Ṛk 5.45.2
Saṃhitā
वि सूर्यो॑ अ॒मतिं॒ न श्रियं॑ सा॒दोर्वाद्गवां॑ मा॒ता जा॑न॒ती गा॑त् ।
धन्व॑र्णसो न॒द्यः१॒॑ खादो॑अर्णाः॒ स्थूणे॑व॒ सुमि॑ता दृंहत॒ द्यौः ॥
वि सूर्यो अमतिं न श्रियं साद् ओर्वाद् गवाम् माता जानती गात् |
धन्वर्णसो नद्यः खादोअर्णा स्थूणेव सुमिता दृंहत द्यौः ||
ví sū́ryo amátim ná śríyam sādórvā́dgávām mātā́ jānatī́ gāt ǀ
dhánvarṇaso nadyáḥ khā́doarṇāḥ sthū́ṇeva súmitā dṛṃhata dyáuḥ ǁ
vi sūryo amatiṃ na śriyaṃ sād orvād gavām mātā jānatī gāt |
dhanvarṇaso nadyaḥ khādoarṇā sthūṇeva sumitā dṛṃhata dyauḥ ||
Padapāṭha
वि । सूर्यः॑ । अ॒मति॑म् । न । श्रिय॑म् । सा॒त् । आ । ऊ॒र्वात् । गवा॑म् । मा॒ता । जा॒न॒ती । गा॒त् ।
धन्व॑ऽअर्णसः । न॒द्यः॑ । खादः॑ऽअर्णाः । स्थूणा॑ऽइव । सुऽमि॑ता । दृं॒ह॒त॒ । द्यौः ॥
वि । सूर्यः । अमतिम् । न । श्रियम् । सात् । आ । ऊर्वात् । गवाम् । माता । जानती । गात् ।
धन्वऽअर्णसः । नद्यः । खादःऽअर्णाः । स्थूणाऽइव । सुऽमिता । दृंहत । द्यौः ॥
ví ǀ sū́ryaḥ ǀ amátim ǀ ná ǀ śríyam ǀ sāt ǀ ā́ ǀ ūrvā́t ǀ gávām ǀ mātā́ ǀ jānatī́ ǀ gāt ǀ
dhánva-arṇasaḥ ǀ nadyáḥ ǀ khā́daḥ-arṇāḥ ǀ sthū́ṇā-iva ǀ sú-mitā ǀ dṛṃhata ǀ dyáuḥ ǁ
vi ǀ sūryaḥ ǀ amatim ǀ na ǀ śriyam ǀ sāt ǀ ā ǀ ūrvāt ǀ gavām ǀ mātā ǀ jānatī ǀ gāt ǀ
dhanva-arṇasaḥ ǀ nadyaḥ ǀ khādaḥ-arṇāḥ ǀ sthūṇā-iva ǀ su-mitā ǀ dṛṃhata ǀ dyauḥ ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 05.045.02
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 4.2.26.02
- Maṇḍala · Anuvāka · Ṛk
- 05.04.002
- Devatā देवता
- Viśvedevās
- Ṛṣi ऋषि
- Sadāpṛṇa Ātreya
- Chandas छन्दस्
- Triṣṭubh
- Svara स्वरः
- धैवतः
Text and interpretations from the Ṛgveda database of theveda.org.in.