो ऽयुक्त यद् धरितो वीतपृष्ठाः |
    उद्ना न नावम् अनयन्त धीरा आशृण्वतीर् आपो अर्वाग् अतिष्ठन् ||

    ā́ sū́ryo aruhacchukrámárṇó’yukta yáddharíto vītápṛṣṭhāḥ ǀ
    udnā́ ná nā́vamanayanta dhī́rā āśṛṇvatī́rā́po arvā́gatiṣṭhan ǁ

    ā sūryo aruhac chukram arṇo 'yukta yad dharito vītapṛṣṭhāḥ |
    udnā na nāvam anayanta dhīrā āśṛṇvatīr āpo arvāg atiṣṭhan ||

    आ । सूर्यः॑ । अ॒रु॒ह॒त् । शु॒क्रम् । अर्णः॑ । अयु॑क्त । यत् । ह॒रितः॑ । वी॒तऽपृ॑ष्ठाः ।
    उ॒द्ना । न । नाव॑म् । अ॒न॒य॒न्त॒ । धीराः॑ । आ॒ऽशृ॒ण्व॒तीः । आपः॑ । अ॒र्वाक् । अ॒ति॒ष्ठ॒न् ॥

    आ । सूर्यः । अरुहत् । शुक्रम् । अर्णः । अयुक्त । यत् । हरितः । वीतऽपृष्ठाः ।
    उद्ना । न । नावम् । अनयन्त । धीराः । आऽशृण्वतीः । आपः । अर्वाक् । अतिष्ठन् ॥

    ā́ ǀ sū́ryaḥ ǀ aruhat ǀ śukrám ǀ árṇaḥ ǀ áyukta ǀ yát ǀ harítaḥ ǀ vītá-pṛṣṭhāḥ ǀ
    udnā́ ǀ ná ǀ nā́vam ǀ anayanta ǀ dhī́rāḥ ǀ ā-śṛṇvatī́ḥ ǀ ā́paḥ ǀ arvā́k ǀ atiṣṭhan ǁ

    ā ǀ sūryaḥ ǀ aruhat ǀ śukram ǀ arṇaḥ ǀ ayukta ǀ yat ǀ haritaḥ ǀ vīta-pṛṣṭhāḥ ǀ
    udnā ǀ na ǀ nāvam ǀ anayanta ǀ dhīrāḥ ǀ ā-śṛṇvatīḥ ǀ āpaḥ ǀ arvāk ǀ atiṣṭhan ǁ

    5.45.10 Aṣṭaka 4.2.27.5Anuvāka 5.4.10

  11. Ṛk 11

    धियं॑ वो अ॒प्सु द॑धिषे स्व॒र्षां ययात॑रं॒दश॑ मा॒सो नव॑ग्वाः ।
    अ॒या धि॒या स्या॑म दे॒वगो॑पा अ॒या धि॒या तु॑तुर्या॒मात्यंहः॑ ॥

    धियं वो अप्सु दधिषे स्वर्षां ययातरन् दश मासो नवग्वाः |
    अया धिया स्याम देवगोपा अया धिया तुतुर्यामात्य् अंहः ||

    dhíyam vo apsú dadhiṣe svarṣā́m yáyā́tarandáśa māsó návagvāḥ ǀ
    ayā́ dhiyā́ syāma devágopā ayā́ dhiyā́ tuturyāmā́tyáṃhaḥ ǁ

    dhiyaṃ vo apsu dadhiṣe svarṣāṃ yayātaran daśa māso navagvāḥ |
    ayā dhiyā syāma devagopā ayā dhiyā tuturyāmāty aṃhaḥ ||

    धिय॑म् । वः॒ । अ॒प्ऽसु । द॒धि॒षे॒ । स्वः॒ऽसाम् । यया॑ । अत॑रन् । दश॑ । मा॒सः । नव॑ऽग्वाः ।
    अ॒या । धि॒या । स्या॒म॒ । दे॒वऽगो॑पाः । अ॒या । धि॒या । तु॒तु॒र्या॒म॒ । अति॑ । अंहः॑ ॥

    धियम् । वः । अप्ऽसु । दधिषे । स्वःऽसाम् । यया । अतरन् । दश । मासः । नवऽग्वाः ।
    अया । धिया । स्याम । देवऽगोपाः । अया । धिया । तुतुर्याम । अति । अंहः ॥

    dhíyam ǀ vaḥ ǀ ap-sú ǀ dadhiṣe ǀ svaḥ-sā́m ǀ yáyā ǀ átaran ǀ dáśa ǀ māsáḥ ǀ náva-gvāḥ ǀ
    ayā́ ǀ dhiyā́ ǀ syāma ǀ devá-gopāḥ ǀ ayā́ ǀ dhiyā́ ǀ tuturyāma ǀ áti ǀ áṃhaḥ ǁ

    dhiyam ǀ vaḥ ǀ ap-su ǀ dadhiṣe ǀ svaḥ-sām ǀ yayā ǀ ataran ǀ daśa ǀ māsaḥ ǀ nava-gvāḥ ǀ
    ayā ǀ dhiyā ǀ syāma ǀ deva-gopāḥ ǀ ayā ǀ dhiyā ǀ tuturyāma ǀ ati ǀ aṃhaḥ ǁ

    5.45.11 Aṣṭaka 4.2.27.6Anuvāka 5.4.11

Text, recitation and interpretations from the Ṛgveda database of theveda.org.in.

Ṛgveda 5.45 · Viśvedevās

Interpretations

Sri Aurobindo

Ṛk 1

Severing the hill of heaven by the words he found them, yea, the radiant ones of the arriving Dawn went abroad; he uncovered those that were in the pen, Swar rose up; a god opened the human doors. (SABCL, Vol. 10, p. 204)

Ṛk 2

The Sun attained widely to strength and glory; the Mother of the Cows (the Dawn), knowing, came from the wideness; the rivers became rushing floods, floods that cleft (their channel), heaven was made firm like a well-shaped pillar. (SABCL, Vol. 10, p. 204)

Ṛk 3

To this word the contents of the pregnant hill (came forth) for the supreme birth of the Great Ones (the rivers or, less probably, the dawns); the hill parted asunder, heaven was perfected (or, accomplished itself); they lodged (upon earth) and distributed the largeness. (SABCL, Vol. 10, p. 204)

Ṛk 5

Come now, today let us become perfected in thought, let us destroy suffering and unease, let us embrace the higher good, eto nu adya sudhyo bhavDma, pra ducchunD minavDmD variyah; far from us let us put always all hostile things (all the things that attack and divide, dvesamsi); let us go forward towards the Master of the sacrifice.) Come, let us create the Thought, O friends, (obviously, the seven-headed Angirasa-thought), which is the Mother (Aditi or the Dawn) and removes the screening pen of the Cow. (SABCL, Vol. 10, p. 205-6)

Ṛk 6

Come now, today let us become perfected in thought, let us destroy suffering and unease, let us embrace the higher good, eto nu adya sudhyo bhavDma, pra ducchunD minavDmD variyah; far from us let us put always all hostile things (all the things that attack and divide, dvesamsi); let us go forward towards the Master of the sacrifice.) Come, let us create the Thought, O friends, (obviously, the seven-headed Angirasa-thought), which is the Mother (Aditi or the Dawn) and removes the screening pen of the Cow.

Ṛk 7

Here cried (or, moved) the stone impelled by the hand, whereby the Navagwas chanted for ten months the hymn; Sarama travelling to the Truth found the cows; all things the Angiras made true. (SABCL, Vol. 10, p. 168)

Ṛk 8

When in the dawning of this vast One (Usha representing the infinite Aditi, mDtD devDnDm aditer annkam) all the Angirasas came together with the cows (or rather, perhaps by the illuminations represented in the symbol of the cows or Rays); there was the foundation of these (illuminations)in the supreme world; by the path of the Truth Sarama found the cows. (SABCL, Vol. 10, p. 206)

Ṛk 11

I hold for you in the waters (i.e. the Seven Rivers) the thought that wins possession of heaven (this is once more the seven headed thought born from the Truth and found by Ayasa), by which the Navagwas passed through the ten months; by this thought may we have the gods for protectors, by this thought may we pass through beyond the evil. (SABCL, Vol. 10, p. 168)