Ṛk 5.75.3
Saṃhitā
आ नो॒ रत्ना॑नि॒ बिभ्र॑ता॒वश्वि॑ना॒ गच्छ॑तं यु॒वं ।
रुद्रा॒ हिर॑ण्यवर्तनी जुषा॒णा वा॑जिनीवसू॒ माध्वी॒ मम॑ श्रुतं॒ हवं॑ ॥
आ नो रत्नानि बिभ्रताव् अश्विना गच्छतं युवम् |
रुद्रा हिरण्यवर्तनी जुषाणा वाजिनीवसू माध्वी मम श्रुतं हवम् ||
ā́ no rátnāni bíbhratāváśvinā gácchatam yuvám ǀ
rúdrā híraṇyavartanī juṣāṇā́ vājinīvasū mā́dhvī máma śrutam hávam ǁ
ā no ratnāni bibhratāv aśvinā gacchataṃ yuvam |
rudrā hiraṇyavartanī juṣāṇā vājinīvasū mādhvī mama śrutaṃ havam ||
Padapāṭha
आ । नः॒ । रत्ना॑नि । बिभ्र॑तौ । अश्वि॑ना । गच्छ॑तम् । यु॒वम् ।
रुद्रा॑ । हिर॑ण्यवर्तनी॒ इति॒ हिर॑ण्यऽवर्तनी । जु॒षा॒णा । वा॒जि॒नी॒व॒सू॒ इति॑ वाजिनीऽवसू । माध्वी॒ इति॑ । मम॑ । श्रु॒त॒म् । हव॑म् ॥
आ । नः । रत्नानि । बिभ्रतौ । अश्विना । गच्छतम् । युवम् ।
रुद्रा । हिरण्यवर्तनी इति हिरण्यऽवर्तनी । जुषाणा । वाजिनीवसू इति वाजिनीऽवसू । माध्वी इति । मम । श्रुतम् । हवम् ॥
ā́ ǀ naḥ ǀ rátnāni ǀ bíbhratau ǀ áśvinā ǀ gácchatam ǀ yuvám ǀ
rúdrā ǀ híraṇyavartanī íti híraṇya-vartanī ǀ juṣāṇā́ ǀ vājinīvasū íti vājinī-vasū ǀ mā́dhvī íti ǀ máma ǀ śrutam ǀ hávam ǁ
ā ǀ naḥ ǀ ratnāni ǀ bibhratau ǀ aśvinā ǀ gacchatam ǀ yuvam ǀ
rudrā ǀ hiraṇyavartanī iti hiraṇya-vartanī ǀ juṣāṇā ǀ vājinīvasū iti vājinī-vasū ǀ mādhvī iti ǀ mama ǀ śrutam ǀ havam ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 05.075.03
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 4.4.15.03
- Maṇḍala · Anuvāka · Ṛk
- 05.06.023
- Devatā देवता
- Aśvins
- Ṛṣi ऋषि
- Avasyu Ātreya
- Chandas छन्दस्
- Paṅkti
- Svara स्वरः
- पञ्चमः
Text and interpretations from the Ṛgveda database of theveda.org.in.