Ṛk 5.45.6
Saṃhitā
एता॒ धियं॑ कृ॒णवा॑मा सखा॒योऽप॒ या मा॒ताँ ऋ॑णु॒त व्र॒जं गोः ।
यया॒ मनु॑र्विशिशि॒प्रं जि॒गाय॒ यया॑ व॒णिग्वं॒कुरापा॒ पुरी॑षं ॥
एता धियं कृणवामा सखायो ऽप या मातां ऋणुत व्रजं गोः |
यया मनुर् विशिशिप्रं जिगाय यया वणिग् वङ्कुर् आपा पुरीषम् ||
étā dhíyam kṛṇávāmā sakhāyó’pa yā́ mātā́m̐ ṛṇutá vrajám góḥ ǀ
yáyā mánurviśiśiprám jigā́ya yáyā vaṇígvaṅkúrā́pā púrīṣam ǁ
etā dhiyaṃ kṛṇavāmā sakhāyo 'pa yā mātāṃ ṛṇuta vrajaṃ goḥ |
yayā manur viśiśipraṃ jigāya yayā vaṇig vaṅkur āpā purīṣam ||
Padapāṭha
आ । इ॒त॒ । धिय॑म् । कृ॒णवा॑म । स॒खा॒यः॒ । अप॑ । या । मा॒ता । ऋ॒णु॒त । व्र॒जम् । गोः ।
यया॑ । मनुः॑ । वि॒शि॒ऽशि॒प्रम् । जि॒गाय॑ । यया॑ । व॒णिक् । व॒ङ्कुः । आप॑ । पुरी॑षम् ॥
आ । इत । धियम् । कृणवाम । सखायः । अप । या । माता । ऋणुत । व्रजम् । गोः ।
यया । मनुः । विशिऽशिप्रम् । जिगाय । यया । वणिक् । वङ्कुः । आप । पुरीषम् ॥
ā́ ǀ ita ǀ dhíyam ǀ kṛṇávāma ǀ sakhāyaḥ ǀ ápa ǀ yā́ ǀ mātā́ ǀ ṛṇutá ǀ vrajám ǀ góḥ ǀ
yáyā ǀ mánuḥ ǀ viśi-śiprám ǀ jigā́ya ǀ yáyā ǀ vaṇík ǀ vaṅkúḥ ǀ ā́pa ǀ púrīṣam ǁ
ā ǀ ita ǀ dhiyam ǀ kṛṇavāma ǀ sakhāyaḥ ǀ apa ǀ yā ǀ mātā ǀ ṛṇuta ǀ vrajam ǀ goḥ ǀ
yayā ǀ manuḥ ǀ viśi-śipram ǀ jigāya ǀ yayā ǀ vaṇik ǀ vaṅkuḥ ǀ āpa ǀ purīṣam ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 05.045.06
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 4.2.27.01
- Maṇḍala · Anuvāka · Ṛk
- 05.04.006
- Devatā देवता
- Viśvedevās
- Ṛṣi ऋषि
- Sadāpṛṇa Ātreya
- Chandas छन्दस्
- Triṣṭubh
- Svara स्वरः
- धैवतः
Text and interpretations from the Ṛgveda database of theveda.org.in.