Ṛk 5.18.5
Saṃhitā
ये मे॑ पंचा॒शतं॑ द॒दुरश्वा॑नां स॒धस्तु॑ति ।
द्यु॒मद॑ग्ने॒ महि॒ श्रवो॑ बृ॒हत्कृ॑धि म॒घोनां॑ नृ॒वद॑मृत नृ॒णां ॥
ये मे पञ्चाशतं ददुर् अश्वानां सधस्तुति |
द्युमद् अग्ने महि श्रवो बृहत् कृधि मघोनां नृवद् अमृत नृणाम् ||
yé me pañcāśátam dadúráśvānām sadhástuti ǀ
dyumádagne máhi śrávo bṛhátkṛdhi maghónām nṛvádamṛta nṛṇā́m ǁ
ye me pañcāśataṃ dadur aśvānāṃ sadhastuti |
dyumad agne mahi śravo bṛhat kṛdhi maghonāṃ nṛvad amṛta nṛṇām ||
Padapāṭha
ये । मे॒ । प॒ञ्चा॒शत॑म् । द॒दुः । अश्वा॑नाम् । स॒धऽस्तु॑ति ।
द्यु॒ऽमत् । अ॒ग्ने॒ । महि॑ । श्रवः॑ । बृ॒हत् । कृ॒धि॒ । म॒घोना॑म् । नृ॒ऽवत् । अ॒मृ॒त॒ । नृ॒णाम् ॥
ये । मे । पञ्चाशतम् । ददुः । अश्वानाम् । सधऽस्तुति ।
द्युऽमत् । अग्ने । महि । श्रवः । बृहत् । कृधि । मघोनाम् । नृऽवत् । अमृत । नृणाम् ॥
yé ǀ me ǀ pañcāśátam ǀ dadúḥ ǀ áśvānām ǀ sadhá-stuti ǀ
dyu-mát ǀ agne ǀ máhi ǀ śrávaḥ ǀ bṛhát ǀ kṛdhi ǀ maghónām ǀ nṛ-vát ǀ amṛta ǀ nṛṇā́m ǁ
ye ǀ me ǀ pañcāśatam ǀ daduḥ ǀ aśvānām ǀ sadha-stuti ǀ
dyu-mat ǀ agne ǀ mahi ǀ śravaḥ ǀ bṛhat ǀ kṛdhi ǀ maghonām ǀ nṛ-vat ǀ amṛta ǀ nṛṇām ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 05.018.05
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 4.1.10.05
- Maṇḍala · Anuvāka · Ṛk
- 05.02.020
- Devatā देवता
- Agni
- Ṛṣi ऋषि
- Mṛktavāhas Dvita Ātreya
- Chandas छन्दस्
- Anuṣṭubh, Paṅkti
- Svara स्वरः
- मध्यमः
Text and interpretations from the Ṛgveda database of theveda.org.in.