Ṛk 5.45.1
Saṃhitā
वि॒दा दि॒वो वि॒ष्यन्नद्रि॑मु॒क्थैरा॑य॒त्या उ॒षसो॑ अ॒र्चिनो॑ गुः ।
अपा॑वृत व्र॒जिनी॒रुत्स्व॑र्गा॒द्वि दुरो॒ मानु॑षीर्दे॒व आ॑वः ॥
विदा दिवो विष्यन्न् अद्रिम् उक्थैर् आयत्या उषसो अर्चिनो गुः |
अपावृत व्रजिनीर् उत् स्वर् गाद् वि दुरो मानुषीर् देव आवः ||
vidā́ divó viṣyánnádrimuktháirāyatyā́ uṣáso arcíno guḥ ǀ
ápāvṛta vrajínīrútsvárgādví dúro mā́nuṣīrdevá āvaḥ ǁ
vidā divo viṣyann adrim ukthair āyatyā uṣaso arcino guḥ |
apāvṛta vrajinīr ut svar gād vi duro mānuṣīr deva āvaḥ ||
Padapāṭha
वि॒दाः । दि॒वः । वि॒ऽस्यन् । अद्रि॑म् । उ॒क्थैः । आ॒ऽय॒त्याः । उ॒षसः॑ । अ॒र्चिनः॑ । गुः॒ ।
अप॑ । अ॒वृ॒त॒ । व्र॒जिनीः॑ । उत् । स्वः॑ । गा॒त् । वि । दुरः॑ । मानु॑षीः । दे॒वः । आ॒व॒रित्या॑वः ॥
विदाः । दिवः । विऽस्यन् । अद्रिम् । उक्थैः । आऽयत्याः । उषसः । अर्चिनः । गुः ।
अप । अवृत । व्रजिनीः । उत् । स्वः । गात् । वि । दुरः । मानुषीः । देवः । आवरित्यावः ॥
vidā́ḥ ǀ diváḥ ǀ vi-syán ǀ ádrim ǀ uktháiḥ ǀ ā-yatyā́ḥ ǀ uṣásaḥ ǀ arcínaḥ ǀ guḥ ǀ
ápa ǀ avṛta ǀ vrajínīḥ ǀ út ǀ sváḥ ǀ gāt ǀ ví ǀ dúraḥ ǀ mā́nuṣīḥ ǀ deváḥ ǀ āvarítyāvaḥ ǁ
vidāḥ ǀ divaḥ ǀ vi-syan ǀ adrim ǀ ukthaiḥ ǀ ā-yatyāḥ ǀ uṣasaḥ ǀ arcinaḥ ǀ guḥ ǀ
apa ǀ avṛta ǀ vrajinīḥ ǀ ut ǀ svaḥ ǀ gāt ǀ vi ǀ duraḥ ǀ mānuṣīḥ ǀ devaḥ ǀ āvarityāvaḥ ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 05.045.01
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 4.2.26.01
- Maṇḍala · Anuvāka · Ṛk
- 05.04.001
- Devatā देवता
- Viśvedevās
- Ṛṣi ऋषि
- Sadāpṛṇa Ātreya
- Chandas छन्दस्
- Triṣṭubh
- Svara स्वरः
- धैवतः
Text and interpretations from the Ṛgveda database of theveda.org.in.