Ṛk 5.75.9
Saṃhitā
अभू॑दु॒षा रुश॑त्पशु॒राग्निर॑धाय्यृ॒त्वियः॑ ।
अयो॑जि वां वृषण्वसू॒ रथो॑ दस्रा॒वम॑र्त्यो॒ माध्वी॒ मम॑ श्रुतं॒ हवं॑ ॥
अभूद् उषा रुशत्पशुर् आग्निर् अधाय्य् ऋत्वियः |
अयोजि वां वृषण्वसू रथो दस्राव् अमर्त्यो माध्वी मम श्रुतं हवम् ||
ábhūduṣā́ rúśatpaśurā́gníradhāyyṛtvíyaḥ ǀ
áyoji vām vṛṣaṇvasū rátho dasrāvámartyo mā́dhvī máma śrutam hávam ǁ
abhūd uṣā ruśatpaśur āgnir adhāyy ṛtviyaḥ |
ayoji vāṃ vṛṣaṇvasū ratho dasrāv amartyo mādhvī mama śrutaṃ havam ||
Padapāṭha
अभू॑त् । उ॒षाः । रुश॑त्ऽपशुः । आ । अ॒ग्निः । अ॒धा॒यि॒ । ऋ॒त्वियः॑ ।
अयो॑जि । वा॒म् । वृ॒ष॒ण्व॒सू॒ इति॑ वृषण्ऽवसू । रथः॑ । द॒स्रौ॒ । अम॑र्त्यः । माध्वी॒ इति॑ । मम॑ । श्रु॒त॒म् । हव॑म् ॥
अभूत् । उषाः । रुशत्ऽपशुः । आ । अग्निः । अधायि । ऋत्वियः ।
अयोजि । वाम् । वृषण्वसू इति वृषण्ऽवसू । रथः । दस्रौ । अमर्त्यः । माध्वी इति । मम । श्रुतम् । हवम् ॥
ábhūt ǀ uṣā́ḥ ǀ rúśat-paśuḥ ǀ ā́ ǀ agníḥ ǀ adhāyi ǀ ṛtvíyaḥ ǀ
áyoji ǀ vām ǀ vṛṣaṇvasū íti vṛṣaṇ-vasū ǀ ráthaḥ ǀ dasrau ǀ ámartyaḥ ǀ mā́dhvī íti ǀ máma ǀ śrutam ǀ hávam ǁ
abhūt ǀ uṣāḥ ǀ ruśat-paśuḥ ǀ ā ǀ agniḥ ǀ adhāyi ǀ ṛtviyaḥ ǀ
ayoji ǀ vām ǀ vṛṣaṇvasū iti vṛṣaṇ-vasū ǀ rathaḥ ǀ dasrau ǀ amartyaḥ ǀ mādhvī iti ǀ mama ǀ śrutam ǀ havam ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 05.075.09
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 4.4.16.04
- Maṇḍala · Anuvāka · Ṛk
- 05.06.029
- Devatā देवता
- Aśvins
- Ṛṣi ऋषि
- Avasyu Ātreya
- Chandas छन्दस्
- Paṅkti
- Svara स्वरः
- पञ्चमः
Text and interpretations from the Ṛgveda database of theveda.org.in.