Ṛk 5.75.7
Saṃhitā
अश्वि॑ना॒वेह ग॑च्छतं॒ नास॑त्या॒ मा वि वे॑नतं ।
ति॒रश्चि॑दर्य॒या परि॑ व॒र्तिर्या॑तमदाभ्या॒ माध्वी॒ मम॑ श्रुतं॒ हवं॑ ॥
अश्विनाव् एह गच्छतं नासत्या मा वि वेनतम् |
तिरश् चिद् अर्यया परि वर्तिर् यातम् अदाभ्या माध्वी मम श्रुतं हवम् ||
áśvināvéhá gacchatam nā́satyā mā́ ví venatam ǀ
tiráścidaryayā́ pári vartíryātamadābhyā mā́dhvī máma śrutam hávam ǁ
aśvināv eha gacchataṃ nāsatyā mā vi venatam |
tiraś cid aryayā pari vartir yātam adābhyā mādhvī mama śrutaṃ havam ||
Padapāṭha
अश्वि॑नौ । आ । इ॒ह । ग॒च्छ॒त॒म् । नास॑त्या । मा । वि । वे॒न॒त॒म् ।
ति॒रः । चि॒त् । अ॒र्य॒ऽया । परि॑ । व॒र्तिः । या॒त॒म् । अ॒दा॒भ्या॒ । माध्वी॒ इति॑ । मम॑ । श्रु॒त॒म् । हव॑म् ॥
अश्विनौ । आ । इह । गच्छतम् । नासत्या । मा । वि । वेनतम् ।
तिरः । चित् । अर्यऽया । परि । वर्तिः । यातम् । अदाभ्या । माध्वी इति । मम । श्रुतम् । हवम् ॥
áśvinau ǀ ā́ ǀ ihá ǀ gacchatam ǀ nā́satyā ǀ mā́ ǀ ví ǀ venatam ǀ
tiráḥ ǀ cit ǀ arya-yā́ ǀ pári ǀ vartíḥ ǀ yātam ǀ adābhyā ǀ mā́dhvī íti ǀ máma ǀ śrutam ǀ hávam ǁ
aśvinau ǀ ā ǀ iha ǀ gacchatam ǀ nāsatyā ǀ mā ǀ vi ǀ venatam ǀ
tiraḥ ǀ cit ǀ arya-yā ǀ pari ǀ vartiḥ ǀ yātam ǀ adābhyā ǀ mādhvī iti ǀ mama ǀ śrutam ǀ havam ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 05.075.07
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 4.4.16.02
- Maṇḍala · Anuvāka · Ṛk
- 05.06.027
- Devatā देवता
- Aśvins
- Ṛṣi ऋषि
- Avasyu Ātreya
- Chandas छन्दस्
- Paṅkti
- Svara स्वरः
- पञ्चमः
Text and interpretations from the Ṛgveda database of theveda.org.in.