Ṛk 5.75.8
Saṃhitā
अ॒स्मिन्य॒ज्ञे अ॑दाभ्या जरि॒तारं॑ शुभस्पती ।
अ॒व॒स्युम॑श्विना यु॒वं गृ॒णंत॒मुप॑ भूषथो॒ माध्वी॒ मम॑ श्रुतं॒ हवं॑ ॥
अस्मिन् यज्ञे अदाभ्या जरितारं शुभस् पती |
अवस्युम् अश्विना युवं गृणन्तम् उप भूषथो माध्वी मम श्रुतं हवम् ||
asmínyajñé adābhyā jaritā́ram śubhaspatī ǀ
avasyúmaśvinā yuvám gṛṇántamúpa bhūṣatho mā́dhvī máma śrutam hávam ǁ
asmin yajñe adābhyā jaritāraṃ śubhas patī |
avasyum aśvinā yuvaṃ gṛṇantam upa bhūṣatho mādhvī mama śrutaṃ havam ||
Padapāṭha
अ॒स्मिन् । य॒ज्ञे । अ॒दा॒भ्या॒ । ज॒रि॒तार॑म् । शु॒भः॒ । प॒ती॒ इति॑ ।
अ॒व॒स्युम् । अ॒श्वि॒ना॒ । यु॒वम् । गृ॒णन्त॑म् । उप॑ । भू॒ष॒थः॒ । माध्वी॒ इति॑ । मम॑ । श्रु॒त॒म् । हव॑म् ॥
अस्मिन् । यज्ञे । अदाभ्या । जरितारम् । शुभः । पती इति ।
अवस्युम् । अश्विना । युवम् । गृणन्तम् । उप । भूषथः । माध्वी इति । मम । श्रुतम् । हवम् ॥
asmín ǀ yajñé ǀ adābhyā ǀ jaritā́ram ǀ śubhaḥ ǀ patī íti ǀ
avasyúm ǀ aśvinā ǀ yuvám ǀ gṛṇántam ǀ úpa ǀ bhūṣathaḥ ǀ mā́dhvī íti ǀ máma ǀ śrutam ǀ hávam ǁ
asmin ǀ yajñe ǀ adābhyā ǀ jaritāram ǀ śubhaḥ ǀ patī iti ǀ
avasyum ǀ aśvinā ǀ yuvam ǀ gṛṇantam ǀ upa ǀ bhūṣathaḥ ǀ mādhvī iti ǀ mama ǀ śrutam ǀ havam ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 05.075.08
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 4.4.16.03
- Maṇḍala · Anuvāka · Ṛk
- 05.06.028
- Devatā देवता
- Aśvins
- Ṛṣi ऋषि
- Avasyu Ātreya
- Chandas छन्दस्
- Paṅkti
- Svara स्वरः
- पञ्चमः
Text and interpretations from the Ṛgveda database of theveda.org.in.