Sūkta 23
- Devatā देवता
- Agni
- Ṛṣi ऋषि
- Dyumna Viśvacarṣaṇi Ātreya
- Chandas छन्दस्
- Anuṣṭubh, Paṅkti
Metres by ṛk
1st set of styles nicṛdanuṣṭup (1, 2); virāḍanuṣṭup (3); nicṛtpaṅkti (4)
2nd set of styles anuṣṭubh (1-3); paṅkti (4)
-
Ṛk 1
अग्ने॒ सहं॑त॒मा भ॑र द्यु॒म्नस्य॑ प्रा॒सहा॑ र॒यिं ।
विश्वा॒ यश्च॑र्ष॒णीर॒भ्या॒३॒॑सा वाजे॑षु सा॒सह॑त् ॥अग्ने सहन्तम् आ भर द्युम्नस्य प्रासहा रयिम् |
विश्वा यश् चर्षणीर् अभ्य् आसा वाजेषु सासहत् ||ágne sáhantamā́ bhara dyumnásya prāsáhā rayím ǀ
víśvā yáścarṣaṇī́rabhyā́sā́ vā́jeṣu sāsáhat ǁagne sahantam ā bhara dyumnasya prāsahā rayim |
viśvā yaś carṣaṇīr abhy āsā vājeṣu sāsahat ||अग्ने॑ । सह॑न्तम् । आ । भ॒र॒ । द्यु॒म्नस्य॑ । प्र॒ऽसहा॑ । र॒यिम् ।
विश्वाः॑ । यः । च॒र्ष॒णीः । अ॒भि । आ॒सा । वाजे॑षु । स॒सह॑त् ॥अग्ने । सहन्तम् । आ । भर । द्युम्नस्य । प्रऽसहा । रयिम् ।
विश्वाः । यः । चर्षणीः । अभि । आसा । वाजेषु । ससहत् ॥ágne ǀ sáhantam ǀ ā́ ǀ bhara ǀ dyumnásya ǀ pra-sáhā ǀ rayím ǀ
víśvāḥ ǀ yáḥ ǀ carṣaṇī́ḥ ǀ abhí ǀ āsā́ ǀ vā́jeṣu ǀ sasáhat ǁagne ǀ sahantam ǀ ā ǀ bhara ǀ dyumnasya ǀ pra-sahā ǀ rayim ǀ
viśvāḥ ǀ yaḥ ǀ carṣaṇīḥ ǀ abhi ǀ āsā ǀ vājeṣu ǀ sasahat ǁ5.23.1 Aṣṭaka 4.1.15.1Anuvāka 5.2.38
-
Ṛk 2
तम॑ग्ने पृतना॒षहं॑ र॒यिं स॑हस्व॒ आ भ॑र ।
त्वं हि स॒त्यो अद्भु॑तो दा॒ता वाज॑स्य॒ गोम॑तः ॥तम् अग्ने पृतनाषहं रयिं सहस्व आ भर |
त्वं हि सत्यो अद्भुतो दाता वाजस्य गोमतः ||támagne pṛtanāṣáham rayím sahasva ā́ bhara ǀ
tvám hí satyó ádbhuto dātā́ vā́jasya gómataḥ ǁtam agne pṛtanāṣahaṃ rayiṃ sahasva ā bhara |
tvaṃ hi satyo adbhuto dātā vājasya gomataḥ ||तम् । अ॒ग्ने॒ । पृ॒त॒ना॒ऽसह॑म् । र॒यिम् । स॒ह॒स्वः॒ । आ । भ॒र॒ ।
त्वम् । हि । स॒त्यः । अद्भु॑तः । दा॒ता । वाज॑स्य । गोऽम॑तः ॥तम् । अग्ने । पृतनाऽसहम् । रयिम् । सहस्वः । आ । भर ।
त्वम् । हि । सत्यः । अद्भुतः । दाता । वाजस्य । गोऽमतः ॥tám ǀ agne ǀ pṛtanā-sáham ǀ rayím ǀ sahasvaḥ ǀ ā́ ǀ bhara ǀ
tvám ǀ hí ǀ satyáḥ ǀ ádbhutaḥ ǀ dātā́ ǀ vā́jasya ǀ gó-mataḥ ǁtam ǀ agne ǀ pṛtanā-saham ǀ rayim ǀ sahasvaḥ ǀ ā ǀ bhara ǀ
tvam ǀ hi ǀ satyaḥ ǀ adbhutaḥ ǀ dātā ǀ vājasya ǀ go-mataḥ ǁ5.23.2 Aṣṭaka 4.1.15.2Anuvāka 5.2.39
-
Ṛk 3
विश्वे॒ हि त्वा॑ स॒जोष॑सो॒ जना॑सो वृ॒क्तब॑र्हिषः ।
होता॑रं॒ सद्म॑सु प्रि॒यं व्यंति॒ वार्या॑ पु॒रु ॥विश्वे हि त्वा सजोषसो जनासो वृक्तबर्हिषः |
होतारं सद्मसु प्रियं व्यन्ति वार्या पुरु ||víśve hí tvā sajóṣaso jánāso vṛktábarhiṣaḥ ǀ
hótāram sádmasu priyám vyánti vā́ryā purú ǁviśve hi tvā sajoṣaso janāso vṛktabarhiṣaḥ |
hotāraṃ sadmasu priyaṃ vyanti vāryā puru ||विश्वे॑ । हि । त्वा॒ । स॒ऽजोष॑सः । जना॑सः । वृ॒क्तऽब॑र्हिषः ।
होता॑रम् । सद्म॑ऽसु । प्रि॒यम् । व्यन्ति॑ । वार्या॑ । पु॒रु ॥विश्वे । हि । त्वा । सऽजोषसः । जनासः । वृक्तऽबर्हिषः ।
होतारम् । सद्मऽसु । प्रियम् । व्यन्ति । वार्या । पुरु ॥víśve ǀ hí ǀ tvā ǀ sa-jóṣasaḥ ǀ jánāsaḥ ǀ vṛktá-barhiṣaḥ ǀ
hótāram ǀ sádma-su ǀ priyám ǀ vyánti ǀ vā́ryā ǀ purú ǁviśve ǀ hi ǀ tvā ǀ sa-joṣasaḥ ǀ janāsaḥ ǀ vṛkta-barhiṣaḥ ǀ
hotāram ǀ sadma-su ǀ priyam ǀ vyanti ǀ vāryā ǀ puru ǁ5.23.3 Aṣṭaka 4.1.15.3Anuvāka 5.2.40
-
Ṛk 4
स हि ष्मा॑ वि॒श्वच॑र्षणिर॒भिमा॑ति॒ सहो॑ द॒धे ।
अग्न॑ ए॒षु क्षये॒ष्वा रे॒वन्नः॑ शुक्र दीदिहि द्यु॒मत्पा॑वक दीदिहि ॥स हि ष्मा विश्वचर्षणिर् अभिमाति सहो दधे |
अग्न एषु क्षयेष्व् आ रेवन् नः शुक्र दीदिहि द्युमत् पावक दीदिहि ||sá hí ṣmā viśvácarṣaṇirabhímāti sáho dadhé ǀ
ágna eṣú kṣáyeṣvā́ revánnaḥ śukra dīdihi dyumátpāvaka dīdihi ǁsa hi ṣmā viśvacarṣaṇir abhimāti saho dadhe |
agna eṣu kṣayeṣv ā revan naḥ śukra dīdihi dyumat pāvaka dīdihi ||सः । हि । स्म॒ । वि॒श्वऽच॑र्षणिः । अ॒भिऽमा॑ति । सहः॑ । द॒धे ।
अग्ने॑ । ए॒षु । क्षये॑षु । आ । रे॒वत् । नः॒ । शु॒क्र॒ । दी॒दि॒हि॒ । द्यु॒ऽमत् । पा॒व॒क॒ । दी॒दि॒हि॒ ॥सः । हि । स्म । विश्वऽचर्षणिः । अभिऽमाति । सहः । दधे ।
अग्ने । एषु । क्षयेषु । आ । रेवत् । नः । शुक्र । दीदिहि । द्युऽमत् । पावक । दीदिहि ॥sáḥ ǀ hí ǀ sma ǀ viśvá-carṣaṇiḥ ǀ abhí-māti ǀ sáhaḥ ǀ dadhé ǀ
ágne ǀ eṣú ǀ kṣáyeṣu ǀ ā́ ǀ revát ǀ naḥ ǀ śukra ǀ dīdihi ǀ dyu-mát ǀ pāvaka ǀ dīdihi ǁsaḥ ǀ hi ǀ sma ǀ viśva-carṣaṇiḥ ǀ abhi-māti ǀ sahaḥ ǀ dadhe ǀ
agne ǀ eṣu ǀ kṣayeṣu ǀ ā ǀ revat ǀ naḥ ǀ śukra ǀ dīdihi ǀ dyu-mat ǀ pāvaka ǀ dīdihi ǁ5.23.4 Aṣṭaka 4.1.15.4Anuvāka 5.2.41
Text, recitation and interpretations from the Ṛgveda database of theveda.org.in.