Sūkta 18
- Devatā देवता
- Agni
- Ṛṣi ऋषि
- Mṛktavāhas Dvita Ātreya
- Chandas छन्दस्
- Anuṣṭubh, Paṅkti
Metres by ṛk
1st set of styles virāḍanuṣṭup (1, 4); nicṛdanuṣṭup (2); bhuriguṣṇik (3); bhurigbṛhatī (5)
2nd set of styles anuṣṭubh (1-4); paṅkti (5)
-
Ṛk 1
प्रा॒तर॒ग्निः पु॑रुप्रि॒यो वि॒शः स्त॑वे॒ताति॑थिः ।
विश्वा॑नि॒ यो अम॑र्त्यो ह॒व्या मर्ते॑षु॒ रण्य॑ति ॥प्रातर् अग्निः पुरुप्रियो विश स्तवेतातिथिः |
विश्वानि यो अमर्त्यो हव्या मर्तेषु रण्यति ||prātáragníḥ purupriyó viśáḥ stavetā́tithiḥ ǀ
víśvāni yó ámartyo havyā́ márteṣu ráṇyati ǁprātar agniḥ purupriyo viśa stavetātithiḥ |
viśvāni yo amartyo havyā marteṣu raṇyati ||प्रा॒तः । अ॒ग्निः । पु॒रु॒ऽप्रि॒यः । वि॒शः । स्त॒वे॒त॒ । अति॑थिः ।
विश्वा॑नि । यः । अम॑र्त्यः । ह॒व्या । मर्ते॑षु । रण्य॑ति ॥प्रातः । अग्निः । पुरुऽप्रियः । विशः । स्तवेत । अतिथिः ।
विश्वानि । यः । अमर्त्यः । हव्या । मर्तेषु । रण्यति ॥prātáḥ ǀ agníḥ ǀ puru-priyáḥ ǀ viśáḥ ǀ staveta ǀ átithiḥ ǀ
víśvāni ǀ yáḥ ǀ ámartyaḥ ǀ havyā́ ǀ márteṣu ǀ ráṇyati ǁprātaḥ ǀ agniḥ ǀ puru-priyaḥ ǀ viśaḥ ǀ staveta ǀ atithiḥ ǀ
viśvāni ǀ yaḥ ǀ amartyaḥ ǀ havyā ǀ marteṣu ǀ raṇyati ǁ5.18.1 Aṣṭaka 4.1.10.1Anuvāka 5.2.16
-
Ṛk 2
द्वि॒ताय॑ मृ॒क्तवा॑हसे॒ स्वस्य॒ दक्ष॑स्य मं॒हना॑ ।
इंदुं॒ स ध॑त्त आनु॒षक्स्तो॒ता चि॑त्ते अमर्त्य ॥द्विताय मृक्तवाहसे स्वस्य दक्षस्य मंहना |
इन्दुं स धत्त आनुषक् स्तोता चित् ते अमर्त्य ||dvitā́ya mṛktávāhase svásya dákṣasya maṃhánā ǀ
índum sá dhatta ānuṣákstotā́ citte amartya ǁdvitāya mṛktavāhase svasya dakṣasya maṃhanā |
induṃ sa dhatta ānuṣak stotā cit te amartya ||द्वि॒ताय॑ । मृ॒क्तऽवा॑हसे । स्वस्य॑ । दक्ष॑स्य । मं॒हना॑ ।
इन्दु॑म् । सः । ध॒त्ते॒ । आ॒नु॒षक् । स्तो॒ता । चि॒त् । ते॒ । अ॒म॒र्त्य॒ ॥द्विताय । मृक्तऽवाहसे । स्वस्य । दक्षस्य । मंहना ।
इन्दुम् । सः । धत्ते । आनुषक् । स्तोता । चित् । ते । अमर्त्य ॥dvitā́ya ǀ mṛktá-vāhase ǀ svásya ǀ dákṣasya ǀ maṃhánā ǀ
índum ǀ sáḥ ǀ dhatte ǀ ānuṣák ǀ stotā́ ǀ cit ǀ te ǀ amartya ǁdvitāya ǀ mṛkta-vāhase ǀ svasya ǀ dakṣasya ǀ maṃhanā ǀ
indum ǀ saḥ ǀ dhatte ǀ ānuṣak ǀ stotā ǀ cit ǀ te ǀ amartya ǁ5.18.2 Aṣṭaka 4.1.10.2Anuvāka 5.2.17
-
Ṛk 3
तं वो॑ दी॒र्घायु॑शोचिषं गि॒रा हु॑वे म॒घोनां॑ ।
अरि॑ष्टो॒ येषां॒ रथो॒ व्य॑श्वदाव॒न्नीय॑ते ॥तं वो दीर्घायुशोचिषं गिरा हुवे मघोनाम् |
अरिष्टो येषां रथो व्य् अश्वदावन्न् ईयते ||tám vo dīrghā́yuśociṣam girā́ huve maghónām ǀ
áriṣṭo yéṣām rátho vyáśvadāvannī́yate ǁtaṃ vo dīrghāyuśociṣaṃ girā huve maghonām |
ariṣṭo yeṣāṃ ratho vy aśvadāvann īyate ||तम् । वः॒ । दी॒र्घायु॑ऽशोचिषम् । गि॒रा । हु॒वे॒ । म॒घोना॑म् ।
अरि॑ष्टः । येषा॑म् । रथः॑ । वि । अ॒श्व॒ऽदा॒व॒न् । ईय॑ते ॥तम् । वः । दीर्घायुऽशोचिषम् । गिरा । हुवे । मघोनाम् ।
अरिष्टः । येषाम् । रथः । वि । अश्वऽदावन् । ईयते ॥tám ǀ vaḥ ǀ dīrghā́yu-śociṣam ǀ girā́ ǀ huve ǀ maghónām ǀ
áriṣṭaḥ ǀ yéṣām ǀ ráthaḥ ǀ ví ǀ aśva-dāvan ǀ ī́yate ǁtam ǀ vaḥ ǀ dīrghāyu-śociṣam ǀ girā ǀ huve ǀ maghonām ǀ
ariṣṭaḥ ǀ yeṣām ǀ rathaḥ ǀ vi ǀ aśva-dāvan ǀ īyate ǁ5.18.3 Aṣṭaka 4.1.10.3Anuvāka 5.2.18
-
Ṛk 4
चि॒त्रा वा॒ येषु॒ दीधि॑तिरा॒सन्नु॒क्था पांति॒ ये ।
स्ती॒र्णं ब॒र्हिः स्व॑र्णरे॒ श्रवां॑सि दधिरे॒ परि॑ ॥चित्रा वा येषु दीधितिर् आसन्न् उक्था पान्ति ये |
स्तीर्णम् बर्हिः स्वर्णरे श्रवांसि दधिरे परि ||citrā́ vā yéṣu dī́dhitirāsánnukthā́ pā́nti yé ǀ
stīrṇám barhíḥ svárṇare śrávāṃsi dadhire pári ǁcitrā vā yeṣu dīdhitir āsann ukthā pānti ye |
stīrṇam barhiḥ svarṇare śravāṃsi dadhire pari ||चि॒त्रा । वा॒ । येषु॑ । दीधि॑तिः । आ॒सन् । उ॒क्था । पान्ति॑ । ये ।
स्ती॒र्णम् । ब॒र्हिः । स्वः॑ऽनरे । श्रवां॑सि । द॒धि॒रे॒ । परि॑ ॥चित्रा । वा । येषु । दीधितिः । आसन् । उक्था । पान्ति । ये ।
स्तीर्णम् । बर्हिः । स्वःऽनरे । श्रवांसि । दधिरे । परि ॥citrā́ ǀ vā ǀ yéṣu ǀ dī́dhitiḥ ǀ āsán ǀ ukthā́ ǀ pā́nti ǀ yé ǀ
stīrṇám ǀ barhíḥ ǀ sváḥ-nare ǀ śrávāṃsi ǀ dadhire ǀ pári ǁcitrā ǀ vā ǀ yeṣu ǀ dīdhitiḥ ǀ āsan ǀ ukthā ǀ pānti ǀ ye ǀ
stīrṇam ǀ barhiḥ ǀ svaḥ-nare ǀ śravāṃsi ǀ dadhire ǀ pari ǁ5.18.4 Aṣṭaka 4.1.10.4Anuvāka 5.2.19
-
Ṛk 5
ये मे॑ पंचा॒शतं॑ द॒दुरश्वा॑नां स॒धस्तु॑ति ।
द्यु॒मद॑ग्ने॒ महि॒ श्रवो॑ बृ॒हत्कृ॑धि म॒घोनां॑ नृ॒वद॑मृत नृ॒णां ॥ये मे पञ्चाशतं ददुर् अश्वानां सधस्तुति |
द्युमद् अग्ने महि श्रवो बृहत् कृधि मघोनां नृवद् अमृत नृणाम् ||yé me pañcāśátam dadúráśvānām sadhástuti ǀ
dyumádagne máhi śrávo bṛhátkṛdhi maghónām nṛvádamṛta nṛṇā́m ǁye me pañcāśataṃ dadur aśvānāṃ sadhastuti |
dyumad agne mahi śravo bṛhat kṛdhi maghonāṃ nṛvad amṛta nṛṇām ||ये । मे॒ । प॒ञ्चा॒शत॑म् । द॒दुः । अश्वा॑नाम् । स॒धऽस्तु॑ति ।
द्यु॒ऽमत् । अ॒ग्ने॒ । महि॑ । श्रवः॑ । बृ॒हत् । कृ॒धि॒ । म॒घोना॑म् । नृ॒ऽवत् । अ॒मृ॒त॒ । नृ॒णाम् ॥ये । मे । पञ्चाशतम् । ददुः । अश्वानाम् । सधऽस्तुति ।
द्युऽमत् । अग्ने । महि । श्रवः । बृहत् । कृधि । मघोनाम् । नृऽवत् । अमृत । नृणाम् ॥yé ǀ me ǀ pañcāśátam ǀ dadúḥ ǀ áśvānām ǀ sadhá-stuti ǀ
dyu-mát ǀ agne ǀ máhi ǀ śrávaḥ ǀ bṛhát ǀ kṛdhi ǀ maghónām ǀ nṛ-vát ǀ amṛta ǀ nṛṇā́m ǁye ǀ me ǀ pañcāśatam ǀ daduḥ ǀ aśvānām ǀ sadha-stuti ǀ
dyu-mat ǀ agne ǀ mahi ǀ śravaḥ ǀ bṛhat ǀ kṛdhi ǀ maghonām ǀ nṛ-vat ǀ amṛta ǀ nṛṇām ǁ5.18.5 Aṣṭaka 4.1.10.5Anuvāka 5.2.20
Text, recitation and interpretations from the Ṛgveda database of theveda.org.in.