Sūkta 49
- Devatā देवता
- Viśvedevās
- Ṛṣi ऋषि
- Pratiprabha Ātreya
- Chandas छन्दस्
- Anuṣṭubh, Paṅkti
Metres by ṛk
1st set of styles triṣṭup (1, 2, 4); nicṛttriṣṭup (3); svarāṭpaṅkti (5)
2nd set of styles anuṣṭubh (1-4); paṅkti (5)
-
Ṛk 1
दे॒वं वो॑ अ॒द्य स॑वि॒तार॒मेषे॒ भगं॑ च॒ रत्नं॑ वि॒भजं॑तमा॒योः ।
आ वां॑ नरा पुरुभुजा ववृत्यां दि॒वेदि॑वे चिदश्विना सखी॒यन् ॥देवं वो अद्य सवितारम् एषे भगं च रत्नं विभजन्तम् आयोः |
आ वां नरा पुरुभुजा ववृत्यां दिवे-दिवे चिद् अश्विना सखीयन् ||devám vo adyá savitā́raméṣe bhágam ca rátnam vibhájantamāyóḥ ǀ
ā́ vām narā purubhujā vavṛtyām divédive cidaśvinā sakhīyán ǁdevaṃ vo adya savitāram eṣe bhagaṃ ca ratnaṃ vibhajantam āyoḥ |
ā vāṃ narā purubhujā vavṛtyāṃ dive-dive cid aśvinā sakhīyan ||दे॒वम् । वः॒ । अ॒द्य । स॒वि॒तार॑म् । आ । ई॒षे॒ । भग॑म् । च॒ । रत्न॑म् । वि॒ऽभज॑न्तम् । आ॒योः ।
आ । वा॒म् । न॒रा॒ । पु॒रु॒ऽभु॒जा॒ । व॒वृ॒त्या॒म् । दि॒वेऽदि॑वे । चि॒त् । अ॒श्वि॒ना॒ । स॒खि॒ऽयन् ॥देवम् । वः । अद्य । सवितारम् । आ । ईषे । भगम् । च । रत्नम् । विऽभजन्तम् । आयोः ।
आ । वाम् । नरा । पुरुऽभुजा । ववृत्याम् । दिवेऽदिवे । चित् । अश्विना । सखिऽयन् ॥devám ǀ vaḥ ǀ adyá ǀ savitā́ram ǀ ā́ ǀ īṣe ǀ bhágam ǀ ca ǀ rátnam ǀ vi-bhájantam ǀ āyóḥ ǀ
ā́ ǀ vām ǀ narā ǀ puru-bhujā ǀ vavṛtyām ǀ divé-dive ǀ cit ǀ aśvinā ǀ sakhi-yán ǁdevam ǀ vaḥ ǀ adya ǀ savitāram ǀ ā ǀ īṣe ǀ bhagam ǀ ca ǀ ratnam ǀ vi-bhajantam ǀ āyoḥ ǀ
ā ǀ vām ǀ narā ǀ puru-bhujā ǀ vavṛtyām ǀ dive-dive ǀ cit ǀ aśvinā ǀ sakhi-yan ǁ5.49.1 Aṣṭaka 4.3.3.1Anuvāka 5.4.32
-
Ṛk 2
प्रति॑ प्र॒याण॒मसु॑रस्य वि॒द्वान्त्सू॒क्तैर्दे॒वं स॑वि॒तारं॑ दुवस्य ।
उप॑ ब्रुवीत॒ नम॑सा विजा॒नंज्येष्ठं॑ च॒ रत्नं॑ वि॒भजं॑तमा॒योः ॥प्रति प्रयाणम् असुरस्य विद्वान् सूक्तैर् देवं सवितारं दुवस्य |
उप ब्रुवीत नमसा विजानञ् ज्येष्ठं च रत्नं विभजन्तम् आयोः ||práti prayā́ṇamásurasya vidvā́ntsūktáirdevám savitā́ram duvasya ǀ
úpa bruvīta námasā vijānáñjyéṣṭham ca rátnam vibhájantamāyóḥ ǁprati prayāṇam asurasya vidvān sūktair devaṃ savitāraṃ duvasya |
upa bruvīta namasā vijānañ jyeṣṭhaṃ ca ratnaṃ vibhajantam āyoḥ ||प्रति॑ । प्र॒ऽयान॑म् । असु॑रस्य । वि॒द्वान् । सु॒ऽउ॒क्तैः । दे॒वम् । स॒वि॒तार॑म् । दु॒व॒स्य॒ ।
उप॑ । ब्रु॒वी॒त॒ । नम॑सा । वि॒ऽजा॒नन् । ज्येष्ठ॑म् । च॒ । रत्न॑म् । वि॒ऽभज॑न्तम् । आ॒योः ॥प्रति । प्रऽयानम् । असुरस्य । विद्वान् । सुऽउक्तैः । देवम् । सवितारम् । दुवस्य ।
उप । ब्रुवीत । नमसा । विऽजानन् । ज्येष्ठम् । च । रत्नम् । विऽभजन्तम् । आयोः ॥práti ǀ pra-yā́nam ǀ ásurasya ǀ vidvā́n ǀ su-uktáiḥ ǀ devám ǀ savitā́ram ǀ duvasya ǀ
úpa ǀ bruvīta ǀ námasā ǀ vi-jānán ǀ jyéṣṭham ǀ ca ǀ rátnam ǀ vi-bhájantam ǀ āyóḥ ǁprati ǀ pra-yānam ǀ asurasya ǀ vidvān ǀ su-uktaiḥ ǀ devam ǀ savitāram ǀ duvasya ǀ
upa ǀ bruvīta ǀ namasā ǀ vi-jānan ǀ jyeṣṭham ǀ ca ǀ ratnam ǀ vi-bhajantam ǀ āyoḥ ǁ5.49.2 Aṣṭaka 4.3.3.2Anuvāka 5.4.33
-
Ṛk 3
अ॒द॒त्र॒या द॑यते॒ वार्या॑णि पू॒षा भगो॒ अदि॑ति॒र्वस्त॑ उ॒स्रः ।
इंद्रो॒ विष्णु॒र्वरु॑णो मि॒त्रो अ॒ग्निरहा॑नि भ॒द्रा ज॑नयंत द॒स्माः ॥अदत्रया दयते वार्याणि पूषा भगो अदितिर् वस्त उस्रः |
इन्द्रो विष्णुर् वरुणो मित्रो अग्निर् अहानि भद्रा जनयन्त दस्माः ||adatrayā́ dayate vā́ryāṇi pūṣā́ bhágo áditirvásta usráḥ ǀ
índro víṣṇurváruṇo mitró agníráhāni bhadrā́ janayanta dasmā́ḥ ǁadatrayā dayate vāryāṇi pūṣā bhago aditir vasta usraḥ |
indro viṣṇur varuṇo mitro agnir ahāni bhadrā janayanta dasmāḥ ||अ॒द॒त्र॒ऽया । द॒य॒ते॒ । वार्या॑णि । पू॒षा । भगः॑ । अदि॑तिः । वस्ते॑ । उ॒स्रः ।
इन्द्रः॑ । विष्णुः॑ । वरु॑णः । मि॒त्रः । अ॒ग्निः । अहा॑नि । भ॒द्रा । ज॒न॒य॒न्त॒ । द॒स्माः ॥अदत्रऽया । दयते । वार्याणि । पूषा । भगः । अदितिः । वस्ते । उस्रः ।
इन्द्रः । विष्णुः । वरुणः । मित्रः । अग्निः । अहानि । भद्रा । जनयन्त । दस्माः ॥adatra-yā́ ǀ dayate ǀ vā́ryāṇi ǀ pūṣā́ ǀ bhágaḥ ǀ áditiḥ ǀ váste ǀ usráḥ ǀ
índraḥ ǀ víṣṇuḥ ǀ váruṇaḥ ǀ mitráḥ ǀ agníḥ ǀ áhāni ǀ bhadrā́ ǀ janayanta ǀ dasmā́ḥ ǁadatra-yā ǀ dayate ǀ vāryāṇi ǀ pūṣā ǀ bhagaḥ ǀ aditiḥ ǀ vaste ǀ usraḥ ǀ
indraḥ ǀ viṣṇuḥ ǀ varuṇaḥ ǀ mitraḥ ǀ agniḥ ǀ ahāni ǀ bhadrā ǀ janayanta ǀ dasmāḥ ǁ5.49.3 Aṣṭaka 4.3.3.3Anuvāka 5.4.34
-
Ṛk 4
तन्नो॑ अन॒र्वा स॑वि॒ता वरू॑थं॒ तत्सिंध॑व इ॒षयं॑तो॒ अनु॑ ग्मन् ।
उप॒ यद्वोचे॑ अध्व॒रस्य॒ होता॑ रा॒यः स्या॑म॒ पत॑यो॒ वाज॑रत्नाः ॥तन् नो अनर्वा सविता वरूथं तत् सिन्धव इषयन्तो अनु ग्मन् |
उप यद् वोचे अध्वरस्य होता रायः स्याम पतयो वाजरत्नाः ||tánno anarvā́ savitā́ várūtham tátsíndhava iṣáyanto ánu gman ǀ
úpa yádvóce adhvarásya hótā rāyáḥ syāma pátayo vā́jaratnāḥ ǁtan no anarvā savitā varūthaṃ tat sindhava iṣayanto anu gman |
upa yad voce adhvarasya hotā rāyaḥ syāma patayo vājaratnāḥ ||तत् । नः॒ । अ॒न॒र्वा । स॒वि॒ता । वरू॑थम् । तत् । सिन्ध॑वः । इ॒षय॑न्तः । अनु॑ । ग्म॒न् ।
उप॑ । यत् । वोचे॑ । अ॒ध्व॒रस्य॑ । होता॑ । रा॒यः । स्या॒म॒ । पत॑यः । वाज॑ऽरत्नाः ॥तत् । नः । अनर्वा । सविता । वरूथम् । तत् । सिन्धवः । इषयन्तः । अनु । ग्मन् ।
उप । यत् । वोचे । अध्वरस्य । होता । रायः । स्याम । पतयः । वाजऽरत्नाः ॥tát ǀ naḥ ǀ anarvā́ ǀ savitā́ ǀ várūtham ǀ tát ǀ síndhavaḥ ǀ iṣáyantaḥ ǀ ánu ǀ gman ǀ
úpa ǀ yát ǀ vóce ǀ adhvarásya ǀ hótā ǀ rāyáḥ ǀ syāma ǀ pátayaḥ ǀ vā́ja-ratnāḥ ǁtat ǀ naḥ ǀ anarvā ǀ savitā ǀ varūtham ǀ tat ǀ sindhavaḥ ǀ iṣayantaḥ ǀ anu ǀ gman ǀ
upa ǀ yat ǀ voce ǀ adhvarasya ǀ hotā ǀ rāyaḥ ǀ syāma ǀ patayaḥ ǀ vāja-ratnāḥ ǁ5.49.4 Aṣṭaka 4.3.3.4Anuvāka 5.4.35
-
Ṛk 5
प्र ये वसु॑भ्य॒ ईव॒दा नमो॒ दुर्ये मि॒त्रे वरु॑णे सू॒क्तवा॑चः ।
अवै॒त्वभ्वं॑ कृणु॒ता वरी॑यो दि॒वस्पृ॑थि॒व्योरव॑सा मदेम ॥प्र ये वसुभ्य ईवद् आ नमो दुर् ये मित्रे वरुणे सूक्तवाचः |
अवैत्व् अभ्वं कृणुता वरीयो दिवस्पृथिव्योर् अवसा मदेम ||prá yé vásubhya ī́vadā́ námo dúryé mitré váruṇe sūktávācaḥ ǀ
ávaitvábhvam kṛṇutā́ várīyo diváspṛthivyórávasā madema ǁpra ye vasubhya īvad ā namo dur ye mitre varuṇe sūktavācaḥ |
avaitv abhvaṃ kṛṇutā varīyo divaspṛthivyor avasā madema ||प्र । ये । वसु॑ऽभ्यः । ईव॑त् । आ । नमः॑ । दुः । ये । मि॒त्रे । वरु॑णे । सू॒क्तऽवा॑चः ।
अव॑ । ए॒तु॒ । अभ्व॑म् । कृ॒णु॒त । वरी॑यः । दि॒वःपृ॑थि॒व्योः । अव॑सा । म॒दे॒म॒ ॥प्र । ये । वसुऽभ्यः । ईवत् । आ । नमः । दुः । ये । मित्रे । वरुणे । सूक्तऽवाचः ।
अव । एतु । अभ्वम् । कृणुत । वरीयः । दिवःपृथिव्योः । अवसा । मदेम ॥prá ǀ yé ǀ vásu-bhyaḥ ǀ ī́vat ǀ ā́ ǀ námaḥ ǀ dúḥ ǀ yé ǀ mitré ǀ váruṇe ǀ sūktá-vācaḥ ǀ
áva ǀ etu ǀ ábhvam ǀ kṛṇutá ǀ várīyaḥ ǀ diváḥpṛthivyóḥ ǀ ávasā ǀ madema ǁpra ǀ ye ǀ vasu-bhyaḥ ǀ īvat ǀ ā ǀ namaḥ ǀ duḥ ǀ ye ǀ mitre ǀ varuṇe ǀ sūkta-vācaḥ ǀ
ava ǀ etu ǀ abhvam ǀ kṛṇuta ǀ varīyaḥ ǀ divaḥpṛthivyoḥ ǀ avasā ǀ madema ǁ5.49.5 Aṣṭaka 4.3.3.5Anuvāka 5.4.36
Text, recitation and interpretations from the Ṛgveda database of theveda.org.in.