Sūkta 85
- Devatā देवता
- Varuṇa
- Ṛṣi ऋषि
- Atri Bhauma
- Chandas छन्दस्
- Triṣṭubh
Metres by ṛk
1st set of styles nicṛttriṣṭup (3, 4, 6, 8); virāṭtrisṭup (1, 2); svarāṭpaṅkti (5); brāhmyuṣnik (7)
2nd set of styles triṣṭubh
-
Ṛk 1
प्र स॒म्राजे॑ बृ॒हद॑र्चा गभी॒रं ब्रह्म॑ प्रि॒यं वरु॑णाय श्रु॒ताय॑ ।
वि यो ज॒घान॑ शमि॒तेव॒ चर्मो॑प॒स्तिरे॑ पृथि॒वीं सूर्या॑य ॥प्र सम्राजे बृहद् अर्चा गभीरम् ब्रह्म प्रियं वरुणाय श्रुताय |
वि यो जघान शमितेव चर्मोपस्तिरे पृथिवीं सूर्याय ||prá samrā́je bṛhádarcā gabhīrám bráhma priyám váruṇāya śrutā́ya ǀ
ví yó jaghā́na śamitéva cármopastíre pṛthivī́m sū́ryāya ǁpra samrāje bṛhad arcā gabhīram brahma priyaṃ varuṇāya śrutāya |
vi yo jaghāna śamiteva carmopastire pṛthivīṃ sūryāya ||प्र । स॒म्ऽराजे॑ । बृ॒हत् । अ॒र्च॒ । ग॒भी॒रम् । ब्रह्म॑ । प्रि॒यम् । वरु॑णाय । श्रु॒ताय॑ ।
वि । यः । ज॒घान॑ । श॒मि॒ताऽइ॑व । चर्म॑ । उ॒प॒ऽस्तिरे॑ । पृ॒थि॒वीम् । सूर्या॑य ॥प्र । सम्ऽराजे । बृहत् । अर्च । गभीरम् । ब्रह्म । प्रियम् । वरुणाय । श्रुताय ।
वि । यः । जघान । शमिताऽइव । चर्म । उपऽस्तिरे । पृथिवीम् । सूर्याय ॥prá ǀ sam-rā́je ǀ bṛhát ǀ arca ǀ gabhīrám ǀ bráhma ǀ priyám ǀ váruṇāya ǀ śrutā́ya ǀ
ví ǀ yáḥ ǀ jaghā́na ǀ śamitā́-iva ǀ cárma ǀ upa-stíre ǀ pṛthivī́m ǀ sū́ryāya ǁpra ǀ sam-rāje ǀ bṛhat ǀ arca ǀ gabhīram ǀ brahma ǀ priyam ǀ varuṇāya ǀ śrutāya ǀ
vi ǀ yaḥ ǀ jaghāna ǀ śamitā-iva ǀ carma ǀ upa-stire ǀ pṛthivīm ǀ sūryāya ǁ5.85.1 Aṣṭaka 4.4.30.1Anuvāka 5.6.92
-
Ṛk 2
वने॑षु॒ व्यं१॒॑तरि॑क्षं ततान॒ वाज॒मर्व॑त्सु॒ पय॑ उ॒स्रिया॑सु ।
हृ॒त्सु क्रतुं॒ वरु॑णो अ॒प्स्व१॒॑ग्निं दि॒वि सूर्य॑मदधा॒त्सोम॒मद्रौ॑ ॥वनेषु व्य् अन्तरिक्षं ततान वाजम् अर्वत्सु पय उस्रियासु |
हृत्सु क्रतुं वरुणो अप्स्व् अग्निं दिवि सूर्यम् अदधात् सोमम् अद्रौ ||váneṣu vyántárikṣam tatāna vā́jamárvatsu páya usríyāsu ǀ
hṛtsú krátum váruṇo apsvágním diví sū́ryamadadhātsómamádrau ǁvaneṣu vy antarikṣaṃ tatāna vājam arvatsu paya usriyāsu |
hṛtsu kratuṃ varuṇo apsv agniṃ divi sūryam adadhāt somam adrau ||वने॑षु । वि । अ॒न्तरि॑क्षम् । त॒ता॒न॒ । वाज॑म् । अर्व॑त्ऽसु । पयः॑ । उ॒स्रिया॑सु ।
हृ॒त्ऽसु । क्रतु॑म् । वरु॑णः । अ॒प्ऽसु । अ॒ग्निम् । दि॒वि । सूर्य॑म् । अ॒द॒धा॒त् । सोम॑म् । अद्रौ॑ ॥वनेषु । वि । अन्तरिक्षम् । ततान । वाजम् । अर्वत्ऽसु । पयः । उस्रियासु ।
हृत्ऽसु । क्रतुम् । वरुणः । अप्ऽसु । अग्निम् । दिवि । सूर्यम् । अदधात् । सोमम् । अद्रौ ॥váneṣu ǀ ví ǀ antárikṣam ǀ tatāna ǀ vā́jam ǀ árvat-su ǀ páyaḥ ǀ usríyāsu ǀ
hṛt-sú ǀ krátum ǀ váruṇaḥ ǀ ap-sú ǀ agním ǀ diví ǀ sū́ryam ǀ adadhāt ǀ sómam ǀ ádrau ǁvaneṣu ǀ vi ǀ antarikṣam ǀ tatāna ǀ vājam ǀ arvat-su ǀ payaḥ ǀ usriyāsu ǀ
hṛt-su ǀ kratum ǀ varuṇaḥ ǀ ap-su ǀ agnim ǀ divi ǀ sūryam ǀ adadhāt ǀ somam ǀ adrau ǁ5.85.2 Aṣṭaka 4.4.30.2Anuvāka 5.6.93
-
Ṛk 3
नी॒चीन॑बारं॒ वरु॑णः॒ कवं॑धं॒ प्र स॑सर्ज॒ रोद॑सी अं॒तरि॑क्षं ।
तेन॒ विश्व॑स्य॒ भुव॑नस्य॒ राजा॒ यवं॒ न वृ॒ष्टिर्व्यु॑नत्ति॒ भूम॑ ॥नीचीनबारं वरुणः कवन्धम् प्र ससर्ज रोदसी अन्तरिक्षम् |
तेन विश्वस्य भुवनस्य राजा यवं न वृष्टिर् व्य् उनत्ति भूम ||nīcī́nabāram váruṇaḥ kávandham prá sasarja ródasī antárikṣam ǀ
téna víśvasya bhúvanasya rā́jā yávam ná vṛṣṭírvyúnatti bhū́ma ǁnīcīnabāraṃ varuṇaḥ kavandham pra sasarja rodasī antarikṣam |
tena viśvasya bhuvanasya rājā yavaṃ na vṛṣṭir vy unatti bhūma ||नी॒चीन॑ऽबारम् । वरु॑णः । कव॑न्धम् । प्र । स॒स॒र्ज॒ । रोद॑सी॒ इति॑ । अ॒न्तरि॑क्षम् ।
तेन॑ । विश्व॑स्य । भुव॑नस्य । राजा॑ । यव॑म् । न । वृ॒ष्टिः । वि । उ॒न॒त्ति॒ । भूम॑ ॥नीचीनऽबारम् । वरुणः । कवन्धम् । प्र । ससर्ज । रोदसी इति । अन्तरिक्षम् ।
तेन । विश्वस्य । भुवनस्य । राजा । यवम् । न । वृष्टिः । वि । उनत्ति । भूम ॥nīcī́na-bāram ǀ váruṇaḥ ǀ kávandham ǀ prá ǀ sasarja ǀ ródasī íti ǀ antárikṣam ǀ
téna ǀ víśvasya ǀ bhúvanasya ǀ rā́jā ǀ yávam ǀ ná ǀ vṛṣṭíḥ ǀ ví ǀ unatti ǀ bhū́ma ǁnīcīna-bāram ǀ varuṇaḥ ǀ kavandham ǀ pra ǀ sasarja ǀ rodasī iti ǀ antarikṣam ǀ
tena ǀ viśvasya ǀ bhuvanasya ǀ rājā ǀ yavam ǀ na ǀ vṛṣṭiḥ ǀ vi ǀ unatti ǀ bhūma ǁ5.85.3 Aṣṭaka 4.4.30.3Anuvāka 5.6.94
-
Ṛk 4
उ॒नत्ति॒ भूमिं॑ पृथि॒वीमु॒त द्यां य॒दा दु॒ग्धं वरु॑णो॒ वष्ट्यादित् ।
सम॒भ्रेण॑ वसत॒ पर्व॑तासस्तविषी॒यंतः॑ श्रथयंत वी॒राः ॥उनत्ति भूमिम् पृथिवीम् उत द्यां यदा दुग्धं वरुणो वष्ट्य् आद् इत् |
सम् अभ्रेण वसत पर्वतासस् तविषीयन्तः श्रथयन्त वीराः ||unátti bhū́mim pṛthivī́mutá dyā́m yadā́ dugdhám váruṇo váṣṭyā́dít ǀ
sámabhréṇa vasata párvatāsastaviṣīyántaḥ śrathayanta vīrā́ḥ ǁunatti bhūmim pṛthivīm uta dyāṃ yadā dugdhaṃ varuṇo vaṣṭy ād it |
sam abhreṇa vasata parvatāsas taviṣīyantaḥ śrathayanta vīrāḥ ||उ॒नत्ति॑ । भूमि॑म् । पृ॒थि॒वीम् । उ॒त । द्याम् । य॒दा । दु॒ग्धम् । वरु॑णः । वष्टि॑ । आत् । इत् ।
सम् । अ॒भ्रेण॑ । व॒स॒त॒ । पर्व॑तासः । त॒वि॒षी॒ऽयन्तः॑ । श्र॒थ॒य॒न्त॒ । वी॒राः ॥उनत्ति । भूमिम् । पृथिवीम् । उत । द्याम् । यदा । दुग्धम् । वरुणः । वष्टि । आत् । इत् ।
सम् । अभ्रेण । वसत । पर्वतासः । तविषीऽयन्तः । श्रथयन्त । वीराः ॥unátti ǀ bhū́mim ǀ pṛthivī́m ǀ utá ǀ dyā́m ǀ yadā́ ǀ dugdhám ǀ váruṇaḥ ǀ váṣṭi ǀ ā́t ǀ ít ǀ
sám ǀ abhréṇa ǀ vasata ǀ párvatāsaḥ ǀ taviṣī-yántaḥ ǀ śrathayanta ǀ vīrā́ḥ ǁunatti ǀ bhūmim ǀ pṛthivīm ǀ uta ǀ dyām ǀ yadā ǀ dugdham ǀ varuṇaḥ ǀ vaṣṭi ǀ āt ǀ it ǀ
sam ǀ abhreṇa ǀ vasata ǀ parvatāsaḥ ǀ taviṣī-yantaḥ ǀ śrathayanta ǀ vīrāḥ ǁ5.85.4 Aṣṭaka 4.4.30.4Anuvāka 5.6.95
-
Ṛk 5
इ॒मामू॒ ष्वा॑सु॒रस्य॑ श्रु॒तस्य॑ म॒हीं मा॒यां वरु॑णस्य॒ प्र वो॑चं ।
माने॑नेव तस्थि॒वाँ अं॒तरि॑क्षे॒ वि यो म॒मे पृ॑थि॒वीं सूर्ये॑ण ॥इमाम् ऊ ष्व् आसुरस्य श्रुतस्य महीम् मायां वरुणस्य प्र वोचम् |
मानेनेव तस्थिवां अन्तरिक्षे वि यो ममे पृथिवीं सूर्येण ||imā́mū ṣvā́surásya śrutásya mahī́m māyā́m váruṇasya prá vocam ǀ
mā́neneva tasthivā́m̐ antárikṣe ví yó mamé pṛthivī́m sū́ryeṇa ǁimām ū ṣv āsurasya śrutasya mahīm māyāṃ varuṇasya pra vocam |
māneneva tasthivāṃ antarikṣe vi yo mame pṛthivīṃ sūryeṇa ||इ॒माम् । ऊं॒ इति॑ । सु । आ॒सु॒रस्य॑ । श्रु॒तस्य॑ । म॒हीम् । मा॒याम् । वरु॑णस्य । प्र । वो॒च॒म् ।
माने॑नऽइव । त॒स्थि॒ऽवान् । अ॒न्तरि॑क्षे । वि । यः । म॒मे । पृ॒थि॒वीम् । सूर्ये॑ण ॥इमाम् । ऊं इति । सु । आसुरस्य । श्रुतस्य । महीम् । मायाम् । वरुणस्य । प्र । वोचम् ।
मानेनऽइव । तस्थिऽवान् । अन्तरिक्षे । वि । यः । ममे । पृथिवीम् । सूर्येण ॥imā́m ǀ ūṃ íti ǀ sú ǀ āsurásya ǀ śrutásya ǀ mahī́m ǀ māyā́m ǀ váruṇasya ǀ prá ǀ vocam ǀ
mā́nena-iva ǀ tasthi-vā́n ǀ antárikṣe ǀ ví ǀ yáḥ ǀ mamé ǀ pṛthivī́m ǀ sū́ryeṇa ǁimām ǀ ūṃ iti ǀ su ǀ āsurasya ǀ śrutasya ǀ mahīm ǀ māyām ǀ varuṇasya ǀ pra ǀ vocam ǀ
mānena-iva ǀ tasthi-vān ǀ antarikṣe ǀ vi ǀ yaḥ ǀ mame ǀ pṛthivīm ǀ sūryeṇa ǁ5.85.5 Aṣṭaka 4.4.30.5Anuvāka 5.6.96
-
Ṛk 6
इ॒मामू॒ नु क॒वित॑मस्य मा॒यां म॒हीं दे॒वस्य॒ नकि॒रा द॑धर्ष ।
एकं॒ यदु॒द्ना न पृ॒णंत्येनी॑रासिं॒चंती॑र॒वन॑यः समु॒द्रं ॥इमाम् ऊ नु कवितमस्य मायाम् महीं देवस्य नकिर् आ दधर्ष |
एकं यद् उद्ना न पृणन्त्य् एनीर् आसिञ्चन्तीर् अवनयः समुद्रम् ||imā́mū nú kavítamasya māyā́m mahī́m devásya nákirā́ dadharṣa ǀ
ékam yádudnā́ ná pṛṇántyénīrāsiñcántīravánayaḥ samudrám ǁimām ū nu kavitamasya māyām mahīṃ devasya nakir ā dadharṣa |
ekaṃ yad udnā na pṛṇanty enīr āsiñcantīr avanayaḥ samudram ||इ॒माम् । ऊं॒ इति॑ । नु । क॒विऽत॑मस्य । मा॒याम् । म॒हीम् । दे॒वस्य॑ । नकिः॑ । आ । द॒ध॒र्ष॒ ।
एक॑म् । यत् । उ॒द्ना । न । पृ॒णन्ति॑ । एनीः॑ । आ॒ऽसि॒ञ्चन्तीः॑ । अ॒वन॑यः । स॒मु॒द्रम् ॥इमाम् । ऊं इति । नु । कविऽतमस्य । मायाम् । महीम् । देवस्य । नकिः । आ । दधर्ष ।
एकम् । यत् । उद्ना । न । पृणन्ति । एनीः । आऽसिञ्चन्तीः । अवनयः । समुद्रम् ॥imā́m ǀ ūṃ íti ǀ nú ǀ kaví-tamasya ǀ māyā́m ǀ mahī́m ǀ devásya ǀ nákiḥ ǀ ā́ ǀ dadharṣa ǀ
ékam ǀ yát ǀ udnā́ ǀ ná ǀ pṛṇánti ǀ énīḥ ǀ ā-siñcántīḥ ǀ avánayaḥ ǀ samudrám ǁimām ǀ ūṃ iti ǀ nu ǀ kavi-tamasya ǀ māyām ǀ mahīm ǀ devasya ǀ nakiḥ ǀ ā ǀ dadharṣa ǀ
ekam ǀ yat ǀ udnā ǀ na ǀ pṛṇanti ǀ enīḥ ǀ ā-siñcantīḥ ǀ avanayaḥ ǀ samudram ǁ5.85.6 Aṣṭaka 4.4.31.1Anuvāka 5.6.97
-
Ṛk 7
अ॒र्य॒म्यं॑ वरुण मि॒त्र्यं॑ वा॒ सखा॑यं वा॒ सद॒मिद्भ्रात॑रं वा ।
वे॒शं वा॒ नित्यं॑ वरु॒णार॑णं वा॒ यत्सी॒माग॑श्चकृ॒मा शि॒श्रथ॒स्तत् ॥अर्यम्यं वरुण मित्र्यं वा सखायं वा सदम् इद् भ्रातरं वा |
वेशं वा नित्यं वरुणारणं वा यत् सीम् आगश् चकृमा शिश्रथस् तत् ||aryamyám varuṇa mitryám vā sákhāyam vā sádamídbhrā́taram vā ǀ
veśám vā nítyam varuṇā́raṇam vā yátsīmā́gaścakṛmā́ śiśráthastát ǁaryamyaṃ varuṇa mitryaṃ vā sakhāyaṃ vā sadam id bhrātaraṃ vā |
veśaṃ vā nityaṃ varuṇāraṇaṃ vā yat sīm āgaś cakṛmā śiśrathas tat ||अ॒र्य॒म्य॑म् । व॒रु॒ण॒ । मि॒त्र्य॑म् । वा॒ । सखा॑यम् । वा॒ । सद॑म् । इत् । भ्रात॑रम् । वा॒ ।
वे॒शम् । वा॒ । नित्य॑म् । व॒रु॒ण॒ । अर॑णम् । वा॒ । यत् । सी॒म् । आगः॑ । च॒कृ॒म । शि॒श्रथः॑ । तत् ॥अर्यम्यम् । वरुण । मित्र्यम् । वा । सखायम् । वा । सदम् । इत् । भ्रातरम् । वा ।
वेशम् । वा । नित्यम् । वरुण । अरणम् । वा । यत् । सीम् । आगः । चकृम । शिश्रथः । तत् ॥aryamyám ǀ varuṇa ǀ mitryám ǀ vā ǀ sákhāyam ǀ vā ǀ sádam ǀ ít ǀ bhrā́taram ǀ vā ǀ
veśám ǀ vā ǀ nítyam ǀ varuṇa ǀ áraṇam ǀ vā ǀ yát ǀ sīm ǀ ā́gaḥ ǀ cakṛmá ǀ śiśráthaḥ ǀ tát ǁaryamyam ǀ varuṇa ǀ mitryam ǀ vā ǀ sakhāyam ǀ vā ǀ sadam ǀ it ǀ bhrātaram ǀ vā ǀ
veśam ǀ vā ǀ nityam ǀ varuṇa ǀ araṇam ǀ vā ǀ yat ǀ sīm ǀ āgaḥ ǀ cakṛma ǀ śiśrathaḥ ǀ tat ǁ5.85.7 Aṣṭaka 4.4.31.2Anuvāka 5.6.98
-
Ṛk 8
कि॒त॒वासो॒ यद्रि॑रि॒पुर्न दी॒वि यद्वा॑ घा स॒त्यमु॒त यन्न वि॒द्म ।
सर्वा॒ ता वि ष्य॑ शिथि॒रेव॑ दे॒वाधा॑ ते स्याम वरुण प्रि॒यासः॑ ॥कितवासो यद् रिरिपुर् न दीवि यद् वा घा सत्यम् उत यन् न विद्म |
सर्वा ता वि ष्य शिथिरेव देवाधा ते स्याम वरुण प्रियासः ||kitavā́so yádriripúrná dīví yádvā ghā satyámutá yánná vidmá ǀ
sárvā tā́ ví ṣya śithiréva devā́dhā te syāma varuṇa priyā́saḥ ǁkitavāso yad riripur na dīvi yad vā ghā satyam uta yan na vidma |
sarvā tā vi ṣya śithireva devādhā te syāma varuṇa priyāsaḥ ||कि॒त॒वासः॑ । यत् । रि॒रि॒पुः । न । दी॒वि । यत् । वा॒ । घ॒ । स॒त्यम् । उ॒त । यत् । न । वि॒द्म ।
सर्वा॑ । ता । वि । स्य॒ । शि॒थि॒राऽइ॑व । दे॒व॒ । अध॑ । ते॒ । स्या॒म॒ । व॒रु॒ण॒ । प्रि॒यासः॑ ॥कितवासः । यत् । रिरिपुः । न । दीवि । यत् । वा । घ । सत्यम् । उत । यत् । न । विद्म ।
सर्वा । ता । वि । स्य । शिथिराऽइव । देव । अध । ते । स्याम । वरुण । प्रियासः ॥kitavā́saḥ ǀ yát ǀ riripúḥ ǀ ná ǀ dīví ǀ yát ǀ vā ǀ gha ǀ satyám ǀ utá ǀ yát ǀ ná ǀ vidmá ǀ
sárvā ǀ tā́ ǀ ví ǀ sya ǀ śithirā́-iva ǀ deva ǀ ádha ǀ te ǀ syāma ǀ varuṇa ǀ priyā́saḥ ǁkitavāsaḥ ǀ yat ǀ riripuḥ ǀ na ǀ dīvi ǀ yat ǀ vā ǀ gha ǀ satyam ǀ uta ǀ yat ǀ na ǀ vidma ǀ
sarvā ǀ tā ǀ vi ǀ sya ǀ śithirā-iva ǀ deva ǀ adha ǀ te ǀ syāma ǀ varuṇa ǀ priyāsaḥ ǁ5.85.8 Aṣṭaka 4.4.31.3Anuvāka 5.6.99
Text, recitation and interpretations from the Ṛgveda database of theveda.org.in.