Ṛk 5.45.8
Saṃhitā
विश्वे॑ अ॒स्या व्युषि॒ माहि॑नायाः॒ सं यद्गोभि॒रंगि॑रसो॒ नवं॑त ।
उत्स॑ आसां पर॒मे स॒धस्थ॑ ऋ॒तस्य॑ प॒था स॒रमा॑ विद॒द्गाः ॥
विश्वे अस्या व्युषि माहिनायाः सं यद् गोभिर् अङ्गिरसो नवन्त |
उत्स आसाम् परमे सधस्थ ऋतस्य पथा सरमा विदद् गाः ||
víśve asyā́ vyúṣi mā́hināyāḥ sám yádgóbhiráṅgiraso návanta ǀ
útsa āsām paramé sadhástha ṛtásya pathā́ sarámā vidadgā́ḥ ǁ
viśve asyā vyuṣi māhināyāḥ saṃ yad gobhir aṅgiraso navanta |
utsa āsām parame sadhastha ṛtasya pathā saramā vidad gāḥ ||
Padapāṭha
विश्वे॑ । अ॒स्याः । वि॒ऽउषि॑ । माहि॑नायाः । सम् । यत् । गोभिः॑ । अङ्गि॑रसः । नव॑न्त ।
उत्सः॑ । आ॒सा॒म् । प॒र॒मे । स॒धऽस्थे॑ । ऋ॒तस्य॑ । प॒था । स॒रमा॑ । वि॒द॒त् । गाः ॥
विश्वे । अस्याः । विऽउषि । माहिनायाः । सम् । यत् । गोभिः । अङ्गिरसः । नवन्त ।
उत्सः । आसाम् । परमे । सधऽस्थे । ऋतस्य । पथा । सरमा । विदत् । गाः ॥
víśve ǀ asyā́ḥ ǀ vi-úṣi ǀ mā́hināyāḥ ǀ sám ǀ yát ǀ góbhiḥ ǀ áṅgirasaḥ ǀ návanta ǀ
útsaḥ ǀ āsām ǀ paramé ǀ sadhá-sthe ǀ ṛtásya ǀ pathā́ ǀ sarámā ǀ vidat ǀ gā́ḥ ǁ
viśve ǀ asyāḥ ǀ vi-uṣi ǀ māhināyāḥ ǀ sam ǀ yat ǀ gobhiḥ ǀ aṅgirasaḥ ǀ navanta ǀ
utsaḥ ǀ āsām ǀ parame ǀ sadha-sthe ǀ ṛtasya ǀ pathā ǀ saramā ǀ vidat ǀ gāḥ ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 05.045.08
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 4.2.27.03
- Maṇḍala · Anuvāka · Ṛk
- 05.04.008
- Devatā देवता
- Viśvedevās
- Ṛṣi ऋषि
- Sadāpṛṇa Ātreya
- Chandas छन्दस्
- Triṣṭubh
- Svara स्वरः
- धैवतः
Text and interpretations from the Ṛgveda database of theveda.org.in.