Ṛk 5.45.10
Saṃhitā
आ सूर्यो॑ अरुहच्छु॒क्रमर्णोऽयु॑क्त॒ यद्ध॒रितो॑ वी॒तपृ॑ष्ठाः ।
उ॒द्ना न नाव॑मनयंत॒ धीरा॑ आशृण्व॒तीरापो॑ अ॒र्वाग॑तिष्ठन् ॥
आ सूर्यो अरुहच् छुक्रम् अर्णो ऽयुक्त यद् धरितो वीतपृष्ठाः |
उद्ना न नावम् अनयन्त धीरा आशृण्वतीर् आपो अर्वाग् अतिष्ठन् ||
ā́ sū́ryo aruhacchukrámárṇó’yukta yáddharíto vītápṛṣṭhāḥ ǀ
udnā́ ná nā́vamanayanta dhī́rā āśṛṇvatī́rā́po arvā́gatiṣṭhan ǁ
ā sūryo aruhac chukram arṇo 'yukta yad dharito vītapṛṣṭhāḥ |
udnā na nāvam anayanta dhīrā āśṛṇvatīr āpo arvāg atiṣṭhan ||
Padapāṭha
आ । सूर्यः॑ । अ॒रु॒ह॒त् । शु॒क्रम् । अर्णः॑ । अयु॑क्त । यत् । ह॒रितः॑ । वी॒तऽपृ॑ष्ठाः ।
उ॒द्ना । न । नाव॑म् । अ॒न॒य॒न्त॒ । धीराः॑ । आ॒ऽशृ॒ण्व॒तीः । आपः॑ । अ॒र्वाक् । अ॒ति॒ष्ठ॒न् ॥
आ । सूर्यः । अरुहत् । शुक्रम् । अर्णः । अयुक्त । यत् । हरितः । वीतऽपृष्ठाः ।
उद्ना । न । नावम् । अनयन्त । धीराः । आऽशृण्वतीः । आपः । अर्वाक् । अतिष्ठन् ॥
ā́ ǀ sū́ryaḥ ǀ aruhat ǀ śukrám ǀ árṇaḥ ǀ áyukta ǀ yát ǀ harítaḥ ǀ vītá-pṛṣṭhāḥ ǀ
udnā́ ǀ ná ǀ nā́vam ǀ anayanta ǀ dhī́rāḥ ǀ ā-śṛṇvatī́ḥ ǀ ā́paḥ ǀ arvā́k ǀ atiṣṭhan ǁ
ā ǀ sūryaḥ ǀ aruhat ǀ śukram ǀ arṇaḥ ǀ ayukta ǀ yat ǀ haritaḥ ǀ vīta-pṛṣṭhāḥ ǀ
udnā ǀ na ǀ nāvam ǀ anayanta ǀ dhīrāḥ ǀ ā-śṛṇvatīḥ ǀ āpaḥ ǀ arvāk ǀ atiṣṭhan ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 05.045.10
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 4.2.27.05
- Maṇḍala · Anuvāka · Ṛk
- 05.04.010
- Devatā देवता
- Viśvedevās
- Ṛṣi ऋषि
- Sadāpṛṇa Ātreya
- Chandas छन्दस्
- Triṣṭubh
- Svara स्वरः
- पञ्चमः
Text and interpretations from the Ṛgveda database of theveda.org.in.