Ṛk 5.75.4
Saṃhitā
सु॒ष्टुभो॑ वां वृषण्वसू॒ रथे॒ वाणी॒च्याहि॑ता ।
उ॒त वां॑ ककु॒हो मृ॒गः पृक्षः॑ कृणोति वापु॒षो माध्वी॒ मम॑ श्रुतं॒ हवं॑ ॥
सुष्टुभो वां वृषण्वसू रथे वाणीच्य् आहिता |
उत वां ककुहो मृगः पृक्षः कृणोति वापुषो माध्वी मम श्रुतं हवम् ||
suṣṭúbho vām vṛṣaṇvasū ráthe vā́ṇīcyā́hitā ǀ
utá vām kakuhó mṛgáḥ pṛ́kṣaḥ kṛṇoti vāpuṣó mā́dhvī máma śrutam hávam ǁ
suṣṭubho vāṃ vṛṣaṇvasū rathe vāṇīcy āhitā |
uta vāṃ kakuho mṛgaḥ pṛkṣaḥ kṛṇoti vāpuṣo mādhvī mama śrutaṃ havam ||
Padapāṭha
सु॒ऽस्तुभः॑ । वा॒म् । वृ॒ष॒ण्व॒सू॒ इति॑ वृषण्ऽवसू । रथे॑ । वाणी॑ची । आऽहि॑ता ।
उ॒त । वा॒म् । क॒कु॒हः । मृ॒गः । पृक्षः॑ । कृ॒णो॒ति॒ । वा॒पु॒षः । माध्वी॒ इति॑ । मम॑ । श्रु॒त॒म् । हव॑म् ॥
सुऽस्तुभः । वाम् । वृषण्वसू इति वृषण्ऽवसू । रथे । वाणीची । आऽहिता ।
उत । वाम् । ककुहः । मृगः । पृक्षः । कृणोति । वापुषः । माध्वी इति । मम । श्रुतम् । हवम् ॥
su-stúbhaḥ ǀ vām ǀ vṛṣaṇvasū íti vṛṣaṇ-vasū ǀ ráthe ǀ vā́ṇīcī ǀ ā́-hitā ǀ
utá ǀ vām ǀ kakuháḥ ǀ mṛgáḥ ǀ pṛ́kṣaḥ ǀ kṛṇoti ǀ vāpuṣáḥ ǀ mā́dhvī íti ǀ máma ǀ śrutam ǀ hávam ǁ
su-stubhaḥ ǀ vām ǀ vṛṣaṇvasū iti vṛṣaṇ-vasū ǀ rathe ǀ vāṇīcī ǀ ā-hitā ǀ
uta ǀ vām ǀ kakuhaḥ ǀ mṛgaḥ ǀ pṛkṣaḥ ǀ kṛṇoti ǀ vāpuṣaḥ ǀ mādhvī iti ǀ mama ǀ śrutam ǀ havam ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 05.075.04
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 4.4.15.04
- Maṇḍala · Anuvāka · Ṛk
- 05.06.024
- Devatā देवता
- Aśvins
- Ṛṣi ऋषि
- Avasyu Ātreya
- Chandas छन्दस्
- Paṅkti
- Svara स्वरः
- पञ्चमः
Text and interpretations from the Ṛgveda database of theveda.org.in.