Ṛk 5.75.2
Saṃhitā
अ॒त्याया॑तमश्विना ति॒रो विश्वा॑ अ॒हं सना॑ ।
दस्रा॒ हिर॑ण्यवर्तनी॒ सुषु॑म्ना॒ सिंधु॑वाहसा॒ माध्वी॒ मम॑ श्रुतं॒ हवं॑ ॥
अत्यायातम् अश्विना तिरो विश्वा अहं सना |
दस्रा हिरण्यवर्तनी सुषुम्ना सिन्धुवाहसा माध्वी मम श्रुतं हवम् ||
atyā́yātamaśvinā tiró víśvā ahám sánā ǀ
dásrā híraṇyavartanī súṣumnā síndhuvāhasā mā́dhvī máma śrutam hávam ǁ
atyāyātam aśvinā tiro viśvā ahaṃ sanā |
dasrā hiraṇyavartanī suṣumnā sindhuvāhasā mādhvī mama śrutaṃ havam ||
Padapāṭha
अ॒ति॒ऽआया॑तम् । अ॒श्वि॒ना॒ । ति॒रः । विश्वाः॑ । अ॒हम् । सना॑ ।
दस्रा॑ । हिर॑ण्यवर्तनी॒ इति॒ हिर॑ण्यऽवर्तनी । सुऽसु॑म्ना । सिन्धु॑ऽवाहसा । माध्वी॒ इति॑ । मम॑ । श्रु॒त॒म् । हव॑म् ॥
अतिऽआयातम् । अश्विना । तिरः । विश्वाः । अहम् । सना ।
दस्रा । हिरण्यवर्तनी इति हिरण्यऽवर्तनी । सुऽसुम्ना । सिन्धुऽवाहसा । माध्वी इति । मम । श्रुतम् । हवम् ॥
ati-ā́yātam ǀ aśvinā ǀ tiráḥ ǀ víśvāḥ ǀ ahám ǀ sánā ǀ
dásrā ǀ híraṇyavartanī íti híraṇya-vartanī ǀ sú-sumnā ǀ síndhu-vāhasā ǀ mā́dhvī íti ǀ máma ǀ śrutam ǀ hávam ǁ
ati-āyātam ǀ aśvinā ǀ tiraḥ ǀ viśvāḥ ǀ aham ǀ sanā ǀ
dasrā ǀ hiraṇyavartanī iti hiraṇya-vartanī ǀ su-sumnā ǀ sindhu-vāhasā ǀ mādhvī iti ǀ mama ǀ śrutam ǀ havam ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 05.075.02
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 4.4.15.02
- Maṇḍala · Anuvāka · Ṛk
- 05.06.022
- Devatā देवता
- Aśvins
- Ṛṣi ऋषि
- Avasyu Ātreya
- Chandas छन्दस्
- Paṅkti
- Svara स्वरः
- गान्धारः
Text and interpretations from the Ṛgveda database of theveda.org.in.