Sūkta 75
- Devatā देवता
- Aśvins
- Ṛṣi ऋषि
- Avasyu Ātreya
- Chandas छन्दस्
- Paṅkti
Metres by ṛk
1st set of styles nicṛtpaṅkti (2, 4, 6-8); paṅktiḥ (1, 3); svarāṭpaṅkti (5); virāṭpaṅkti (9)
2nd set of styles paṅkti
-
Ṛk 1
प्रति॑ प्रि॒यत॑मं॒ रथं॒ वृष॑णं वसु॒वाह॑नं ।
स्तो॒ता वा॑मश्विना॒वृषिः॒ स्तोमे॑न॒ प्रति॑ भूषति॒ माध्वी॒ मम॑ श्रुतं॒ हवं॑ ॥प्रति प्रियतमं रथं वृषणं वसुवाहनम् |
स्तोता वाम् अश्विनाव् ऋषि स्तोमेन प्रति भूषति माध्वी मम श्रुतं हवम् ||práti priyátamam rátham vṛ́ṣaṇam vasuvā́hanam ǀ
stotā́ vāmaśvināvṛ́ṣiḥ stómena práti bhūṣati mā́dhvī máma śrutam hávam ǁprati priyatamaṃ rathaṃ vṛṣaṇaṃ vasuvāhanam |
stotā vām aśvināv ṛṣi stomena prati bhūṣati mādhvī mama śrutaṃ havam ||प्रति॑ । प्रि॒यऽत॑मम् । रथ॑म् । वृष॑णम् । व॒सु॒ऽवाह॑नम् ।
स्तो॒ता । वा॒म् । अ॒श्वि॒नौ॒ । ऋषिः॑ । स्तोमे॑न । प्रति॑ । भू॒ष॒ति॒ । माध्वी॒ इति॑ । मम॑ । श्रु॒त॒म् । हव॑म् ॥प्रति । प्रियऽतमम् । रथम् । वृषणम् । वसुऽवाहनम् ।
स्तोता । वाम् । अश्विनौ । ऋषिः । स्तोमेन । प्रति । भूषति । माध्वी इति । मम । श्रुतम् । हवम् ॥práti ǀ priyá-tamam ǀ rátham ǀ vṛ́ṣaṇam ǀ vasu-vā́hanam ǀ
stotā́ ǀ vām ǀ aśvinau ǀ ṛ́ṣiḥ ǀ stómena ǀ práti ǀ bhūṣati ǀ mā́dhvī íti ǀ máma ǀ śrutam ǀ hávam ǁprati ǀ priya-tamam ǀ ratham ǀ vṛṣaṇam ǀ vasu-vāhanam ǀ
stotā ǀ vām ǀ aśvinau ǀ ṛṣiḥ ǀ stomena ǀ prati ǀ bhūṣati ǀ mādhvī iti ǀ mama ǀ śrutam ǀ havam ǁ5.75.1 Aṣṭaka 4.4.15.1Anuvāka 5.6.21
-
Ṛk 2
अ॒त्याया॑तमश्विना ति॒रो विश्वा॑ अ॒हं सना॑ ।
दस्रा॒ हिर॑ण्यवर्तनी॒ सुषु॑म्ना॒ सिंधु॑वाहसा॒ माध्वी॒ मम॑ श्रुतं॒ हवं॑ ॥अत्यायातम् अश्विना तिरो विश्वा अहं सना |
दस्रा हिरण्यवर्तनी सुषुम्ना सिन्धुवाहसा माध्वी मम श्रुतं हवम् ||atyā́yātamaśvinā tiró víśvā ahám sánā ǀ
dásrā híraṇyavartanī súṣumnā síndhuvāhasā mā́dhvī máma śrutam hávam ǁatyāyātam aśvinā tiro viśvā ahaṃ sanā |
dasrā hiraṇyavartanī suṣumnā sindhuvāhasā mādhvī mama śrutaṃ havam ||अ॒ति॒ऽआया॑तम् । अ॒श्वि॒ना॒ । ति॒रः । विश्वाः॑ । अ॒हम् । सना॑ ।
दस्रा॑ । हिर॑ण्यवर्तनी॒ इति॒ हिर॑ण्यऽवर्तनी । सुऽसु॑म्ना । सिन्धु॑ऽवाहसा । माध्वी॒ इति॑ । मम॑ । श्रु॒त॒म् । हव॑म् ॥अतिऽआयातम् । अश्विना । तिरः । विश्वाः । अहम् । सना ।
दस्रा । हिरण्यवर्तनी इति हिरण्यऽवर्तनी । सुऽसुम्ना । सिन्धुऽवाहसा । माध्वी इति । मम । श्रुतम् । हवम् ॥ati-ā́yātam ǀ aśvinā ǀ tiráḥ ǀ víśvāḥ ǀ ahám ǀ sánā ǀ
dásrā ǀ híraṇyavartanī íti híraṇya-vartanī ǀ sú-sumnā ǀ síndhu-vāhasā ǀ mā́dhvī íti ǀ máma ǀ śrutam ǀ hávam ǁati-āyātam ǀ aśvinā ǀ tiraḥ ǀ viśvāḥ ǀ aham ǀ sanā ǀ
dasrā ǀ hiraṇyavartanī iti hiraṇya-vartanī ǀ su-sumnā ǀ sindhu-vāhasā ǀ mādhvī iti ǀ mama ǀ śrutam ǀ havam ǁ5.75.2 Aṣṭaka 4.4.15.2Anuvāka 5.6.22
-
Ṛk 3
आ नो॒ रत्ना॑नि॒ बिभ्र॑ता॒वश्वि॑ना॒ गच्छ॑तं यु॒वं ।
रुद्रा॒ हिर॑ण्यवर्तनी जुषा॒णा वा॑जिनीवसू॒ माध्वी॒ मम॑ श्रुतं॒ हवं॑ ॥आ नो रत्नानि बिभ्रताव् अश्विना गच्छतं युवम् |
रुद्रा हिरण्यवर्तनी जुषाणा वाजिनीवसू माध्वी मम श्रुतं हवम् ||ā́ no rátnāni bíbhratāváśvinā gácchatam yuvám ǀ
rúdrā híraṇyavartanī juṣāṇā́ vājinīvasū mā́dhvī máma śrutam hávam ǁā no ratnāni bibhratāv aśvinā gacchataṃ yuvam |
rudrā hiraṇyavartanī juṣāṇā vājinīvasū mādhvī mama śrutaṃ havam ||आ । नः॒ । रत्ना॑नि । बिभ्र॑तौ । अश्वि॑ना । गच्छ॑तम् । यु॒वम् ।
रुद्रा॑ । हिर॑ण्यवर्तनी॒ इति॒ हिर॑ण्यऽवर्तनी । जु॒षा॒णा । वा॒जि॒नी॒व॒सू॒ इति॑ वाजिनीऽवसू । माध्वी॒ इति॑ । मम॑ । श्रु॒त॒म् । हव॑म् ॥आ । नः । रत्नानि । बिभ्रतौ । अश्विना । गच्छतम् । युवम् ।
रुद्रा । हिरण्यवर्तनी इति हिरण्यऽवर्तनी । जुषाणा । वाजिनीवसू इति वाजिनीऽवसू । माध्वी इति । मम । श्रुतम् । हवम् ॥ā́ ǀ naḥ ǀ rátnāni ǀ bíbhratau ǀ áśvinā ǀ gácchatam ǀ yuvám ǀ
rúdrā ǀ híraṇyavartanī íti híraṇya-vartanī ǀ juṣāṇā́ ǀ vājinīvasū íti vājinī-vasū ǀ mā́dhvī íti ǀ máma ǀ śrutam ǀ hávam ǁā ǀ naḥ ǀ ratnāni ǀ bibhratau ǀ aśvinā ǀ gacchatam ǀ yuvam ǀ
rudrā ǀ hiraṇyavartanī iti hiraṇya-vartanī ǀ juṣāṇā ǀ vājinīvasū iti vājinī-vasū ǀ mādhvī iti ǀ mama ǀ śrutam ǀ havam ǁ5.75.3 Aṣṭaka 4.4.15.3Anuvāka 5.6.23
-
Ṛk 4
सु॒ष्टुभो॑ वां वृषण्वसू॒ रथे॒ वाणी॒च्याहि॑ता ।
उ॒त वां॑ ककु॒हो मृ॒गः पृक्षः॑ कृणोति वापु॒षो माध्वी॒ मम॑ श्रुतं॒ हवं॑ ॥सुष्टुभो वां वृषण्वसू रथे वाणीच्य् आहिता |
उत वां ककुहो मृगः पृक्षः कृणोति वापुषो माध्वी मम श्रुतं हवम् ||suṣṭúbho vām vṛṣaṇvasū ráthe vā́ṇīcyā́hitā ǀ
utá vām kakuhó mṛgáḥ pṛ́kṣaḥ kṛṇoti vāpuṣó mā́dhvī máma śrutam hávam ǁsuṣṭubho vāṃ vṛṣaṇvasū rathe vāṇīcy āhitā |
uta vāṃ kakuho mṛgaḥ pṛkṣaḥ kṛṇoti vāpuṣo mādhvī mama śrutaṃ havam ||सु॒ऽस्तुभः॑ । वा॒म् । वृ॒ष॒ण्व॒सू॒ इति॑ वृषण्ऽवसू । रथे॑ । वाणी॑ची । आऽहि॑ता ।
उ॒त । वा॒म् । क॒कु॒हः । मृ॒गः । पृक्षः॑ । कृ॒णो॒ति॒ । वा॒पु॒षः । माध्वी॒ इति॑ । मम॑ । श्रु॒त॒म् । हव॑म् ॥सुऽस्तुभः । वाम् । वृषण्वसू इति वृषण्ऽवसू । रथे । वाणीची । आऽहिता ।
उत । वाम् । ककुहः । मृगः । पृक्षः । कृणोति । वापुषः । माध्वी इति । मम । श्रुतम् । हवम् ॥su-stúbhaḥ ǀ vām ǀ vṛṣaṇvasū íti vṛṣaṇ-vasū ǀ ráthe ǀ vā́ṇīcī ǀ ā́-hitā ǀ
utá ǀ vām ǀ kakuháḥ ǀ mṛgáḥ ǀ pṛ́kṣaḥ ǀ kṛṇoti ǀ vāpuṣáḥ ǀ mā́dhvī íti ǀ máma ǀ śrutam ǀ hávam ǁsu-stubhaḥ ǀ vām ǀ vṛṣaṇvasū iti vṛṣaṇ-vasū ǀ rathe ǀ vāṇīcī ǀ ā-hitā ǀ
uta ǀ vām ǀ kakuhaḥ ǀ mṛgaḥ ǀ pṛkṣaḥ ǀ kṛṇoti ǀ vāpuṣaḥ ǀ mādhvī iti ǀ mama ǀ śrutam ǀ havam ǁ5.75.4 Aṣṭaka 4.4.15.4Anuvāka 5.6.24
-
Ṛk 5
बो॒धिन्म॑नसा र॒थ्ये॑षि॒रा ह॑वन॒श्रुता॑ ।
विभि॒श्च्यवा॑नमश्विना॒ नि या॑थो॒ अद्व॑याविनं॒ माध्वी॒ मम॑ श्रुतं॒ हवं॑ ॥बोधिन्मनसा रथ्येषिरा हवनश्रुता |
विभिश् च्यवानम् अश्विना नि याथो अद्वयाविनम् माध्वी मम श्रुतं हवम् ||bodhínmanasā rathyeṣirā́ havanaśrútā ǀ
víbhiścyávānamaśvinā ní yātho ádvayāvinam mā́dhvī máma śrutam hávam ǁbodhinmanasā rathyeṣirā havanaśrutā |
vibhiś cyavānam aśvinā ni yātho advayāvinam mādhvī mama śrutaṃ havam ||बो॒धित्ऽम॑नसा । र॒थ्या॑ । इ॒षि॒रा । ह॒व॒न॒ऽश्रुता॑ ।
विऽभिः॑ । च्यवा॑नम् । अ॒श्वि॒ना॒ । नि । या॒थः॒ । अद्व॑याविनम् । माध्वी॒ इति॑ । मम॑ । श्रु॒त॒म् । हव॑म् ॥बोधित्ऽमनसा । रथ्या । इषिरा । हवनऽश्रुता ।
विऽभिः । च्यवानम् । अश्विना । नि । याथः । अद्वयाविनम् । माध्वी इति । मम । श्रुतम् । हवम् ॥bodhít-manasā ǀ rathyā́ ǀ iṣirā́ ǀ havana-śrútā ǀ
ví-bhiḥ ǀ cyávānam ǀ aśvinā ǀ ní ǀ yāthaḥ ǀ ádvayāvinam ǀ mā́dhvī íti ǀ máma ǀ śrutam ǀ hávam ǁbodhit-manasā ǀ rathyā ǀ iṣirā ǀ havana-śrutā ǀ
vi-bhiḥ ǀ cyavānam ǀ aśvinā ǀ ni ǀ yāthaḥ ǀ advayāvinam ǀ mādhvī iti ǀ mama ǀ śrutam ǀ havam ǁ5.75.5 Aṣṭaka 4.4.15.5Anuvāka 5.6.25
-
Ṛk 6
आ वां॑ नरा मनो॒युजोऽश्वा॑सः प्रुषि॒तप्स॑वः ।
वयो॑ वहंतु पी॒तये॑ स॒ह सु॒म्नेभि॑रश्विना॒ माध्वी॒ मम॑ श्रुतं॒ हवं॑ ॥आ वां नरा मनोयुजो ऽश्वासः प्रुषितप्सवः |
वयो वहन्तु पीतये सह सुम्नेभिर् अश्विना माध्वी मम श्रुतं हवम् ||ā́ vām narā manoyújó’śvāsaḥ pruṣitápsavaḥ ǀ
váyo vahantu pītáye sahá sumnébhiraśvinā mā́dhvī máma śrutam hávam ǁā vāṃ narā manoyujo 'śvāsaḥ pruṣitapsavaḥ |
vayo vahantu pītaye saha sumnebhir aśvinā mādhvī mama śrutaṃ havam ||आ । वा॒म् । न॒रा॒ । म॒नः॒ऽयुजः॑ । अश्वा॑सः । प्रु॒षि॒तऽप्स॑वः ।
वयः॑ । व॒ह॒न्तु॒ । पी॒तये॑ । स॒ह । सु॒म्नेभिः॑ । अ॒श्वि॒ना॒ । माध्वी॒ इति॑ । मम॑ । श्रु॒त॒म् । हव॑म् ॥आ । वाम् । नरा । मनःऽयुजः । अश्वासः । प्रुषितऽप्सवः ।
वयः । वहन्तु । पीतये । सह । सुम्नेभिः । अश्विना । माध्वी इति । मम । श्रुतम् । हवम् ॥ā́ ǀ vām ǀ narā ǀ manaḥ-yújaḥ ǀ áśvāsaḥ ǀ pruṣitá-psavaḥ ǀ
váyaḥ ǀ vahantu ǀ pītáye ǀ sahá ǀ sumnébhiḥ ǀ aśvinā ǀ mā́dhvī íti ǀ máma ǀ śrutam ǀ hávam ǁā ǀ vām ǀ narā ǀ manaḥ-yujaḥ ǀ aśvāsaḥ ǀ pruṣita-psavaḥ ǀ
vayaḥ ǀ vahantu ǀ pītaye ǀ saha ǀ sumnebhiḥ ǀ aśvinā ǀ mādhvī iti ǀ mama ǀ śrutam ǀ havam ǁ5.75.6 Aṣṭaka 4.4.16.1Anuvāka 5.6.26
-
Ṛk 7
अश्वि॑ना॒वेह ग॑च्छतं॒ नास॑त्या॒ मा वि वे॑नतं ।
ति॒रश्चि॑दर्य॒या परि॑ व॒र्तिर्या॑तमदाभ्या॒ माध्वी॒ मम॑ श्रुतं॒ हवं॑ ॥अश्विनाव् एह गच्छतं नासत्या मा वि वेनतम् |
तिरश् चिद् अर्यया परि वर्तिर् यातम् अदाभ्या माध्वी मम श्रुतं हवम् ||áśvināvéhá gacchatam nā́satyā mā́ ví venatam ǀ
tiráścidaryayā́ pári vartíryātamadābhyā mā́dhvī máma śrutam hávam ǁaśvināv eha gacchataṃ nāsatyā mā vi venatam |
tiraś cid aryayā pari vartir yātam adābhyā mādhvī mama śrutaṃ havam ||अश्वि॑नौ । आ । इ॒ह । ग॒च्छ॒त॒म् । नास॑त्या । मा । वि । वे॒न॒त॒म् ।
ति॒रः । चि॒त् । अ॒र्य॒ऽया । परि॑ । व॒र्तिः । या॒त॒म् । अ॒दा॒भ्या॒ । माध्वी॒ इति॑ । मम॑ । श्रु॒त॒म् । हव॑म् ॥अश्विनौ । आ । इह । गच्छतम् । नासत्या । मा । वि । वेनतम् ।
तिरः । चित् । अर्यऽया । परि । वर्तिः । यातम् । अदाभ्या । माध्वी इति । मम । श्रुतम् । हवम् ॥áśvinau ǀ ā́ ǀ ihá ǀ gacchatam ǀ nā́satyā ǀ mā́ ǀ ví ǀ venatam ǀ
tiráḥ ǀ cit ǀ arya-yā́ ǀ pári ǀ vartíḥ ǀ yātam ǀ adābhyā ǀ mā́dhvī íti ǀ máma ǀ śrutam ǀ hávam ǁaśvinau ǀ ā ǀ iha ǀ gacchatam ǀ nāsatyā ǀ mā ǀ vi ǀ venatam ǀ
tiraḥ ǀ cit ǀ arya-yā ǀ pari ǀ vartiḥ ǀ yātam ǀ adābhyā ǀ mādhvī iti ǀ mama ǀ śrutam ǀ havam ǁ5.75.7 Aṣṭaka 4.4.16.2Anuvāka 5.6.27
-
Ṛk 8
अ॒स्मिन्य॒ज्ञे अ॑दाभ्या जरि॒तारं॑ शुभस्पती ।
अ॒व॒स्युम॑श्विना यु॒वं गृ॒णंत॒मुप॑ भूषथो॒ माध्वी॒ मम॑ श्रुतं॒ हवं॑ ॥अस्मिन् यज्ञे अदाभ्या जरितारं शुभस् पती |
अवस्युम् अश्विना युवं गृणन्तम् उप भूषथो माध्वी मम श्रुतं हवम् ||asmínyajñé adābhyā jaritā́ram śubhaspatī ǀ
avasyúmaśvinā yuvám gṛṇántamúpa bhūṣatho mā́dhvī máma śrutam hávam ǁasmin yajñe adābhyā jaritāraṃ śubhas patī |
avasyum aśvinā yuvaṃ gṛṇantam upa bhūṣatho mādhvī mama śrutaṃ havam ||अ॒स्मिन् । य॒ज्ञे । अ॒दा॒भ्या॒ । ज॒रि॒तार॑म् । शु॒भः॒ । प॒ती॒ इति॑ ।
अ॒व॒स्युम् । अ॒श्वि॒ना॒ । यु॒वम् । गृ॒णन्त॑म् । उप॑ । भू॒ष॒थः॒ । माध्वी॒ इति॑ । मम॑ । श्रु॒त॒म् । हव॑म् ॥अस्मिन् । यज्ञे । अदाभ्या । जरितारम् । शुभः । पती इति ।
अवस्युम् । अश्विना । युवम् । गृणन्तम् । उप । भूषथः । माध्वी इति । मम । श्रुतम् । हवम् ॥asmín ǀ yajñé ǀ adābhyā ǀ jaritā́ram ǀ śubhaḥ ǀ patī íti ǀ
avasyúm ǀ aśvinā ǀ yuvám ǀ gṛṇántam ǀ úpa ǀ bhūṣathaḥ ǀ mā́dhvī íti ǀ máma ǀ śrutam ǀ hávam ǁasmin ǀ yajñe ǀ adābhyā ǀ jaritāram ǀ śubhaḥ ǀ patī iti ǀ
avasyum ǀ aśvinā ǀ yuvam ǀ gṛṇantam ǀ upa ǀ bhūṣathaḥ ǀ mādhvī iti ǀ mama ǀ śrutam ǀ havam ǁ5.75.8 Aṣṭaka 4.4.16.3Anuvāka 5.6.28
-
Ṛk 9
अभू॑दु॒षा रुश॑त्पशु॒राग्निर॑धाय्यृ॒त्वियः॑ ।
अयो॑जि वां वृषण्वसू॒ रथो॑ दस्रा॒वम॑र्त्यो॒ माध्वी॒ मम॑ श्रुतं॒ हवं॑ ॥अभूद् उषा रुशत्पशुर् आग्निर् अधाय्य् ऋत्वियः |
अयोजि वां वृषण्वसू रथो दस्राव् अमर्त्यो माध्वी मम श्रुतं हवम् ||ábhūduṣā́ rúśatpaśurā́gníradhāyyṛtvíyaḥ ǀ
áyoji vām vṛṣaṇvasū rátho dasrāvámartyo mā́dhvī máma śrutam hávam ǁabhūd uṣā ruśatpaśur āgnir adhāyy ṛtviyaḥ |
ayoji vāṃ vṛṣaṇvasū ratho dasrāv amartyo mādhvī mama śrutaṃ havam ||अभू॑त् । उ॒षाः । रुश॑त्ऽपशुः । आ । अ॒ग्निः । अ॒धा॒यि॒ । ऋ॒त्वियः॑ ।
अयो॑जि । वा॒म् । वृ॒ष॒ण्व॒सू॒ इति॑ वृषण्ऽवसू । रथः॑ । द॒स्रौ॒ । अम॑र्त्यः । माध्वी॒ इति॑ । मम॑ । श्रु॒त॒म् । हव॑म् ॥अभूत् । उषाः । रुशत्ऽपशुः । आ । अग्निः । अधायि । ऋत्वियः ।
अयोजि । वाम् । वृषण्वसू इति वृषण्ऽवसू । रथः । दस्रौ । अमर्त्यः । माध्वी इति । मम । श्रुतम् । हवम् ॥ábhūt ǀ uṣā́ḥ ǀ rúśat-paśuḥ ǀ ā́ ǀ agníḥ ǀ adhāyi ǀ ṛtvíyaḥ ǀ
áyoji ǀ vām ǀ vṛṣaṇvasū íti vṛṣaṇ-vasū ǀ ráthaḥ ǀ dasrau ǀ ámartyaḥ ǀ mā́dhvī íti ǀ máma ǀ śrutam ǀ hávam ǁabhūt ǀ uṣāḥ ǀ ruśat-paśuḥ ǀ ā ǀ agniḥ ǀ adhāyi ǀ ṛtviyaḥ ǀ
ayoji ǀ vām ǀ vṛṣaṇvasū iti vṛṣaṇ-vasū ǀ rathaḥ ǀ dasrau ǀ amartyaḥ ǀ mādhvī iti ǀ mama ǀ śrutam ǀ havam ǁ5.75.9 Aṣṭaka 4.4.16.4Anuvāka 5.6.29
Text, recitation and interpretations from the Ṛgveda database of theveda.org.in.